आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
आषाढस्य सिते पक्षे किन्नामकादशी भवेत्।
को देवः को विधिस्तस्या एतदाख्याहि केशव॥१॥
श्रीकृष्ण उवाच
कथयामि महीपाल कथामाश्चर्यकारिणीम्।
थयामास यां ब्रह्मा नारदाय महात्मने॥२॥
नारद उवाच
कथयस्व प्रसादेन विष्णोराराधनाय मे।
आषाढशुक्लपक्षे तु किनामैकादशी भवेत्॥३॥
ब्रह्मोवाच
वैष्णवोऽप्ति मुनि श्रेष्ठ साधु पृष्ट कलिप्रिय।
नातः परतरं लोके पवित्रं हरिवासरात्॥४॥
कर्तव्यं तु प्रयत्नेन सर्वपापापनुत्तये।
तस्मात्तेऽहं प्रवक्ष्यामि शुक्ल एकादशीव्रतम्॥५॥
एकादश्या व्रतं पुण्यं पापघ्नं सर्वकामदम्।
न कृतं यैर्नरैलोक ते नरा निरयेषिणः॥६॥
पद्मानामेति विख्याता शुचौ ोकादशी सिता।
हृषीकेशप्रीतये तु कर्तव्यं व्रतमुत्तमम्॥७॥
कथयामि तवाग्रेऽहं कथा पौराणिकी शुभाम्।
यस्याः श्रवणमात्रेण महापापं प्रणश्यति॥८॥
मान्धाता नाम राजर्षिर्विवस्वदंशसम्भवः।
बभूव चक्रवर्ती स सत्यसन्धः प्रतापवान्॥९॥
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्।
ने तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा॥१०॥
निरातङ्काः प्रजास्तस्य धनधान्यसमन्विताः।
नान्यायोपार्जितं द्रव्यं कोशे तस्य महीपतेः॥११॥
तस्यैवं कुर्वतो राज्य बहुवर्षगणो गतः।
अथो कदाचित्सम्प्राप्ते विपाके पापकर्मणः॥१२॥
वर्षत्रयं तद्विषये न ववर्ष बलाहकः।
तेनोद्विग्नाः प्रजास्तत्र बभूवुः क्षुधयार्दिताः॥१३॥
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिता।
गावभूबुर्विषयास्तस्य सस्याभावेन पीडिताः॥१४॥
अथ प्रजाः समागत्य राजानमिदमब्रुवन्।
श्रूयतां वचनं राजन् प्रजानां हितकारकम्॥१५॥
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः।
अयनं ता भङ्गंवतस्तेन नारायणः स्मृतः॥१६॥
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः सदा।
स एव कुरुते वीष्ट वृष्टेरन्नं ततः प्रजाः॥१७॥
तदभावेन नृपते क्षयं गच्छन्ति वै प्रजाः।
तथा कुरु नृपश्रेष्ठ योगक्षेमो यथा भवेत्॥१८॥
राजोवाच
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं वचः।
अन्नं ब्रह्ममयं प्रोक्तमन्ने सर्व प्रतिष्ठितम्॥१९॥
अन्नाद्भवन्ति भूतानि जगदनेन वर्तते।
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे॥२०॥
नृपाणामपचारेण प्रजानां पीडनं भवेत्।
नाहं पश्याम्यात्मकृतं दोषं बुद्ध्या विचारयन्॥२१॥
तथापि प्रयतिष्यामि प्रजानां हितकाम्यया।
इति कृत्वा मति राजा परिमेयबलान्वितः॥२२॥
नमस्कृत्य विधातारं जगाम गहनं वनम्।
चचारि मुनिमुख्यानामाश्रमांस्तपसैधितान्॥२३॥
शाददर्शाथ ब्रह्मसुतमृषिमगिरसं नृपः।
तेजसा द्योतितदिशं द्वितीयमिव पद्माजम्॥२४॥
तं दृष्ट्वा हर्षितो राजा अवतीर्य च वाहनात्।
नमश्चक्रेस्य चरणौ कृताञ्जलिपुटो वशी॥२५॥
मुनिस्तमभिनन्द्याथ स्वस्तिवाचनपूर्वकम्।
पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः॥२६॥
निवेदयित्वा कुशलं पप्रच्छानामयं नृपः।
ततश्च मुनिना राजो पृष्टागमनकारणः॥२७॥
अब्रवीन्मुनिशार्दूलं स्वस्यागमनकारणम्।
राजोवाच
भगवन् धर्मविधिना मम पालयतो महीम्।
अनावृष्टिः सम्प्रवृत्ता नाहं वेदयत्र कारणम्॥२८॥
संशयच्छेदनार्थेऽत्र ह्यागतोऽहं तवान्तिकम्।
योगक्षेमविधानेन प्रजानां निर्वृतिं कुरु॥२९॥
ऋषिरुवाच
एतत्कृतयुगं राजन् युगानामुत्तमं स्मृतम्।
अत्र ब्रह्मोत्तरा लोका धर्मश्चात्र चतुष्पदः॥३०॥
अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरे जनाः।
विषये तव राजेन्द्र वृषलो यत्तपस्यति॥३१॥
अकार्यकरणात्तस्य न वर्षति बलाहकः।
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति॥३२॥
राजोवाच
नाहमेनं वधिष्यामि तपस्यन्तमनागसम्।
धर्मोपदेशं कथय उपसर्गविनाशने॥३३॥
ऋषिरुवाच
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्।
शुचिमासे सिते पक्षे पद्मानामेति विश्रुता॥३४॥
तस्या व्रतप्रभावेण सुवृष्टिर्भविता ध्रुवम्।
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी॥३५॥
अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः।
इति वाक्यं मुनेः श्रुत्वा राजा स्वगृहमागतः॥३६॥
आषाढमासे सम्प्राप्ते पद्माव्रतमथाकरोत्।
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः॥३७॥
एवं कृते व्रते राजन् प्रववर्ष बलाहकः।
जलेन प्लाविता भूमिरभवत्सस्यमालिनी॥३८॥
हृषीकेशप्रसादेन जनाः सौख्यं प्रपेदिरे।
एतस्मात्कारणादेव कर्तव्यं व्रतमुत्तमम्॥३९॥
भुक्तिमुक्तिप्रदं चैव लोकानां सुखदायकम्।
पठनाच्छ्रवणादस्याः सर्वपापैः प्रमुच्यते॥४०॥
[इयमेव शयन्याख्या। एतस्यां विष्णुशयनव्रतं चातुर्मास्यव्रतग्रहणं चोक्तं भविष्ये।]
॥इति श्रीवाराहपुराणे आषाढशुक्लपद्माख्यैकादशीव्रतमाहात्म्यम्॥
❀