श्रावण-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
श्रावणस्य सिते पक्षे किनामैकादशी भवेत्।
कथयस्व प्रसादेन ममाने मधुसूदन॥१॥
श्रीकृष्ण उवाच
शृणुष्वावहितो राजन् कथा पापहरा पराम्।
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्॥२॥
द्वापरल्य युगस्यादौ पुरा माहिष्मतीपुरे।
राजा महीजिदाख्यातो राज्यं पालयति स्वकम्॥३॥
पुत्रहीनस्य तस्यैव न तद् राज्यं सुखप्रदम्।
अपुत्रस्य सुखं नास्ति इहलोके परत्र च॥४॥
यततोऽस्य सुतप्राप्तौ कालो बहुतरो गतः।
न प्राप्तश्च मुतो राज्ञा सर्वसौख्यप्रदो नृणाम्॥५॥
दृष्ट्वात्मानं प्रवयसं राजा चिन्तापरोऽभवत्।
सदोगतः प्रजामध्य इदं वचनमब्रवीत्॥६॥
इहजन्मनि भो लोका न मया पातकं कृतम्।
अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि॥७॥
ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचित्।
न्यासापहाग्ने न कृतः परस्य बहुपापदः॥८॥
सुतवत्पालिता लोका धर्मेण विजिता मही।
दुष्टेषु पातितो दण्डो बन्धुपुत्रोपमेष्वपि॥९॥
शिष्टाः सुपूजिता लोका द्वेष्याश्चापि महाजनाः।
इत्येवं व्रजते मार्गे धर्मयुक्ते द्विजोत्तमाः।
कस्मान्मम गृहे पुत्रो न जातस्तद्विचार्यताम्॥१०॥
इति वाक्य द्विजाः श्रुत्वा समजाः सपुरोहिताः।
मन्त्रयित्वा नृपहितं जग्मुस्ते गहनं वनम्॥११॥
इतस्ततश्च पश्यन्तश्चाश्रमानुषिसेवितान्।
नृपतेहितमिच्छन्तो ददृशुर्मुनिसत्तमम्॥१२॥
तप्यमानं तपो घोरं चिदानन्दं निरामयम्।
निराहारं जितात्मानं जितक्रोध सनातनम्॥१३॥
लोमशं धर्मतत्त्वज्ञं सर्वशास्त्रविशारदम्।
दीर्घायुषं महात्मानमनेकब्रह्मसम्मितम्॥१४॥
कल्पे गते यस्यैकस्मिन्नेक लोम विशीर्यते।
अतो लोमशनामानं त्रिकालज्ञ महामुनिम्॥१५॥
तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम्।
यथान्यायं यथार्ह ते नमश्चकुर्यथोदितम्॥१६॥
विनयावनताः सर्वे ऊचुश्चैव परस्परम्।
अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः॥१७॥
तांस्तथा प्रणतान्दृष्ट्वा ह्युवाच मुनिसत्तमः।
लोमश उवाच
किमर्थामह सम्प्राप्ताः कथयध्वं च कारणम्॥१८॥
मद्दर्शनालादगिरा भवन्तः स्तुवते किमु।
असंशयं करिष्यामि भवतां यद्वितं भवेत्॥१९॥
परोपकृतये जन्म मादृशानां न संशयः।
जना ऊचुः
श्रूयताममिधास्यामो वयमागमकारणम्॥२०॥
संशयच्छेदनार्थाय तव सन्निधिमागताः।
पद्मयोनेः परतरस्त्वत्तः श्रेष्ठो न विद्यते॥२१॥
अतः कार्यवशात्प्राप्ताः समीपं भवतो वयम्।
महीजिनाम राजासौ पुत्रहीनोस्ति साम्प्रतम्॥२२॥
वयं तस्य प्रजा ब्रह्मन् पुत्रवत्तेन पालिताः।
तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः॥२३॥
तपः कर्तुमिहायाता मतिं कृत्वा तु नैष्ठिकीम्।
तस्य भाग्यवशादृष्टस्त्वमस्माभिर्द्विजोत्तम॥२४॥
महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम्।
उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत्॥२५॥
इति तेषां वचः श्रुत्वा मुहूर्त ध्यानमास्थितः।
प्रत्युवाच मुनिख़त्वा तस्य जन्म पुरातनम्॥२६॥
लोमश उवाच
पूर्वजन्मनि वैश्योऽयं धनहीनो नृशंसकृत्।
वाणिज्यकर्मनिरतो मामाद् प्रामान्तरं भ्रमन्॥२७॥
ज्येष्ठे मासि सिते पक्ष द्वादशीदिवसे तथा।
मध्याह्ने ह्युमणौ प्राप्ते ग्रामसीन्नि तृषाकुलः॥२८॥
रम्यं जलाशयं दृष्ट्वा जलपाने मनो दधौ।
सद्यःसूता सवत्सा च धेनुस्तत्र समागता॥२९॥
तृषातुरा निदाघार्ता तस्य चापः पपौ तु सा।
पिबन्ती वारयित्वा तामसी तोयं स्वयं पपौ॥३०॥
कर्मणस्तस्य पाकेन पुत्रहीनो नृपोऽभवत्।
पूर्वजन्मकृतात्पुण्यात्प्राप्तं राज्यमकण्टकम्॥३१॥
जना ऊचुः
पुग्यात्पापं क्षयं याति पुराणे श्रूयते मुने।
पुण्योपदेशं कथय येन पापक्षयो भवेत्॥३२॥
यथा भवत्प्रसादेन पुत्रोऽस्य भविता तथा।
लोमश उवाच
श्रावणे शुक्लपक्षे तु पुत्रदानाम विश्रुता॥३३॥
एकादशीतिथिश्चास्ति कुरुध्वं तद्वतं जनाः।
यथाविधि यथान्याय्य यथोक्तं जागरान्वितम्॥३४॥
तस्याः पुण्यं सुविमलं देयं नृपतये जनाः।
एवं कृते सुनिया राजः पुत्रो भविष्यति॥३५॥
श्रुत्वा तु लोमशवचस्तं प्रणम्य द्विजोत्तमम्।
प्रजग्मुः स्वगृहान् सर्वे हषर्कोत्फुल्लविलोचनाः।
श्रावणं तु समासाद्य स्मृत्वा लोमशभाषितम्॥३६॥
राज्ञा सह व्रतं चक्रुः सर्वे श्रद्धासमन्विताः।
द्वादशीदिवसे पुण्यं ददुपतये जनाः॥३७॥
दत्ते पुण्ये तु सा राज्ञी गर्भमाधत्त शोभनम्।
प्राप्ते प्रसवकाले सा सुषुवे पुत्रमूर्जितम्॥३८॥
एवमेषा नृपश्रेष्ठ पुत्रदानाम विश्रुता।
कर्तव्या सुखमिच्छद्भिरिह लोके परत्र च॥३९॥
श्रुत्वा माहात्म्यमेतस्याः सर्वपापैः प्रमुच्यते।
इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं लभेत्॥४०॥
॥इति श्रीभविष्योत्तरपुराणे पुत्रदाख्यश्रावणशुक्कैकादशीमाहात्म्यं सम्पूर्णम्॥
❀