भाद्रपद-शुक्ल-पद्मा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
नभस्य सितपक्ष तु किन्नामैकादशी भवेत्।
को देवः को विधिस्तस्याः किं पुण्यं च वदस्व नः॥१॥
श्रीकृष्ण उवाच
कथयामि महापुण्यां स्वर्गमोक्षदायिनीम्।
वामनैकादशी राजन्सर्वपापहारां पराम्॥२॥
इमामेव जयन्त्याख्यां प्राहुरेकादशीं नृप।
यस्य श्रवणमात्रेण सर्वपापक्षयो भवेत्॥३॥
पापिनां पापशमनं जयन्तीव्रतमुत्तमम्।
नातः पर तरा राजन्न वै मोक्षप्रदायिनी॥४॥
एतस्मात्कारणाद्राजन्कर्तव्या गतिमिच्छता।
वैष्णव मम भक्तैस्तु मनुजैर्मत्परायणैः॥५॥
नभस्ये वामनो यैस्तु पूजितस्तैर्जगत्रयम्।
पूजितं नाव सन्देहस्ते यान्ति हरिसन्निधिम्॥६॥
वामनः पूजितो येन कमलैः कमलेक्षणः।
नभस्यसितपक्षे तु जयन्त्येकादशीदिने॥७॥
तेनार्चितं जगत्सर्व वयो देवाः सनातनाः।
एतस्मात्कारणाद्राजन्कर्तव्यो हरिवासरः॥८॥
अस्मिन्कृते न कर्तव्यं किञ्चिदस्ति जगत्रये।
अस्या प्रसुप्तो भगवानेत्यङ्गपरिवर्तनम्॥९॥
तस्मादेनां जनाः सर्वे वदन्ति परिवर्तिनीम्।
युधिष्ठिर उवाच
संशयोऽस्ति महान्मह्यं श्रूयतां च जनार्दन॥१०॥
कथं सुप्तोऽसि देवेश कथं यास्यङ्गवर्तनम्।
किमर्थ देवदेवेश बलिर्बद्धस्त्वयासुरः॥११॥
सन्तुष्टाः पृथिवीदेवाः किमकुर्वञ्जनार्दन।
को विधिः किं व्रतं चैव चातुर्मास्यमुपासताम्॥१२॥
त्वयि मुप्ते जगनाथ किं कुर्वन्ति जनाः प्रभो।
एतद्विस्तरतो ब्रूहि संशयं हर मे प्रभो॥१३॥
श्रीकृष्ण उवाच
श्रूयतां राजशार्दूल कथां पापहरी पराम्।
बालवै दानवः पूर्वमासीत्रेतायुगे नृप॥१४॥
अपूजयच्च मां नित्यं मद्भक्तो मत्परायणः।
जपैस्तु विविधैः सूक्तैर्यजते मांस नित्यशः॥१५॥
द्विजानां पूजको नित्यं यज्ञकर्मकृताशयः।
परन्त्विन्द्रकृतद्वेषो देवलोकमजीजयत्॥१६॥
महत्तमिह लोकश्च जितस्तेन महात्मना।
विलोक्य च ततः सर्वे देवाः संहत्य मन्त्र यन्॥१७॥
सवर्मिलित्वा गन्तव्यं देवं विज्ञापितुं प्रभुम्।
ततश्च देवऋषिभिः साकमिन्द्रो गतः प्रभुम्॥१८॥
शिरसा ह्यवनीं गत्वा स्तुत इन्द्रेण सूक्तिभिः।
गुरुणा देवतैः सार्ध बहुधा पूजितो ह्यहम्॥१९॥
ततो वामनरूपेण ह्यवतीर्णश्च पञ्चमः।
अत्युग्ररूपेण तदा सर्वब्रह्माण्डरूपिणा॥२०॥
बालकेन जितः सोऽथ सत्यमालम्ब्य तस्थिवान्।
युधिष्ठिर उवाच
त्वया वामनरूपेण सोऽसुरश्च जितः कथम्॥२१॥
एतत्कथय देवेश मह्यं भक्ताय विस्तरात।
श्रीकृष्ण उवाच
मयाऽलीकेन स बालः प्रार्थितो बटुरूपिणा॥२२॥
पदत्रयमिता भूमि देहि मे भुवनत्रयम्।
दत्तं भवति ते राजन्नात्र कार्या विचारणा॥२३॥
इत्युक्तश्च मया राजा दत्तवास्त्रिपदां भुवम्।
सङ्कल्पमात्राद्विवृधे देहविक्रमः परम्॥२४॥
भूलोके तु कृतौ पादौ भुवोङ्के तु जानुनी।
स्वलोङ्के तु कटिं न्यस्य महर्लोके तथोदरम्॥२५॥
जनलोके तु हृदयं तपोलोके च कण्ठकम्।
सत्यलोके मुखं स्थाप्य उत्तमाङ्ग तथोर्ध्वतः॥२६॥
चन्द्रसूर्यग्रहाश्चैव भगणो योगसंयुतः।
सेन्द्राश्चैव तदा देवा नागाः शेषादयः परे॥२७॥
अस्तुवन्वेदसम्भूतैः सूक्तैश्च विविधैस्तु माम्।
करे गृहीत्वा तु बलिमब्रुवं वचनं तदा॥२८॥
एकेन पूरिता पृथ्वी द्वितीयेन त्रिविष्टपम्।
तृतीयस्य तु पादस्य स्थानं देहि ममानघ॥२९॥
एवमुक्ते मया सोऽपि मस्तके दत्तवान्बलिः।
ततो वै मस्तके ह्येकं पदं दत्तं मया तदा॥३०॥
क्षिप्तो रसातले राजन्दानवो मम पूजकः।
विनयावनतं दृष्ट्वा प्रसन्नोऽस्मि जनार्दनः॥३१॥
बले वसामि सततं सन्निधौ तव मानद।
इत्यवोचं महाभागं बालि वैरोचनि तदा॥३२॥
नमस्यशुक्लपक्षे तु परिवर्तिनि वासरे।
ममैका तत्र मूर्तिश्च बलिमाश्रित्य तिष्ठति॥३३॥
द्वितीया शेषपृष्ठे वै क्षीराब्धौ सागरोत्तमे।
सुप्ता भवति भो भूप यावच्चायाति कार्तिकी॥३४॥
एतस्मात्कारणाद्राजन्कर्तव्यैषा प्रयत्नतः।
एकादशी महापुण्या पवित्रा पापहारिणी॥३५॥
अस्यां प्रसुप्तो भगवानेत्यङ्गपरिवर्तनम्।
एतस्यां पूजयेदेवं त्रैलोक्यस्य पितामहम्॥३६॥
दधिदानं प्रकर्तव्यं रौप्यतण्डुलसंयुतम्।
रात्री जागरणं कृत्वा मुक्तो भवति मानवः॥३७॥
एवं यः कुरुते राजनेकादश्या व्रतं शुभम्।
सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम्॥३८॥
स देवलोकं सम्प्राप्य भ्राजते चन्द्रमा यथा।
शृणुयाच्चैव यो मर्त्यः कथा पापहरां पराम्।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥३९॥
॥इति श्रीस्कन्दपुराणे भाद्रपदशुक्लायाः परिवर्तिनीनामैकादश्या माहात्म्यं सम्पूर्णम्॥
❀