आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम् (भविष्य-पुराणम्)

कृष्ण उवाच

इयमेकादशी राजञ्छयनीत्यभिधीयते।
विष्णोः प्रसादसिद्धयर्थमस्यां च शयनव्रतम्॥१॥
कर्तव्यं राजशार्दूल जनैर्मोक्षेच्छुमिः सदा।
चातुर्मास्यव्रतारम्भोऽप्यस्यामेव विधीयते॥२॥

युधिष्ठिर उवाच

कथं कृष्ण प्रकर्तव्यं श्रीविष्णोः शयनव्रतम्।
तब्रूहि कृपया देव चातुर्मास्यप्रतानि च॥३॥
श्रीकृष्ण उवाचशृणु पार्थ प्रवक्ष्यामि गोविन्दशयनव्रतम्।
चातुर्मास्ये च यान्युतान्यासंस्तानि व्रतानि च॥४॥
कर्कराशिगते सूर्ये शुचौ रुक्के तु पक्षके।
एकादश्यां जगनाथं स्वापयेन्मधुसूदनम्॥५॥
तुलाराशिस्थिते तस्मिन् पुनरुत्थापयेद्धरिम्।
आषाढल्य सिते पक्षे एकादश्यामुपोषितः॥६॥
चातुर्मास्यव्रतानां तु कुर्वीत नियमं ततः।
स्थापयेत् प्रतिमा विष्णो शङ्खचक्रगदाधराम्॥७॥
पीताम्बरधरां सौम्यां पर्यङ्के वै सिते शुभे।
सितवस्त्रसमाच्छन्ने सोपधाने युधिष्ठिर॥८॥
इतिहासपुराणज्ञो ब्राह्मणो वेदपारगः।
नापयित्वा दधिक्षीरघृतक्षौद्रसिताजलैः॥९॥
समालेप्य शुभैर्गन्धैधूपैर्दीपैश्च भूरिशः।
पूजयेत्कुसुमैः शस्तैमन्त्रेणानेन पाण्डव॥१०॥
सुप्ते त्वाय जगन्नाथे जगत्सुप्तं चराचरम्।
विबुद्धे त्वयि बुध्येत जगत्सर्व चराचरम्॥११॥
एवं तां प्रतिमां विष्णोः पूजयित्वा युधिष्ठिर।
प्रभाषेताग्रतो विष्णोः कृताञ्जलिपुटो नरः॥१२॥
चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि।
ग्रहीष्ये नियमाञ्छुद्वानिर्विघ्रान्कुरु मे प्रभो॥१३॥
इति सम्प्रार्थ्य देवेशं प्रहः संशुद्धमानसः।
स्त्री वा नरो वा मद्भक्तो धर्मार्थ च धृतव्रतः॥१४॥
गृहीयानियमानेतान् दन्तधावन पूर्वकम्।
व्रतप्रारम्भकालास्तु प्रोक्ताः पञ्चैव विष्णुना॥१५॥
एकादशी द्वादशी च पौर्णिमा च तथाष्टमी।
कर्कटाख्या च सङ्क्रान्तिस्तेषु कुर्याद् यथाविधि॥१६॥
चतुर्धा गृह्य वै चीर्ण चातुर्मास्यव्रतं नरः।
कार्तिक शुक्लपक्षे तु द्वादश्यां तत्समापयत्॥१७॥
न शैशवं च मौव्यं च शुक्रगुवोर्ने वा तिथेः।
खण्डत्वं चिन्तयेदादौ चातुर्मास्यविधौ नरः॥१८॥
अशुचिर्वा शुचिर्वाऽपि यदि स्त्री यदि वा पुमान्।
व्रतमेकं नरः कृत्वा मुच्यते सर्वपातकैः॥१९॥
प्रतिवर्षे तु यः कुर्याद्रतं वै संस्मरन् हरिम्।
देहान्तेऽतिप्रदीप्तेन विमानेनार्कतेजसा॥२०॥
मोदते विष्णुलोकेऽसौ यावदाभूतसम्प्लवम्।
तेषां फलानि वक्ष्यामि कर्तृणां त पृथक्पृथक्॥२१॥
देवतायतने नित्यं मार्जनं जलसेचनम्।
प्रलेपनं गोमयेन रङ्गवल्ल्यादिकं तथा॥२२॥
यः करोति नरश्रेष्ठश्चातुर्मास्यमतन्द्रितः।
समाप्तौ च यथाशक्त्या कुर्याद्राह्मणभोजनम्॥२३॥
सप्तजन्मसु विप्रेन्द्रः सत्यधर्मपरो भवेत्।
दना क्षीरेण चाज्येन क्षौद्रेण सितया तथा॥२४॥
नापयेद्विधिना देवं चातुर्मास्ये जनाधिप।
स याति विष्णुसारूप्य सुखमक्षय्यमश्नुते॥२५॥
नृपो भूमिं प्रदद्याद्यो यथाशक्त्या च काञ्चनम्।
विप्राय देवमुद्दिश्य सफलं च सदक्षिणम्॥२६॥
अक्षयान् लभते भोगान् स्वर्ग इन्द्र इवापरः।
लोक स समवाप्नोति विष्णोरत्र न संशयः॥२७॥
देवाय हेमपद्मं तु दद्यानैवेद्यसंयुतम्।
गन्धपुष्पाक्षताद्यैर्यो देवब्राह्मणयोरपि॥२८॥
पूजां यः कुरुते नित्यं चातुर्मास्ये व्रती नरः।
अक्षयं सुखमाप्नोति पुरन्दरपुरं व्रजेत्॥२९॥
यस्तु वै चतुरो मासांस्तुलस्या हरिमर्चयेत्।
तुलसी काञ्चनीं कृत्वा ब्राह्मणाय निवेदयेत्॥३०॥
काञ्चनेन विमानेन वैष्णवी लभते गतिम्।
देवाय गुग्गुलं यो वै दीपं चार्पयते नरः॥३१॥
समाप्तौ धूपिको दद्यादीपिकां च महामते।
स भोगी जायते श्रीमांस्तथा सौभाग्यवानपि॥३२॥
प्रदक्षिणास्तु यः कुर्यान्नमस्काराविशेषतः।
अश्वत्थस्याथवा विष्णोः कार्तिक्यवधि स ध्रुवम्॥३३॥
विष्णुलोकमवाप्नोति सत्यं सत्यं न संशयः।
सन्ध्यादीपप्रदो यस्तु प्राङ्गणे द्विजदेवयोः॥३४॥
समाप्तौ दीपिका दद्याद्वस्त्रं चैकं च काचनम्।
वैकुण्ठं समवाप्नोति तेजस्वी स भवेदिह॥३५॥
विष्णुपादोदकं यस्तु पिबेच्छ्राद्धासमन्वितः।
विष्णोर्लोकमवाप्नोति न चास्मिञ्जायते नरः॥३६॥
शतमष्टोत्तरं यस्तु गायत्रीजपमाचरेत्।
त्रिकालं वैष्णवे हम्र्थे न स पापेन लिप्यते॥३७॥
पुराणं शृणुयानित्यं धर्मशास्त्रमथापि वा।
काश्चनेन युतं वस्त्रं पुस्तकं च निवेदयेत्॥३८॥
पुण्यवान् धनवान्भोगी सत्यशौचपरायणः।
ज्ञानवाँल्लोकविख्यातो बहुशिष्यः सुधार्मिकः॥३९॥
नाममन्त्रव्रतपरः शम्भोर्वा केशवस्य च।
समाप्तौ प्रतिमां दद्यात्तस्य देवस्य काश्चनीम्॥४०॥
पुण्यवान् दोषनिर्मुक्तः स भवेच्च गुणालयः।
कृतनित्यक्रियो भूत्वा सूर्यायाय निवेदयेत्॥४१॥
सूर्यमण्डलमध्यस्थं देवं ध्यात्वा जनार्दनम्।
समाप्तौ काश्चनं दद्याद्रक्तवस्त्रं च गां तथा॥४२॥
आरोग्यं पूर्णमायुश्च कीर्ति लक्ष्मी बलं लभेत्।
तिलहोमं तु यः कुर्याचातुर्मास्ये दिनदिने॥४३॥
भक्त्या व्याहृतिभिर्मत्रैर्गायच्या वा व्रतान्वितः।
अष्टोत्तरशतं चाथ अष्टाविंशतिमेव वा॥४४॥
तिलपात्रं समाप्तौ तु दद्याद्विप्राय धीमते।
वाङ्मन कायजनितः पापैर्मुच्येत् सश्चितैः॥४५॥
न रोगरभिभूयेत लभेत्सन्ततिमुत्तमाम्।
अनहोमं तु यः कुर्याचातुर्मास्यमतन्द्रितः॥४६॥
समाप्तौ घृतकुम्भं तु दद्यात्सवस्त्रकाञ्चनम्।
आरोग्यं कान्तिमतुलां पुत्रसौभाग्यसम्पदः॥४७॥
शत्रुक्षयं च लभते ब्रह्मगा प्रतिमो भवेत्।
अश्वत्थसेवां यः कुर्यात्सर्वपापैः प्रमुच्यते॥४८॥
विष्णुभक्तो भवेत्पश्चादन्ते वस्त्रं प्रदादयेत्।
सकाश्चनं ब्राह्मणाय नैव रोगान् स विन्दते॥४९॥
तुलसी धारयेद्यस्तु विष्णुप्रीतिकरां शुभाम्।
विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते॥५०॥
ब्राह्मणान्भोजयेत्पश्चाद्विष्णुमुद्दिश्य पाण्डव।
यस्तु सुप्ते हृषीकेशे दूर्वामृतसम्भवाम्॥५१॥
सदा प्रातर्वहेन्मूनि त्वं दूर्वे इति मन्त्रतः।
व्रतान्ते च कुरुश्रेष्ठ दूर्वी स्वर्णविनिर्मिताम्॥५२॥
दद्याद् दक्षिणया साई मन्त्रेणानेन सुव्रत।
यथाशाखाप्रशाखाभिर्विस्तृतासि महीतले॥५३॥
तथा ममापि सन्तानं देहि त्वमजरामरम्।
नाशुभं प्राप्नुयाजातु पापेभ्यःप्रविमुच्यते॥५४॥
भुक्त्वा तु सकलान् भोगान् स्वर्गलोके महीयते।
गीतं तु देवदेवस्य केशवस्य शिवस्य वा॥५५॥
करोति पुरतो नित्यं जागृतेः फलमाप्नुयात्।
चातुर्मास्यवती दद्याद् घण्टां देवाय सुस्वराम्॥५६॥
सरस्वति जगन्नाथे जगजाड्यापहारिणि।
साक्षाद्ब्रह्मकलयं च विष्णुरुद्रादिभिः स्तुता॥५७॥
गुरोरवज्ञया यच्चानध्यायऽध्ययनं कृतम्।
तन्ममाध्ययनोत्पन्नं जाड्यं हर वरानने॥५८॥
घण्टादानेन तुष्टा त्वं ब्रह्माणी लोकपावनी।
विप्रपादविनिर्मुक्तं तोयं यःप्रत्यहं पिबेत्॥५९॥
चातुर्मास्ये नरो भक्त्या मद्रूपं ब्राह्मणं स्मरन्।
मनोवाकायजनितैर्मुक्तो भवति किल्बिः॥६०॥
व्याधिभिर्नामिभूयेत श्रीरायुस्तस्य वर्धते।
समाप्तौ गोयुगं दद्याद्गामेकां वा पयस्विनीम्॥६१॥
तत्राप्यशक्तौ राजेन्द्र दद्याद्वासोयुगं व्रती।
ब्राह्मणं वन्दते यस्तु सर्वदेवमयं श्रुतम्॥६२॥
कृतकृत्यो भवेत् सद्यः सर्वपापैः प्रमुच्यते।
समाप्तौ भोजयेद्विप्रानायुवित्तं च विन्दति॥६३॥
संस्पृशेत्कपिलां यो वै नित्यं भक्तिसमन्वितः।
तामेवालङ्कृतां दद्यात्सवत्सां दक्षिणायुताम् '॥६४॥
सार्वभौमो भवेद्राजा दीर्घायुश्च प्रतापवान्।
स वसेदिन्द्रवत्स्वर्गे वत्सरान् रोमसम्मितान्॥६५॥
नमस्करोति यः सूर्य गणेशं वाऽपि नित्यशः।
आयुरारोग्यमैश्वर्य लभते कान्तिमुत्तमाम्॥६६॥
विनराजप्रसादेन प्राप्नुयादीप्सितं फलम्।
सर्वत्र विजयं चैव नात्र कार्या विचारणा॥६७॥
विघ्नेशाकों सुवर्णस्य सिन्दूरारुणसन्निभौ।
निवेदयेद्राह्मणाय सर्वकामार्थसिद्धये॥६८॥
यस्तु रौप्यं शिवप्रीत्यै दद्याद्भक्त्या ऋतुद्वये।
तानं वा प्रत्यहं दद्यात्स्वशक्त्या शिवतुष्टये॥६९॥
सुरूपाल्लभते पुत्रान् रुद्रभक्तिपरायणान्।
समाप्तौ मधुपूर्ण तु पात्रं राजतमुत्तमम्॥७०॥
प्रदद्यात्ताम्रदाने तु ताम्रपात्रं गुडान्वितम्।
यस्तु सुप्ते हृषीकेशे स्वर्ण दद्याद स्वशक्तितः॥७१॥
वस्त्रयुग्मतिलैः सार्ध सर्वपापैः प्रमुच्यते।
इह भुक्त्वा महाभोगानन्ते शिवपुरं व्रजेत्॥७२॥
वस्त्र दानं तु यः कुर्याचातुर्मास्ये द्विजातये।
अभ्यर्च्य गन्धपुष्पायेविष्णुमें प्रीयतामिति॥७३॥
शय्यां दद्यात्समाप्तौ तु वासः काञ्चनपट्टिकाम्।
अक्षय्यं सुखमाप्नोति धनं स धनदोपमम्॥७४॥
यो गोपीचन्दनं दद्यानित्यं वर्षासु मानवः।
श्रीपतिस्तस्य सन्तुष्टो भुक्तिं मुक्तिं ददाति च॥७५॥
समाप्तावपि तदद्यात्तुलापरिमितं शुभम्।
तदर्ध वा तदर्ध वा सवस्त्रं च सदक्षिणम्॥७६॥
यस्तु सुप्ते हृषीकेशे प्रत्यहं तु व्रतान्वितः।
दद्याद् दक्षिणया सार्ध शर्करमथवा गुडम्॥७७॥
एवं व्रते तु सम्पूर्ण कुर्वत्रुद्यापनं बुधः।
प्रत्येक ताम्रपात्राणि पलाष्टकमितानि तु॥७८॥
वित्तशाठयमकुर्वाणश्चतुष्पलमितानि वा।
अष्टचत्वारि चैक वा शर्करापूरितानि च॥७९॥
दक्षिणाफलवासोभिः प्रत्येकं संयुतानि च।
सह धान्यानि विप्रेभ्यः श्रद्धया प्रतिपादयेत्॥८०॥
ताम्रपात्रं सवस्त्रं च शर्कराहेमसंयुतम्।
सूर्यप्रीतिकरं यस्माद्रोगघ्नं पापनाशनम्॥८१॥
पुष्टि कीर्तिदं नृणां नित्यं सन्तानकारकम्।
सर्वकामप्रदं स्वर्ग्यमायुर्वर्धनमुत्तमम्॥८२॥
तस्मादस्य प्रदानेन कीर्तिरस्तु सदा मम।
एवं व्रतं तु यः कुर्यात्तस्य पुण्यफलं शृणु॥८३॥
गन्धर्वविद्यासम्पन्नः सर्वयोषित्प्रियो भवेत्।
राजापि लभते राज्यं पुत्रार्थी लभते सुतान्॥८४॥
अर्थार्थी प्राप्नुयादर्थ निष्कामो मोक्षमाप्तुयात्।
यस्तु वै चतुरो मासाञ्छाकमूलफलादिकम्॥८५॥
नित्यं ददाति विप्रेभ्यः शक्त्या यत्सम्भवेन्नृप।
व्रतान्ते वस्त्रयुग्मं च शक्त्या दद्यात्सदक्षिणम्॥८६॥
सुखीभूत्वा चिरं काल राजयोगी भवेन्नरः।
सर्वदेवप्रियं यस्माच्छाकं तृप्तिकरं नृणाम्॥८७॥
ददामि तेन देवाद्याः सदा कुर्वन्तु मङ्गलम्।
यस्तु सुप्ते हृषीकेशे प्रत्यहं तु ऋतुद्ये॥८८॥
दद्यात्कटुवयं मयों गृहपर्याप्तमादरात्।
ब्राह्मणाय सुशीलाय दिनेशप्रीतये नघ॥८९॥
दक्षिणावस्त्रसहितं मन्त्रेणानेन सुव्रत।
कटुत्रयमिदं यस्माद्रोगनं सर्वदेहिनाम्॥९०॥
तस्मादस्य प्रदानेन प्रीतो भवतु भास्करः।
एवं कृत्वा व्रतं सम्यकुर्यादुद्यापनं बुधः॥९१॥
कृत्वा स्वर्णमयों शुण्ठी मरीचं मागधीमपि।
सवस्त्रां दक्षिणायुक्तां दद्याद्विप्राय धीमते॥९२॥
एवं व्रतं यः कुरुते स जीवेच्छरदां शतम्।
प्राप्नुयादीप्सितानानन्ते स्वर्ग ब्रजेनृप॥९३॥
मुक्ताफलानि यो दद्यानित्यं विप्राय सन्मतिः।
अन्नवान्कीर्तिमाञ्छीमाञ्जायते वसुधाधिप॥९४॥
ताम्बूलदानं यःकुर्याद् वर्जयेता जितेन्द्रियः।
रक्तवस्त्रद्वयं दद्यात्समाप्तौ च सदक्षिणम्॥९५॥
महालावण्यमानोति सर्वरोगविवर्जितः।
मेधावी तुभगःप्राज्ञो रक्तकण्डव जायते॥९६॥
गाधर्वत्वमवानोति स्वर्गलोकं च गच्छति।
ताम्बूलं श्रीकर भद्रं ब्रह्मविष्णुशिवात्मकम्॥९७॥
अस्य प्रदानाद्ब्रह्माद्याः श्रियं ददतु पुष्कलाम्।
चातुर्मासे प्रतिदिनं सुवासिन्यै द्विजाय च॥९८॥
नारीवा पुरुषो वाऽपि हरिद्रां सम्प्रयच्छति।
लक्ष्मीमुद्दिश्य गौरी वा समाप्तौ राजतं नवन्॥९९॥
हरिद्रापूरितं कृत्वा तत्पात्र दक्षिणान्वितम्।
प्रदद्याद्भक्तिसंयुक्तं देवी मे प्रीयतामिति॥१००॥
भ; सह मुखं मुङ्क्त नारी नार्या तथा पुमान्।
सौभाग्यप्रक्षयं धान्यं धनपुत्रसमुन्नतिम्॥१०१॥
सम्प्राप्य रूपलावण्ये देवीलोके महीयते।
उमामहेशमुद्दिश्य चातुर्मास्ये दिने दिने॥१०२॥
सम्पूज्य विप्रमिथुनं तस्मै यश्च स्वशक्तितः।
दद्यात् सदक्षिणं हेम उमेशः प्रीयतामिति॥१०३॥
उमेशप्रतिमा हैमी दयादुद्यापने बुधः।
पञ्चोपचारैः सम्पूज्य धेन्वा च वृषभेण च॥१०४॥
भोजयेदपि मिष्टानं तस्य पुण्यफलं शृणु।
सम्पत्तिरक्षया कीर्तिर्जायते व्रतवैभवात्॥१०५॥
इह भुक्त्वाखिलान्कामानन्ते शिवपुरं व्रजेत्।
फलदानं तु यः कुर्याश्चातुर्मास्यमतन्द्रितः॥१०६॥
समाप्तौ कलधौतानि तानि दद्याट्विजातथे।
सन्निनोरयान् प्राप्य सन्तति चानपायिनीम्॥१०७॥
फलदानस्य माहात्म्यान्मोदते नन्दने बने।
पुष्पदानव्रते चापि स्वर्णपुष्पादि दापयेत्॥१०८॥
स सौभाग्यं परं प्राप्य गन्धर्वपदमाप्नुयात्।
वासुदेवे प्रसुप्ते तु चातुर्मास्यमतन्द्रितः॥१०९॥
नित्यं वामनमुद्दिश्य दध्यन्नं स्वादु षड्सैः।
भोजये इथवः दद्यादेकादश्यां न भोजयेत्॥११०॥
दानमेव प्रकुर्वीत ग्रहणादौ तथैव च।
अशक्तौ नित्यदाने तु कुर्यात्तश्च पर्वतु॥१११॥
भूताष्टम्याममायां च पूर्णिमायां तथैव च।
प्रत्यकवारमथवा प्रतिभार्गववासरम्॥११२॥
एवं कृत्वा समाप्तौ तु यथाशक्ति महीं ददेव।
अशक्तौ भूमिदाने तु धेतुं दद्यादलङ्कृताम्॥११३॥
तत्राप्यशक्तौ वासश्च सरुक्मे पादुके तथा।
अक्षय्यमनमामोति पुत्रपौत्रादिसम्पदम्॥११४॥
सुस्थिरां विष्णुभक्तिं च प्रयाति हरिमन्दिरम्।
नित्यं पयस्विनी दद्यात्सालङ्कारों शुभावहाम्॥११५॥
सवत्सां दक्षिणोपेतां स सर्वज्ञानवान् भवेत्।
न परप्रेष्यतां याति ब्रह्मलोकं च मच्छति॥११६॥
अक्षय्यं सुखमाप्नोति पितृभिः सहितो नरः।
वार्षिकांश्चतुरो मासान् प्राजापत्यं चरेन्नरः॥११७॥
समाप्तौ गोयुग दत्त्वा कृत्वा ब्राह्मणभोजनम्।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥११८॥
एकान्तरोपवासे तु सीराण्यष्टौ प्रदापयेत्।
वस्त्रकाञ्चनयुक्तानि बलीवर्दयुतानि च॥११९॥
अनछुट्टयसंयुक्तं लाल कर्षणक्षमम्।
सर्वोपस्करसंयुक्तं ददामि प्रीतये हरेः॥१२०॥
शाकमूलफलैर्वाऽपि चातुर्मास्यं नयेन्नरः।
समाप्तौ गोप्रदानेन स गच्छेद्विष्णुमन्दिरम्॥१२१॥
पयोव्रती तथाप्नोति ब्रह्मलोक सनातनम्।
व्रतान्त च तथा दद्याद्गामेकां च पयस्विनीम्॥१२२॥
नित्यं रम्भापलाशे च ये भुङ्क्त तु ऋतुद्वये।
वस्त्रयुग्मं च कांस्यं च शक्स्या दत्त्वा सुखी भवेत्॥१२३॥
कांस्यं ब्रह्मा शिवो लक्ष्मीः कास्यमेव विभावसुः।
कांस्यं विष्णुमयं यस्मादतः शान्ति प्रयच्छ मे॥१२४॥
नित्यं पलाशभोजी चेत्तैलाभ्यङ्गविवर्जितः।
स निहन्त्यतिपापानि तूलराशिमिवानलः॥१२५॥
ब्रह्मन्नश्च सुरापश्च बालघातकरश्च यः।
असत्यवादिनो ये च स्त्रीधातिव्रतघातकाः॥१२६॥
अगम्यागामिनश्चैव विधवागामिनस्तथा।
चाण्डालीगामिनश्चैव विप्रस्त्रीगामिनस्तथा॥१२७॥
ते सर्वे पापनिर्मुक्ता भवन्त्येतद्रतेन च।
समाप्तौ कांस्यपात्रं तु चतुःषष्टिपलैर्युतम्॥१२८॥
सवत्सां गां च वै दद्यात्सालङ्कारां पयस्विनीम्।
अलङ्कृताय विदुषे सुवस्त्राय सुत्रेषिणे॥१२९॥
भूमौ विलीप्य यो भुक्ते देव नारायणं स्मरन्।
दद्याद्भूमि यथाशक्ति कृष्यां बहुजलान्वितान्॥१३०॥
आरोग्य पुत्रसम्पन्नो राजा भवति धार्मिकः।
शत्रोभयं न लभते विष्णुलोकं स गच्छति॥१३१॥
अयाचिते त्वनड्वाहं सहिरण्यं सचन्दनम्।
षडसं भोजनं दद्यात्स याति परमां गतिम्॥१३२॥
यस्तुसुप्ते हृषीकेशे नक्तं च कुरुते व्रतम्।
ब्राह्मणान्भोजयेत्पश्चाच्छिक्लो महीयते॥१३३॥
एकभक्तं नरः कृत्वा मिताशी च दृढव्रतः।
योर्चयेचतुरो मासान्वासुदेवं स नाकभाक्॥१३४॥
समाप्तौ भोजयेदिप्राञ्छक्त्या दद्याच्च दक्षिणाम्।
यस्तु सुप्ते हृषीकेशे क्षितिशायी भवेन्नरः॥१३५॥
शय्यां सोपस्करां दद्याच्छिवलोके महीयते।
पादाभ्यनं नरो यस्तु वर्जयेच्च ऋतुद्वये॥१३६॥
समाप्तौ च यथाशक्ति कुर्याद्राह्मणभोजनन्।
दत्त्वा च दक्षिणां शक्त्या स गच्छेद्विष्णुमन्दिरम्॥१३७॥
आषाढादिचतुर्मासान्वर्जयेन्नखकृन्तनम्।
आरोग्यपुत्रसम्पन्नो राजा भवति धार्मिकः॥१३८॥
पायसं लवणं चैव मधुसर्पिः फलानि च।
चातुर्मास्ये वर्जयेद्यो गौरीशङ्करतुष्टये॥१३९॥
कार्तिक्यां च पुनस्तानि ब्राह्मणाय निवेदयेत्।
स रुद्रलोकमाप्नोति रुद्रव्रतनिषेवणात्॥१४०॥
यवान्नं भक्षयेद्यस्तु शुभं शाल्यन्नमेव वा।
पुत्रपौत्रादिभिः सार्ध शिवलोके महीयते॥१४१॥
तैलाभ्यङ्गपरित्यागी विष्णुभक्तः सदा व्रती।
वर्षासु विष्णुमभ्यर्च्य वैष्णवी लभते गतिम्॥१४२॥
समाप्तौ कांस्यपात्रं च सुवर्णेन समन्वितम्।
तैलेन पूरितं कृत्वा ब्राह्मणाय निवेदयेत्॥१४३॥
वार्षिकांश्चतुरो मासाञ्छाकानि परिवर्जयेत्।
व्रतान्ते हरिमुद्दिश्य पात्रं राजतमेव हि॥१४४॥
वस्त्रेण वेष्टितं शाकदशकेन प्रपूरितम्।
समभ्यर्च्य यथाशक्त्या ब्राह्मणान्वेदपारगान्॥१४५॥
तेभ्यो दद्यादक्षिणया व्रतसम्पूर्तिहेतवे।
शिवसायुज्यमाप्नोति प्रसादाच्छूलपाणिनः॥१४६॥
गोधूमवर्जनं कृत्वा भोजनव्रतमाचरेत्।
कार्तिके स्वर्णगोधूमान वस्त्रं दत्त्वाऽश्वमेधकृत्॥१४७॥
गोधूमाः सर्वजन्तूनां बलपुष्टिविवर्धनाः।
मुख्याश्च हव्यकव्येषु तस्मान्मे ददतु श्रियम्॥१४८॥
आषाढादिचतुर्मासान्वृन्ताकं वर्जयेन्नरः।
कारवेल्लफलं वाऽपि तथालाबू पटोलकम्॥१४९॥
यद्यत्फलं प्रियतरं तच्चापि परिवर्जयेत्।
चातुर्मास्ये ततो वृत्ते रौप्याण्येतानि कारयेत्॥१५०॥
मध्ये विद्रुमयुक्तानि ह्ययित्वा तु शक्तितः।
दद्यादक्षिणया सार्ध ब्राह्मणायातिभक्तितः॥१५१॥
अभिष्ट देवमुद्दिश्य देवो मे प्रीयतामिति।
स दीर्घमायुरारोग्यं पुत्रपौत्रान्सुरूपताम्॥१५२॥
अक्षय्यो सन्तात कीर्ति लब्ध्वा स्वर्गे महीयते।
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा॥१५३॥
दुग्धमाश्वयुजे मासि कातक द्विदलं त्यजेत्।
चत्वार्येतानि नित्यानि चातुराश्रमवर्तिनाम्॥१५४॥
कूष्माण्डं राजमाषांश्च मूलकं गृञ्जनं तथा।
करमर्द चक्षुदण्डं चातुर्मास्ये त्यजन्नरः॥१५५॥
मसूरं बहुबीजं च वृन्ताङ्क चैव वर्जयेत्।
नित्यान्येतानि विप्रेन्द्र व्रतान्याहुर्मनीषिणः॥१५६॥
विशेषाद्वदरी धात्रीमलाबु चिश्चिणी त्यजेत्।
वार्षिकांश्चतुरो मासान् प्रसुप्ते च जनार्दने॥१५७॥
मञ्चखट्या दिशयनं वर्जयेद्भक्तिमानरः।
अनृतौ वर्जयेद्भार्यामृतौ गच्छन्न दुष्यति॥१५८॥
मधुवल्ली च शिग्रं च चातुर्मास्ये त्यजेनरः।
वृन्ताकं च कलिङ्गं च बिल्वोदुम्बरभिस्सष्टाः॥१५९॥
उदरे यस्य जीर्यन्ते तस्य दूरतरो हरिः।
उपवासं तथा नक्तमेकभक्तमयाचितम्॥१६०॥
अशक्तस्तु यथाकुर्यात्सायम्प्रातरखण्डितम्।
स्नानपूजादिकं यस्तु स नरो हरिलोकभाक्॥१६१॥
गीतवाद्यपरो विष्णोर्गान्धर्व लोकमाप्नुयात्।
मधुत्यामी भवेहाजा पुरुषो गुडवर्जनात्॥१६२॥
लभेच्च सन्तति दीर्घा पुत्रपौत्रादिवर्धिनीम्।
तैलस्य वर्जनाद्राजन् सुदर्शाङ्गः प्रजायते॥१६३॥
कौसुम्भतैलसन्त्यागाच्छत्रुनाशमवाप्नुयात्।
मधूकतेलत्यागाच सुसौभाग्यफलं लभेत्॥१६४॥
कटुतिक्ताम्लमधुरकषायलवणान् रसान्।
वर्जयेत्स च वैरूप्यं दौर्गन्ध्यं नाप्नुयात् सदा॥१६५॥
पुष्पादिभोगत्यागेन स्वर्गे विद्याधरो भवेत्।
योगाभ्यासी भवेद्यस्तु स ब्रह्मपदवीमियात्॥१६६॥
ताम्बूलवर्जनाद्रोगी सद्योमुक्तामयो भवेत्।
पादाभ्यङ्गपरित्यागाच्छिरोऽभ्यङ्गस्य पार्थिव॥१६७॥
दीप्तिमान्दीप्तकरणो यक्षद्रव्यपतिर्भवेत्।
दधिदुग्धपरित्यागी गोलोकं लभते नरः॥१६८॥
इन्द्रलोकमवाप्नोति स्थालीपाकविवर्जनात्।
एकान्तरोपवासेन ब्रह्मलोके महीयते॥१६९॥
चतुरो वार्षिकामासानखरोमाणि धारयेत्।
कल्पस्थायी भवेद्राजन्स नरो नात्र संशयः॥१७०॥
नमो नाराय गायेति जपित्वानन्तकं फलम्।
विष्णुपादाम्बुजस्पर्शात्कृत्यकृत्यो भवेन्नरः॥१७१॥
लक्षदक्षिगाभिः सेवते हरिमव्ययम्।
हंसयुक्तविमानेन स याति वैष्णवीं पुरीम्॥१७२॥
त्रिरात्रभोजनत्यागान्मोदते दिवि देववत्।
परानवर्जनाद्राजन्देवो वै मानुषो भवेत्॥१७३॥
प्राजापत्यं चरेद्यो वै चातुर्मास्ये व्रतं नरः।
मुच्यते पातकै सवैत्रिविधैर्नात्र संशयः॥१७४॥
तप्तकृच्छातिकृच्छ्राभ्यां यः क्षिपच्छयनं हरेः।
स याति परमं स्थानं पुनरावृत्तिवर्जितम्॥१७५॥
चान्द्राय गेन यो राजन्मिासचतुष्टयम्।
दिव्यदेहो भवत्सोऽथ शिवलोकं च गच्छति॥१७६॥
चातुर्मास्ये नरो यो वै त्यजेदन्नादिभक्षणम्।
स गच्छेद्धरिसायुज्यं न भूयस्तु प्रजायते॥१७७॥
भिक्षाभोजी नरो यो हि स भवेद्वेदपारगा।
पयोव्रतेन यो राजन्क्षिपेन्मासचतुष्टयम्॥१७८॥
तस्य वंशसमुच्छेदः कदाचिन्नोपपद्यते।
पञ्चगव्याशनः पार्थ चान्द्रायणफलं लभेत्॥१७९॥
दिनत्रयं जलत्यागान्न रोगैरभिभूयते।
एवमादिवतेः पार्थ तुष्टिमायाति केशवः॥१८०॥
दुग्धाब्धिवीचिशयने भगवाननन्तो
यस्मिन्दिने स्वपिति चाथ विबुध्यते च।
तस्मिन्ननन्यमनसामुपवासमाजां
पुंसां ददाति च गतिं गरुडासनोऽसौ॥१८१॥

॥इति श्रीभविष्यपुराणे विष्णोः शयन्येकादशीमाहात्म्यं सम्पूर्णम्॥