कार्त्तिक-कृष्ण-रमा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
कथयस्व प्रसादेन मम स्नेहाजनार्दन।
कार्तिकस्यासिते पक्षे किन्नामेकादशी भवेत्॥१॥
श्रीकृष्ण उवाच
श्रूयतां राजशार्दूल कथयामि तवाग्रतः।
कार्तिके कृष्णपक्षे तु रमानाम्नी सुशोभना॥२॥
एकादशी समाख्याता महापापहरा परा।
अस्याः प्रसअतो राजन् माहात्म्य प्रवदामि ते॥३॥
मुचुकुन्द इति ख्यातो बभूव नृपतिः पुरा।
देवेन्द्रेण समं यस्य मित्रत्वमभवनृप॥४॥
यमेन वरुणेनैव कुबेरेण समं तथा।
विभीषणेन चैतस्य सखित्वमभवत्सह॥५॥
विष्णुभक्तः सत्यसन्धो बभूव नपतिः सदा।
तस्यैव शासतो राजन राज्यं निहतकण्टकम्॥६॥
बभूव दुहिता गेहे चन्द्रभागा सरिद् वरा।
शोभनाय च सा दत्ता चन्द्रसेनसुताय वै॥७॥
स कदाचित्समायानः श्वशुरस्य गृहे नृप।
एकादशीव्रतमिदं समायातं सुपुण्यदम्॥८॥
समागते व्रतदिने चन्द्रभागा त्वचिन्तयत्।
किं भविष्यति देवेश मम भर्तातिदुर्बलः॥९॥
क्षुधां सोढुं न शक्नोति पिता चैवोप्रशासनः।
पटहस्तायने यस्य सम्प्राप्ते दशमीदिने॥१०॥
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने।
श्रुत्वा पटहनियों शोभनस्त्वब्रवीत्प्रियाम्॥११॥
किं कर्तव्यं मया कान्ते ब्रूझुपायं सुशोभने।
कृतेन येन में सम्यग्जीवितं न विनश्यति॥१२॥
चन्द्रभागोवाच
मत्पितुर्वेश्मनि विभो भोक्तव्यं नापि केनचित्।
गजैरश्वैस्तथा चोष्ट्रैरन्यैः पशुभिरेत च॥१३॥
तृणमन्नं तथा वारि न भोक्तव्य हरेर्दिने।
मानवैश्च कुतः कान्त भुज्यते हरिवासरे॥१४॥
यदि त्वं भोक्ष्यसे कान्त ततो गेहात्प्रयास्यताम्।
एवं विचार्य मनसा सुदृढं मानसं कुरु॥१५॥
शोभन उवाच
सत्यमेतत्त्वया चोक्तं करिष्येऽहमुपोषणम्।
देवेन विहितं यद्वै तत्तथैव भविष्यति॥१६॥
इति दिष्टे मति कृत्वा चकार व्रतमुत्तमम्।
क्षुत्तृषापीडितततुः स बभूवातिदुःखितः॥१७॥
एवं व्याकुलित तस्मिन्त्रादित्योऽस्तमगा द्विरिम्।
वैष्णवानां नराणां सा निशा हर्षविवर्धिनी॥१८॥
हरिपूजारतानां च जागरासक्तचेतसाम्।
बभूव नृपशार्दूल शोभनस्यातिदुःसहा॥१९॥
रवेरुदयवेलायां शोभनः पञ्चतां गतः।
दाहयामास राजा तं राजयोग्यैश्च दारुभिः॥२०॥
चन्द्रभागा नात्मदेहं ददाह पिटवारिता।
कृत्वौर्ध्वदेहिकं तस्य तस्थौ जनकवेश्मनि॥२१॥
शोभनेन नृपश्रेष्ठ रमाव्रतप्रभावतः।
प्राप्तं देवपुरं रम्यं मन्दराचलसानुनि॥२२॥
अत् त्तममनाधृष्यमसङ्ख्येयगुणान्वितम्।
हेमस्तम्भमयैः सौधे रत्नवैदूर्यमण्डितैः॥२३॥
स्फाटिकार्वविधाकारोर्वचित्रैरुपशोभितम्।
सिंहासनसमारूढः सुश्वेतच्छत्रचामरः॥२४॥
किरीटकुण्डलयुतो हारकेयूरभूषितः।
स्तूयमानश्च गन्धर्वैरप्सरोगणसवितः॥२५॥
शोभः शोभते तत्र देवराडपरो यथा।
सोमशमॆति विख्यातो मुचुकुन्दपुरे वसन्॥२६॥
तीर्थयात्राप्रसङ्गेन भ्रमन् विप्रो ददर्श तम्।
नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः॥२७॥
आसनादुत्थितः शीघ्रं नम चक्रे द्विजोत्तमम्।
चकार कुशलप श्रेश्वशुरस्य नपश्य च।
कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च॥२८॥
सोमशर्मोवाच
कुशलं वर्तते राजञ्छशुरस्य गृहे तव।
चन्द्रभागा कुशलिनी सर्वतः कुशलं पुरे॥२९॥
स्ववृतं कथ्यतां राजन्नाश्चर्य परमं मम।
पुरं विचित्रं रुचिरं न दृष्ट केनचित्क्वचित्॥३०॥
एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया।
शोभन उवाच
कार्तिकस्यासिते पक्षे नाना चैकादशी रमा॥३१॥
तामुपोष्प मया प्राप्तं द्विजेन्द्रपुरमध्रुवम्।
ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तम॥३२॥
द्विजेन्द्र उवाच
कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम्।
तत्त्वं कथय राजेन्द्र तत्करिष्यामि नान्यथा॥३३॥
शोभन उवाच
मयतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम्।
तेनेदमधुवम् मन्ये ध्रुवं भवति तच्छृणु॥३४॥
मुचुकुन्दस्य दुहिता चन्द्रभागा सुशोभना।
तस्यै कथय वृत्तान्तं ध्रुवमेतद्भविष्यति॥३५॥
तच्छ्रुत्वाऽथ द्विजवरस्तस्यै सर्व न्यवेदयत्।
श्रुत्वाऽथ सा द्विजवचो विस्मयोत्फुल्ललोचना॥३६॥
प्रत्यक्षमथवा स्वप्नस्त्वयैतत्कथ्यते द्विज।
सोमशर्मोवाच
प्रत्यक्षं पुत्रि ते कान्तो मया दृष्टो महावने॥३७॥
देवतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया।
अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु॥३८॥
चन्द्रभागोवाच
तत्र मां नय विप्रर्षे पतिदर्शनलालसाम्।
आत्मनो व्रतपुण्येन करिप्यामि पुरं ध्रुवम्॥३९॥
आवयोर्द्विज संयोगो यथा भवति तत्कुरु।
प्राप्यते हि महत्पुण्यं कृतं योगे विमुक्तयोः॥४०॥
इति श्रुत्वा सह तया सोमशर्मा जगाम ह।
आश्रमं वामदेवस्य मन्दराचलसन्निधौ॥४१॥
वामदेवोऽशृणोत्सर्व वृत्तान्तं कथितं तयोः।
अभ्यषिञ्चञ्चन्द्रभागा वेदमन्त्ररैथोज्ज्वलाम्॥४२॥
ऋषिमन्त्रप्रभावेण विष्णुवासरसेवनात्।
दिव्यदेहा बभूवासो दिव्यां गतिमवाप ह॥४३॥
पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना।
सहर्षः शोभनोऽतीव दृष्ट्वा कान्तां समागताम्॥४४॥
समाहूय स्वके वामे पार्श्वे तो सन्न्यवेशयत्।
सा चोवाच मिय हर्षाञ्चन्द्रभागा प्रियं वचः॥४५॥
शृणु कान्त हितं वाक्यं यत्पुण्यं विद्यते मयि।
अष्टधिका जाता यदाहं पितृवेश्मनि॥४६॥
मया ततःप्रभृति च कृतमेकादशीव्रतम्।
यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा॥४७॥
तेन पुण्यप्रभावेण भविष्यति पुरं ध्रुवम्।
सर्वकामसमृद्धं च यावदाभूतसम्प्लवम्॥४८॥
एवं सा नृपशार्दूल रमते पतिना सह।
दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता॥४९॥
शोभनोऽपि तया सार्ध रमते दिव्यविग्रहः।
रमावतप्रभावेण मन्दराचलसानुनि॥५०॥
चिन्तामणिसमा ह्येषा कामधेनुसमाथवा।
रमाभिधाना नृपते तवाने कथिता मया॥५१॥
ईदृशं च व्रतं राजन् ये कुर्वन्ति नरोत्तमाः।
ब्रह्महत्यादिपापानि नाशं यान्ति न संशयः॥५२॥
एकादश्या रमाख्याया माहात्म्यं शृणुयानरः।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥५३॥
॥इति श्रीब्रह्माण्डपुराणे कार्तिककृष्णाया रमाख्याया माहात्म्यम्॥
❀