भाद्रपद-कृष्णाजा-एकादशी-माहात्म्यम्

युधिष्ठिर उवाच

भाद्रस्य कृष्णपक्षे तु किन्नामैकादशी भवेत्।
एनदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन॥१॥

श्रीकृष्ण उवाच

शृणुष्वैकमना राजन् कथयिष्यामि विस्तरात्।
अजेति नाम्ना विख्याता सर्वपापप्रणाशिनी॥२॥
पूजयित्वा हृषीकेशं व्रतं तस्याः करोति यः।
पापानि तस्य नश्यन्ति व्रतस्य श्रवणादपि॥३॥
नातः परतरा राजैल्लोकद्वयहितावहा।
सत्यमुक्तं मया ह्येतेन्नासत्यं भाषितं मम॥४॥
हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा।
चक्रवर्ती सत्यसन्धः समस्ताया भुवः पतिः॥५॥
कस्यापि कर्मणो योगाद्राज्यभ्रष्टो बभूव सः।
विक्रीय वनितां पुत्रं स चकारात्मविक्रयम्॥६॥
पुल्कप्तस्य च दासत्वं गतो राजा स पुण्यकृत्।
सत्यमालम्ब्य राजेन्द्र मृतचैलापहारकः॥७॥
सोऽभवन्नृपतिश्रेष्ठो न सत्याञ्चलितस्तथा।
एवं गतस्य नृपतेर्बहवो वत्सरा गताः॥८॥
ततश्चिन्तापरो राजा बभूवात्यन्तदुःखितः।
किं करोमि क्व गच्छामि निष्कृतिमें कथं भवेत्॥९॥
इति चिन्तयतस्तस्य मनस्य वृजिनार्णवे।
आजगाम मुनिः कैश्चिज्ज्ञात्वा राजानमातुरम्॥१०॥
परोपकरणार्थाय निर्मितो ब्रह्मणा द्विजः।
स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः॥११॥
कृताञ्जलिपुटो भूत्वा गौतमस्याग्रतः स्थितः।
कथयामास वृत्तान्तमात्मनो दुःखसंयुतम्॥१२॥
श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः।
उपदेशं नृपतये व्रतस्यास्य मुनिर्ददौ॥१३॥
मासि भाद्रपदे राजन् कृष्णपक्षे तु शोभना।
एकादशी समाख्याता अजानाम्रातिपुण्यदा॥१४॥
तस्याः कुरु व्रतं राजपापनाशो भविष्यति।
तव भाग्यवशादेषा सप्तमेऽति समागता॥१५॥
उपवासपरो भूत्वा रात्री जागरणं कुरु।
एवं तस्या व्रत चीर्णे सर्वपापक्षयो भवेत्॥१६॥
तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम।
इत्येवं कथयित्वा तु मुनिरन्तरधीयत॥१७॥
मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम्।
कृते तस्मिन्नते राज्ञः पापस्यान्तोऽभवत्क्षणात्॥१८॥
श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च।
यदुःखं बहुभिर्वर्षेभोक्तव्यं तत्क्षयो भवेत्॥१९॥
निस्तीर्ण दुःखो राजासीद्वतस्यास्य प्रभावतः।
पत्न्या सह समायोगं पुत्रजीवनमाप सः॥२०॥
देवदुन्दुभयो नेदुः पुष्पवर्षमभद्दिवः।
एकादश्याः प्रभावेण प्राप्त राज्यमकण्टकम्॥२१॥
स्वर्ग लेभे हरिश्चन्द्रः सपुरः सपरिच्छदः।
ईदृग्विधं व्रतं राजन् ये कुर्वन्ति द्विजोत्तमाः॥२२॥
सर्वपापविनिर्मुक्तास्त्रिदिवं यान्ति ते ध्रुवम्।
पठनाच्छ्रवणाद्राजन्नश्वमेधफलं भवेत्॥२३॥

॥इति श्रीब्रह्माण्डपुराणे भाद्रपदकृष्णाया अजानाम्न्या एकादश्या माहात्म्यं सम्पूर्णम्॥