कार्त्तिक-शुक्ल-प्रबोधिनी-एकादशी-माहात्म्यम्

ब्रह्मोवाच

प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम्।
मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम॥१॥
तावद्गर्जति विप्रेन्द्र गङ्गा भागीरथी क्षितौ।
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी॥२॥
तावद्गर्जन्ति तीर्थानि ह्यासमुद्रं सरांसि च।
यावत्प्रबोधिनी विष्णोस्तिथि याति कार्तिकी॥३॥
अश्वमेधसहस्राणि राजसूयशतानि च।
एकेनेवोपवासेन प्रबोधिन्या लभेन्नरः॥४॥

नारद उवाच

एकभक्ते च किं पुण्यं किं पुण्यं नक्तभोजने।
उपवासे च किं पुण्यं तन्मे ब्रूहि पितामह॥५॥

ब्रह्मोवाच

एकभक्तेन जन्मोत्थं नक्तेन द्विजनुर्भवम्।
सप्तजन्मभवं पापमुपवासेन नश्यति॥६॥
यदुर्लभं यदप्राप्यं त्रैलोक्ये न तु गोचरम्।
तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी॥७॥
मेरुमन्दरमात्राणि पापान्युप्राणि यानि तु।
एकेनैवोपवासेन दहते पापहारिणी॥८॥
पूर्वजन्मसहस्रेस्तु य कर्म ह्युपार्जितम्।
जागरस्तत्प्रबोधिन्यां दहते चूलराशिवत्॥९॥
उपवास प्रबोधिन्यां यः करोति स्वभावतः।
विधिवन्मुनिशार्दूल यथोक्तं लमते फलम्॥१०॥
यथोक्तं सुकृतं यस्तु विधिवत्कुरुते नरः।
स्वल्पं मुनिवर श्रेष्ठ मेरुतुल्यं भवेञ्च तत्॥११॥
विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम्।
अणुमात्रं न चाप्नोति फलं धर्मस्म नारद॥१२॥
ये ध्यायन्ति मनोवृत्त्या करिष्यामः प्रबोधिनीम्।
तेषां विलीयते पापं पूर्वजन्मशतोद्भवम्॥१३॥
समतीतं भविष्यं च वर्तमानं कुलायुतम्।
विष्णुलोकं नयत्याश प्रबोधिन्यां तु जागरात॥१४॥
वसन्ति पितरो हृष्टा विष्णुलोकेत्यलङ्कृताः।
विमुक्ता नारकेदुखेः पूर्वकर्मसमुद्भवैः॥१५॥
कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः।
कृत्वा तु जागरं विष्णोधौतपापो भवेन्मुने॥१६॥
दुष्प्राप्यं यत्फलं विप्रैरश्वमेधादिभिर्मखैः।
प्राप्यते तत्सुखेनैव प्रबोधिन्यां तु जागरात्॥१७॥
आप्लुत्य सर्वतीर्थेषु दत्त्वा गाः काञ्चनं महीम्।
न तत्फलमवाप्नोति यत्कृत्वा जागरं हेरेः॥१८॥
जातः स एवं सुकृती कुलं तेनैव पावितम्।
कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी॥१९॥
यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च।
तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम्॥२०॥
सर्वकृत्यं परित्यज्य तुष्टयर्थ चक्रपाणिनः।
उपोष्यकादशी रम्यां कार्तिके हरिबोधिनीम्॥२१॥
स ज्ञानी स च योगी च स तपस्वी जितेन्द्रियः।
विष्णुप्रियतरा ह्येषा धर्मसारस्य दायिनी॥२२॥
सकृदेनामुपोष्यैव मुक्तिभाक् च भवेन्नरः।
प्रबोधिनीमुपोषित्वा न गर्भ विशते नरः॥२३॥
कर्मणा मनसा वाचा पाएं यत्समुपार्जितम्।
तत्क्षालयति गोविन्दः प्रबोधिन्यां तु जागरात्॥२४॥
स्नानं दानं जपो होमः समुद्दिश्य जनार्दनम्।
नरैर्यत् क्रियते वत्स प्रबोधिन्यां तदक्षयम्॥२५॥
बनानेन देवेशं परितोष्य जनार्दनम्।
विराजयन्दिशः सर्वाः प्रयाति भवनं हरेः॥२६॥
बाल्ये यच्चाजितं वत्स यौवने वार्धके तथा।
शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु॥२७॥
तत्क्षालयति गोविन्दो ह्यस्यामभ्यर्चितो मुने।
चन्द्रसूर्योपरागे च यत्फलं परिकीर्तितम्।
तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां तु जागरात॥२८॥
जन्मप्रभृति यत्पुण्यं नरेणासादितं भवेत्।
वृथा भवति तत्सर्वमकृते कार्तिकवते॥२९॥
अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः।
जन्मार्जितस्य पुण्यस्य फलं नाप्नोति नारद॥३०॥
तस्मात्त्वया प्रयत्नेन देवदेवो जनार्दनः।
उपासनीयो विप्रेन्द्र सर्वकामफलप्रदः॥३१॥
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः।
अवश्यं स नरो वत्स चान्द्रायणफलं लभेत्॥३२॥
न तथा तुष्यते यज्ञैर्न दानैर्मुनिसत्तम।
यथा शास्त्रकथालापैः कार्तिके मधुसूदनः॥३३॥
ये कुर्वन्ति कथां विष्णोर्ये शृण्वन्ति समाहिताः।
श्लोकाई श्लोकमेकं वा कार्तिके गोशतं फलम्॥३४॥
श्रेयसे लोभबुद्धया वा यः करोति हरेः कथाम्।
कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम्॥३५॥
नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम्।
कार्तिके तु विशेषेण गोसहस्रफलं लभेत्॥३६॥
प्रबोधवासरे विष्णोः कुरुते यो हरेः कथाम्।
सप्तद्वीपवतीदान फलं स लभते मुने॥३७॥
कृत्वा विष्णुकथां दिव्यां येऽर्चयन्ति कथाविदम्।
स्वशक्त्या सुनिशार्दूल तेषां लोकाः सनातनाः॥३८॥
ब्रह्मणो वचनं श्रुत्वा नारदः पुनरबवीत्।

नारद उवाच

विधानं ब्रूहि मे स्वामिन्नेकादश्याः सुरोत्तम॥३९॥
चीर्णन येन भगवन्यादृशं फलमाप्नुयात्।
नारदस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत्॥४०॥

ब्रह्मोवाच

ब्राह्म मुहूर्ते चोत्थाय ह्येकादश्यां द्विजोत्तम।
स्मानं चैव प्रकर्तव्यं दन्तधावनपूर्वकम्॥४१॥
नद्या तडागे कूपे वा वाप्यां गेहे तथैव च।
नियमार्थे महाभाग इमं मन्त्रमुदीरयेत्॥४२॥
एकादश्यां निराहारः स्थित्वाऽहनि परे ह्यहम्।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥४३॥
गृहीत्वानेन नियमं देवदेवं च चक्रिणम्।
सम्पूज्य भक्त्या तुष्टात्मा झुपवासं समाचरेत्॥४४॥
रात्री जागरणं कुर्यादेवदेवस्य सविधौ।
गीतं नृत्यं च वाद्यं च तथा कृष्णकां मुने॥४५॥
बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुङ्कुमैः।
हरेः पूजा विधातव्या कार्तिक्या बोधवासरे॥४६॥
वित्तशाष्ठचं न कर्तव्यं सम्प्राप्त हरिवासरे।
फलैर्नानाविर्दिव्यैः प्रबोधिन्यां तु भक्तितः॥४७॥
शङ्खतोयं समादाय ह्यों देयो जनार्दने।
यत्फलं सर्वतीर्थेषु सर्वदाने यत्कलम्॥४८॥
तत्फलं कोटिगुणितं दत्तेऽधे बोधवासरे।
अगस्त्य कुसुमैर्देवं पूजयेद्यो जनार्दनम्॥४९॥
देवेन्द्रोऽपि तदने च करोति करसम्पुटम्।
न तत्करोति विप्रेन्द्र तपसा तोषितो हरिः॥५०॥
यत् करोति हृषीकेशो मुनिपुष्परलकृतः।
बिल्वपत्रैश्च ये कृष्णं कार्तिके कलिवर्धन॥५१॥
पूजयन्ति महाभक्त्या मुक्तिस्तेषां मयोदिता।
तुलसीदलपुष्पैर्ये पूजयन्ति जनार्दनम्॥५२॥
कार्तिके स दहेत्तेषां पापं जन्मायुतोद्भवम्।
दृष्टा स्पृष्टाथवा ध्याता कीर्तिता नमिता स्तुता॥५३॥
रोपिता सचिता नित्यं पूजिता तुलसी शुभा।
नवधा सेविता भक्त्या कार्तिके यर्दिनदिने॥५४॥
युगकोटिसहस्राणि ते वसन्ति हरेहे।
रोपिता तुलसी यैस्तु व ते वसुधातले॥५५॥
कुले तेषां तु ये जाता ये भविष्यन्ति ये गताः।
आकल्पयुगसाहस्रं तेषां वासो हरेहे॥५६॥
कदम्बकुसुमैर्देवं येऽर्चयन्ति जनार्दनम्।
तेषां यमालयो नैव प्रसादाचकपाणिनः॥५७॥
दृष्ट्वा कदम्बकुसुमं प्रीतो भवति केशवः।
किं पुनः पूजितो विप्र सर्वकामप्रदो हरिः॥५८॥
यःपुनः पाटलापुष्पैः कार्तिके गरुडध्वजम्।
अर्चयेत्परया भक्त्या मुक्तिभागी भवेद्धि सः॥५९॥
बकुलाशोककुसुक्र्येऽर्चयन्ति जगत्पतिम्।
विशोकास्ते भविष्यन्ति यावचन्द्रदिवाकरौ॥६०॥
येऽर्चयन्ति जगन्नाथं करवीरैः सितासितैः।
तेषां सदा तु विप्रेन्द्र प्रीतो भवति केशवः॥६१॥
मञ्जरी सहकारस्य केशवोपरि ये नराः।
यच्छन्ति ते महाभागा गोकोटिफलभागिनः॥६२॥
दूर्वाकुरेहरेर्यस्तु पूजाकाले प्रयच्छति।
पूजाफलं शतगुणं सम्यगामोति मानवः॥६३॥
शमीपत्रैस्तु ये देवं पूजयन्ति सुखप्रदम्।
यममार्गो महाघोरो निस्तीर्णस्तैस्तु नारद॥६४॥
वर्षाकाले तु देवेश कुसुमैश्चम्पकोद्भवैः।
येऽर्चयन्ति न ते माः संसरेयुः पुनर्भवे॥६५॥
सुवर्णकेतकीपुष्पं यो ददाति जनार्दने।
कोटिजन्मार्जितं पापं दहते गरुडध्वजः॥६६॥
कुङ्कुमारुणवर्णा च गन्धाच्या शतुपत्रिकाम्।
यो ददाति जगनाथे श्वेतदीपालये वसेत्॥६७॥
एवं सम्पूज्य रात्रौ च केशवं भुक्तिमुक्तिदम्।
प्रातरुत्थाय च ब्रह्मन् गत्वा तु सजला नदीम्॥६८॥
तत्र स्नात्वा जपित्वा च कृत्वा पौर्वाहिकी क्रियाः।
गृहं गत्वा च सम्पूज्यः केशवो विधिवन्नरैः॥६९॥
व्रतस्य पूरणार्थाय ब्राह्मणान्भोजयेत्सुधीः।
क्षमापयेत्सुवचसा भक्तियुक्तेन चेतसा॥७०॥
गुरुपूजा ततः कार्या भोजनाच्छादनाभिः।
दक्षिणा गौश्च दातव्या तुष्टयर्थ चक्रपाणिनः॥७१॥
भूयसी चैव दातव्या ब्राह्मणेभ्यः प्रयत्नतः।
नियमश्चैव सन्त्याज्यो ब्राह्मणाने प्रयत्नतः॥७२॥
कथयित्वा द्विजेभ्यस्तु दद्याच्छक्त्या च दक्षिणाम्।
नक्तभोजी नरो राजन् ब्राह्मणान् भोजयेच्छुभान्॥७३॥
अयाचिते बलीव सहिरण्यं प्रदापयेत्।
अमांसाशी नरो यस्तु प्रददेद्रां सदक्षिणाम्॥७४॥
धात्रीस्नायी मरो दद्यादधि माक्षिकमेव च।
फिलानां नियमे राजन् फलदान समाचरेत्॥७५॥
तेलस्थाने घृतं देयं घृतस्थाने पयः स्मृतम्।
धान्यानां नियमे राजन् दीयन्ते शालिगण्डुलाः॥७६॥
दद्याद्र्शयने शय्यां सतूला सपरिच्छदाम्।
पत्रभोजी नरो दद्याद्भाजनं वृतसंयुतम्॥७७॥
मौने घण्टा तिलांश्चैव सहिरण्यं प्रदापयेत्।
धारणे तु स्वकेशानामादर्श दारयेद्बुधः॥७८॥
उपानहौ प्रदातव्यावुपामत्परिवर्जनात्।
लवणस्य च सन्त्यागे शर्करां च प्रदापयेत्॥७९॥
नित्यं दीपप्रदो यस्तु विष्णोर्वा विबुधालये।
सदीपं सवृतं तानं काञ्चनं वा दशायुतम्॥८०॥
प्रदद्याद्विष्णुभक्ताय व्रतसम्पूर्तिहेतवे।
एकान्तरोपवासे तु कुम्भानष्टौ प्रदापयेत्॥८१॥
सवनाकाञ्चनोपेतान् सर्वान् सालङ्कृताञ्छुभान्।
यथोक्तकरणे शक्तिर्यदि न स्यात्तदा मुने॥८२॥
द्विजवाक्यं स्मृतं राजन् सम्पूर्णवतसिद्धिदम्।
नत्वा विसर्जयेद्विप्रास्ततो भुनीत च स्वयम्॥८३॥
यत्त्यक्तं चतुरो मासान् समाप्तिं तस्य चाचरेत्।
एवं य आचरेत्पार्थ सोनन्तफलमाप्नुयात्॥८४॥
अवसाने तु राजेन्द्र वासुदेवपुरं व्रजेत्।
यश्चाविन्नं समाप्यैवं चातुर्मास्यव्रतं नृप॥८५॥
स भवेत्कृतकृत्यस्तु न पुनर्मानुषो भवेत्।
एतत्कृत्वा महीपाल परिपूर्ण व्रतं भवेत्॥८६॥
व्रतवैकल्यमासाद्य ह्यन्धः कुष्ठी प्रजायते।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया।
पठनाच्छ्रवणाद्वाऽपि लभेगोदान फलम्॥८७॥

॥इति श्रीस्कान्दे महापुराणे कार्त्तिकशुक्लप्रबोधिन्येकादाशीमाहात्म्यं सम्पूर्णम्॥