आश्विन-कृष्णेन्दिरा-एकादशी-माहात्म्यम्

युधिष्ठिर उवाच

कथयस्व प्रसादेन ममाग्रे मधुसूदन।
आश्विने कृष्णपक्षे तु किन्नामकादशी भवेत्॥१॥

श्रीकृष्ण उवाच

आश्विनस्यासिते पक्षे इन्दिरानाम नामतः।
तस्या व्रतप्रभावेण महापापं प्रणश्यति॥२॥
अधोयोनिगतानां च पितॄणां गतिदायिनी।
शृणुष्वावहितो राजन्कथां पापहरी पराम्॥३॥
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्।
पुरा कृतयुगे राजा बभूव रिपुसूदनः॥४॥
इन्द्रसेन इति ख्यातः पुरी माहिष्मती प्रति।
सराज्यं पालयामास धर्मेण यशसान्वितः॥५॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः।
माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः॥६॥
जपन् गोविन्दनामानि मुक्तिदानि नराधिपः।
ध्यानेन कालं नयति नित्यमध्यात्मचिन्तकः॥७॥
एकस्मिन् दिवसे राज्ञि सुखासीने सदोगते।
अवतीर्यागमद्धीमानम्बरानारदो मुनिः॥८॥
तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृताञ्जलिः।
पूजयित्वाविधिना चासने सन्न्यवेशयत्॥९॥
सुखोपविष्टः सः मुनिः प्रत्युवाच नृपोत्तमम्।
कुशलं तव राजेन्द्र सप्तस्वङ्गेषु वर्तते॥१०॥
धर्मे मतिर्वर्तते ते विष्णुभाक्तिरतिस्तथा।
इति वाक्यं तु देवर्षेः श्रुत्वा राजा तमब्रवीत्॥११॥

राजोवाच

त्वत्प्रसादान्मुनिश्रेष्ठ सर्वत्र कुशलं मम।
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्॥१२॥
प्रसादं कुरु विप्रर्षे ब्रह्मागमनकारणम्।
इति राज्ञो वचः श्रुत्वा देवर्षिर्वाक्यमब्रवीत्॥१३॥

नारद उवाच

श्रूयतां राजशार्दूल मद्वचो विस्मयप्रदम्।
ब्रह्मलोकादहं प्राप्तो यमलोकं द्विजोत्तम॥१४॥
शमनेनार्चितो भक्त्या उपविष्टो वरासने।
धर्मशील सत्यवांस्तु भास्करिं समुपासते॥१५॥
बहुपुण्यप्रकर्ता च व्रतवैकल्यदोषतः।
सभायां श्राद्धदेवस्य मया दृष्टः पिता तव॥१६॥
कथितस्तेन सन्देशस्त निबोध जनेश्वर।
इन्द्रसन इति ख्यातो राजा माहिष्मतीप्रभुः॥१७॥
तस्याने कथय ब्रह्मन् स्थितं मां यमसन्निधौ।
केनलि चान्तराये गर्वजन्मोद्वेन वै॥१८॥
स्वर्ग प्रेषय मां पुत्र इन्दिरावतदानतः।
इत्युकोऽहं समायातः समीरं तव पार्थिव॥१९॥
पितुः स्वर्गतये राजनिन्दिरावतमाचर।
तेन व्रतमभावेग स्वर्ग यास्यति ते पिता॥२०॥

राजोवाच

कथयस्व प्रसादेन भगवनिन्दिराव्रतम्।
विधिना केन कर्तव्यं कस्मिन् पक्षे तिथौ तथा॥२१॥

नारद उवाच

शृगु राजन् हितं वच्मि व्रतस्यास्य विधिं शुभम्।
आश्विनस्यासिते पक्षे दशमीदिवसे शुभे॥२२॥
प्रातः स्नानं प्रकुर्वीत श्रद्वायु तेन चेतसा।
ततो मध्याह्नसमये स्नानं कृत्वा बहिर्जल॥२३॥
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धासमविन्तः।
एकभक्तं ततः कृत्वा रात्री भूमौ शयीत च॥२४॥
प्रभाते विमले जाते प्राप्ते चैकादशीदिने।
मुखप्रक्षालनं कुर्यादन्तधावनपूर्वकम्॥२५॥
उपवासस्य नियम गृहीयाद्भक्तिभावतः।
अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः॥२६॥
श्वो भोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत।
इत्येवं नियमं कृत्वा मध्याह्नसमये तथा॥२७॥
शालग्रामशिला तु श्राद्धं कृत्वा यथाविधि।
भोजयित्वा द्विजाछुद्वान्दक्षिणाभिः सुपूजितान्॥२८॥
पितृशेष समावाय गवे दद्याद्विचक्षणः।
पूजयित्वा हृषीकेशं धूपगन्धादिभिस्तथा॥२९॥
रात्री जागरणं कुर्यात्केशवस्य समीपतः।
ततः प्रभातसमये सम्प्राप्ते द्वादशीदिने॥३०॥
अर्चयित्वा हरि भक्त्या भोजयित्वा द्विजानथ।
बन्धुदौहित्रपुत्राद्यैः स्वयं भुञ्जीत वाङ्ग्यतः॥३१॥
अनेन विधिना राजकुरु व्रतमतन्द्रितः।
विष्णुलो के प्रयास्यन्ति पितरस्तव भूपते॥३२॥
इत्युक्त्वा नृपतिं राजन् मुनिरन्तरधीयत।
यथोक्तविधिना राजा चकार व्रतमुत्तमम्॥३३॥
अन्तःपुरेण सहितः पुत्रभृत्यसमन्वितः।
कृते व्रते तु कौन्तेय पुष्पवृष्टिरभूदिवः॥३४॥
तत्पिता गरुडारूढो जगाम हरिमन्दिरम्।
इन्द्रसेनौऽपि राजर्षिः कृत्वा राज्यमकण्टकम्॥३५॥
राज्ये निवेश्य तनयं जगाम विदिवं स्वयम्।
इन्दिरावतमाहात्म्यं तवाग्रे कथितं मया॥३६॥
पठनाच्छ्रवणाचास्य सर्वपापैः प्रमुच्यते।
भुक्त्वेह निखिलान्भोगाविष्णुलोके वसच्चिरम्॥३७॥

॥इति श्रीब्रह्मवैवर्तपुराणे आश्विनकृष्णैकादश्या इन्दिरानाम्न्या माहात्म्यं सम्पूर्णम्॥