आश्विन-शुक्ल-पाशाङ्कुशा-एकादशी-माहात्म्यम्

धुधिष्ठिर उवाच

कथयस्व प्रसादेन भगवन् मधुसूदन।
इषस्य शुक्लपक्षे तु किन्नामैकादशी भवेत्॥१॥

श्रीकृष्ण उवाच

शृणु राजेन्द्र वक्ष्यामि माहात्म्यं पापनाशनम्।
शुक्लपक्षे चाश्वयुजि भवेदकादशी तु या॥२॥
पाशाङ्कुशति विख्याता सर्वपापहरा परा।
पद्मनाभाभिधानं तु पूजयेत् तत्र मानवः॥३॥
सर्वाभीष्टफलप्रात्प्यै स्वर्गमोक्षप्रदं नृणाम्।
तपस्तप्त्वा नरस्ती चिरं सुनियतेन्द्रियः॥४॥
यत्फलं समवाप्नोति तं नत्वा गरुडध्वजम्।
कृत्वाऽपि बहुशः पापं नरो मोहसमन्वितः॥५॥
न याति नरकं घोरं नत्वा पापहरं हरिम्।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च॥६॥
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात्।
देवं शार्ङ्गधरं विष्णु ये प्रपन्ना जनार्दनम्॥७॥
न तेषां यमलोकश्च नृणां वै जायते कचित्।
उपोष्यैकादशीमेको प्रसङ्गनापि मानवाः॥८॥
न यान्ति यातनां यामी पापं कृत्वाऽपि दारुणम्।
वैष्णवः पुरुषो भूत्वा शिवनिन्दा करोति यः॥९॥
यो निन्देवैष्णवं लोके स याति नरकं ध्रुवम्।
अश्वमेधसहस्राणि राजसूयशतानि च॥१०॥
एकादश्युपवासस्य कलां नाहन्ति षोडशीम्।
एकादशीसमं पुण्यं किञ्चिल्लोके न विद्यते॥११॥
नेदृशं पावनं किञ्चित्रिषु लोकेषु विद्यते।
यादृशं पद्मनाभस्य दिन पातकहानिदम्॥१२॥
तावत्पापानि तिष्ठन्ति दहेऽस्मिन् मनुजाधिप।
यावनोपोष्यते भक्त्या एद्मनाभदिनं शुभम्।
व्याजेनोपोषितमपि न दर्शयति भास्करिम्॥१३॥
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी।
सुकलप्रदा ह्येषा धनधान्यप्रदायिनी॥१४॥
न गङ्गा न गया राजन काशी न च पुष्करम्।
न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात्॥१५॥
रागे जागरणं कृत्वा समुपोष्य हरेर्दिनम्।
अनायासेन भूपाल प्राप्यते वैष्णवं पदम्॥१६॥
दश वै मातृके पक्षे दश राजेन्द्र पैतृके।
प्रियाया दश पक्षे तु पुरुषानुद्धरेनरः॥१७॥
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः।
स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम्॥१८॥
बालत्वे यौवने चैव वृद्धत्वेऽपि नृपोत्तम।
उपोष्य द्वादशी नूनं नैति पापोऽपि दुर्गतिम्॥१९॥
पाशाकुशामुपोष्यैव आश्विने चासितेतरे।
सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति॥२०॥
दत्त्वा हेमतिलान् भूमि गामनमुदकं तथा।
उपानद्वस्वच्छत्रादि न पश्यति यमं नरः॥२१॥
यस्य पुण्यविहीनानि दिनान्यपगतानि च।
स लोहकारभस्नेव श्वसनपि न जीवति॥२२॥
अवन्ध्यं दिवसं कुर्यादरिद्रोऽपि नृपोत्तम।
समाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः॥२३॥
तडागारामसौधानां सत्राणां पुण्यकर्मणाम्।
कर्तारो नैव पश्यन्ति धीरास्तां यमयातनाम्॥२४॥
दीर्घायुषो धनाढयाश्च कुलीना रोगवर्जिताः।
दृश्यन्ते मारवा लोके पुण्यकर्तार ईदृशाः॥२५॥
किमत्र बहुमोक्तेन यान्त्यधर्मेण दुर्गतिम्।
आरोहन्ति दिवं धर्मेात्र कार्या विचारणा॥२६॥
इति ते कथितं राजन् यत्पृष्टोऽहं त्वयानघ।
पाशाङ्कुशाया माहात्म्यं किमन्यच्छोतुमिच्छसि॥२७॥

॥इति श्रीब्रह्माण्डपुराणे आश्विनशुक्लैकादश्याः पाशाङ्कुशाख्याया माहात्म्यं सम्पूर्णम्॥