श्रावण-कृष्ण-कामिका-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
आषाढशुक्लपक्षे तु यदेवशयनव्रतम्।
तन्मया श्रुतपूर्व हि पुराणे बहुविस्तरम्॥१॥
श्रावणे कृष्णपक्षे तु किन्नामैकादशी भवेत्।
एतत्कथय गोविन्द वासुदेव नमोऽस्तु ते॥२॥
श्रीकृष्ण उवाच
शृणु राजन् प्रवक्ष्यामि व्रतं पापप्रणाशनम्।
नारदाय पुरा राजन् पृच्छते च पितामहः॥३॥
परं यदुलवांस्तात तदहं ते वदामि च।
नारद उवाच
भगवञ्छ्रोतुमिच्छामि त्वत्तोऽहं कमलासन॥४॥
श्रावणस्यासिते पक्षे किनामैकादशी भवेत्।
को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो॥५॥
इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत्।
ब्रह्मोवाच
शृणु नारद ते वच्मि लोकानां हितकाम्यया॥६॥
श्रावणैकादशी कृष्णा कामिकेति च नामतः।
तस्याः श्रवणमात्रेण वाजपेयफलं लभेत्॥७॥
तस्यां यः पूजयेद् देवं शङ्खचक्रगदाधरम्।
श्रीधराख्यं हारं विष्णुं माधवं मधुसूदनम्॥८॥
यजते ध्यायतेऽथो वै तस्य पुण्यफलं शृणु।
न गङ्गायां न काश्यां वै नैमिष न च पुष्करे॥९॥
तत्फलं समवाप्नोति यत्फलं विष्णुपूजनात्।
केदारे च कुरुक्षेत्रे राहुप्रस्ते दिवाकरे॥१०॥
न तत्फलमवाप्नोति यत्फलं कृष्णपूजनात्।
गोदावर्या गुरौ सिंहे व्यतीपाते च गण्डके॥११॥
म तकलमवाप्नोति यत्फलं कृष्णपूजनात्।
ससागरवनोपेतां यो ददाति वसुन्धराम्॥१२॥
कामिकानतकारी च ह्युभौ समकलौ स्मृतौ।
प्रलूयमानां यो धेनुं दद्यात्सोपस्करां नरः॥१३॥
तत्फलं समवाप्नोति कामिकाबलकारकः।
श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः॥१४॥
तेनैव पूजिता देवा गन्धवारगपन्नगाः।
तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः॥१५॥
पूजनीयो यथाशक्त्या मनुष्यः पापभीरूभिः।
संसारार्णवमना ये पारपासनाकुलाः॥१६॥
तेषामुद्धरणार्थाय कामिकावतमुत्तमम्।
नातः परतरा काचित्पवित्रा पापहारिणी॥१७॥
एवं नारद जानीहि स्वयमाह पुरा हरिः।
अध्यात्मविद्यानिरर्यकलं प्राप्यते नरैः॥१८॥
ततो बहुलरं विद्धि कामिकात्रतसेवनात्।
रात्रौ जागरणं कुर्यात्कामिकावनकुन्नरः॥१९॥
न पश्यति यम रौद्रं नैव पश्यति दुर्गतिम्।
न गच्छनि कुयोनि च कामिकाव्रतसेवनात्॥२०॥
कामिकाया व्रतेनैव कैवल्यं योगिनो गताः।
तस्मात्सर्वप्रयलेन कर्नव्या नियतात्मभिः॥२१॥
तुलसीप्रभवैः पत्रों नरः पूजयेद्धरिम्।
न व स लिप्यते पापैः पद्मपत्रमिवाम्भसा॥२२॥
सुवर्णभारमेकं तु रजतं च चतुर्गुणम्।
तत्फलं समवाप्नोति तुलसीदलपूजनात्॥२३॥
रत्नमौक्तिकवैदूर्यप्रवालादिमिर्चितः।
न तुष्यति तथा विष्णुस्तुल लीपूजनाद् यथा॥२४॥
तुलसीमनरीभिस्तु पूजितो येन केशवः।
आजन्मकृतपापस्य तेन सम्मार्जिता लिपिः॥२५॥
या दृष्टा निखिलाघसंवशमनी स्पृष्टा घः पावनी
रोगाणामभिवन्दिता निरलिनी सिकान्तकत्रासिनी।
प्रत्यासतिविधाधिनी भगवतः कुष्गस्य संरोपिना
न्यस्ता तचर विनुकिकलदा तस्यै तुलस्यै नमः॥२६॥
दीपं ददाति यो भयो दिवारात्रौ हरेर्दिने।
तस्य पुण्यस्य सङ्ख्यानं चित्रगुप्तोऽपि वेचि न॥२७॥
कृष्णाने दीको यस्य ज्वले देकादशीदिने।
पितरस्तस्य तृप्यन्ति अमृतेन दिवि स्थिताः॥२८॥
घृतेन दीप प्रज्वाल्य तिलतलेन वा पुनः।
प्रयाति सूर्यलोकेऽसौ दीपकोटिशतैर्वृतः॥२९॥
अयं तवाग्रे कथितः कामिकामहिमा मया।
अतो नरेः प्रकर्तव्या सर्वपातकहारिणी॥३०॥
ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी।
त्रिदिवस्थानदात्री च महापुण्यफलप्रदा॥३१॥
श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः।
विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते॥३२॥
॥इति श्रीब्रह्मवैवर्तपुराणे श्रावणकृष्णैकादश्याः कामिकाया माहात्म्यं सम्पूर्णम्॥
❀