आषाढ-कृष्ण-योगिनी-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
ज्येष्ठशुक्ने निर्जलाया माहात्म्यं व श्रुतं मया।
आषाढकृष्णपक्षे तु किनामैकादशी भवेत्॥१॥
कथयस्व प्रसादेन ममाने मधुसूदन।
श्रीकृष्ण उवाच
व्रतानामुत्तमं राजन्कथयामि तवाप्रतः॥२॥
सर्वपापक्षयकरं भुक्तिमुक्तिप्रदायकम्।
आषाढस्यासिते पक्षे योगिनीनाम नामतः॥३॥
एकादशी नृपश्रेष्ठ महापातकनाशिनी।
संसारार्णवमन्नानां पोतरूपा सनातनी॥४॥
जगत्रये सारभूता योगिनीति नराधिप।
कथयामि, कथा, तस्याः पौराणी पापहारिणीम्॥५॥
अलकाधिपतिर्नाम्ना कुबेरः शिवपूजकः।
तस्यासीत्पुष्पबदुको हेममालीति नामतः॥६॥
तस्य पत्नी सुरूपासीद्विशालाक्षीति नामतः।
स तस्यां स्नेहसंयुक्तः कामपाशवशं गतः॥७॥
मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः।
पत्नीप्रेमसमायुक्तो न कुबेरालयं गतः॥८॥
कुबेरो देवतदने करोति शिवपूजनम्।
मध्याह्नसमये राजन् पुष्पाणि प्रसमीक्षते॥९॥
हेममाली स्वभवने रमते कान्तया सह।
यक्षराट् प्रत्युवाचाथ कालातिक्रमकोपितः॥१०॥
कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान्।
निश्चयः क्रियतामस्य प्रत्युवाच पुनः पुनः॥११॥
यक्षा उचुः
वनिताकामुको गेहे रमते स्वेच्छया नृप।
तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः॥१२॥
आह्वयामास तं तूर्ण बटुक हेममालिनम्।
ज्ञात्वा कालात्ययं सोपि भयव्याकुललोचनः॥१३॥
आजगाम नमस्कृत्य कुबेरस्याप्रतःस्थितः।
तं दृष्ट्वा धनदः क्रुद्धः कोपसंरक्तलोचनः॥१४॥
प्रत्युवाच रुषाविष्टः कोपाद्विस्फुरिताधरः।
धनद उवाच
रे पाप दुष्ट दुर्वृत्त कृतवान् देवहेलनम्॥१५॥
अतो भव चित्रयुक्तो वियुक्तः कान्तया सदा।
अस्मात्स्थानादपध्वस्तो गच्छ स्थानमथाधमम्॥१६॥
इत्युक्ते वचने तेन तस्मात्स्था नात्पपातु सः।
महादुःखाभिभूतश्च कुष्ठपीडितविग्रहः॥१७॥
न वै तोयं न भक्ष्यं च बनेरौद्रे लभत्यसौ।
न सुखं दिवसे तस्य न निद्रा लभते निशि॥१८॥
छायायां पीडिततनुर्निदाघेऽत्यन्तपीडितः।
शिवपूजाप्रभावेण स्मृतिस्तस्य न गच्छति॥१९॥
पातकेन्नाभिभूतोऽपि कर्म पूर्वमनुस्मरन्।
भ्रममाणस्ततोऽगच्छद्धिमाद्रि पर्वतोत्तमम्॥२०॥
तत्रापश्यन्मुनिवरं मार्कण्डेयं तपोनिधिम्।
यस्यायुर्विद्यते राजन् ब्रह्मणो दिनसप्तकम्॥२१॥
आश्रम स गतस्तस्य ऋषेब्रह्मसदः समम्।
ववन्दे चरणौ तस्य दूरतः पापकर्मकृत्॥२२॥
मार्कण्डेयो मुनिवरो दृष्ट्वा तं कुष्ठिनं तदा।
परोपकरणार्थाय समाहूयदमब्रवीत्॥२३॥
मार्कण्डेय उवाच
कस्मात् कुष्ठाभिभूतस्त्वं कुतो निन्द्यतरो ह्यसि।
इत्युक्तः प्रत्युवाचाथ मार्कण्डेयेन धीमता॥२४॥
हेममाल्युवाच
यक्षराजस्यानुचरो हेममालीति नामतः।
मानसात्पुष्पनिचयमानीय प्रत्यहं मुने॥२५॥
शिवपूजनवेलायां कुबेराय समर्पये।
एकस्मिन् दिवसे काललोपश्च विहितो मया॥२६॥
पत्नीसौख्यप्रसक्तन कामव्याकुलचेतसा।
ततःक्रुद्धेन शप्तोऽहं राजराजन वै मुन॥२७॥
कुष्ठाभिभूतः सञ्जातो वियुक्तः कान्तया सह।
अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा॥२८॥
सतां स्वभावतश्चित्तं परोपकरणक्षमम्।
इति ज्ञात्वा मुनिश्रेष्ठ शाधि मां च कृतैनसम्॥२९॥
मार्कण्डेय उवाच
त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः।
अतो व्रतोपदेशं ते करिष्यामि शुभप्रदम्॥३०॥
आषाढ कृष्णपक्षे त्वं योगिनीव्रतमाचर।
अस्य व्रतस्य पुण्येन कुष्ठात्त्वं मुच्यसे ध्रुवम्॥३१॥
इति वाक्यं मुनेः श्रुत्वा दण्डवत्पतितो भुवि।
उत्थापितश्च मुनिना बभूवातीव हर्षितः॥३२॥
मार्कण्डेयोपदेशेन कृतं तेन व्रतोत्तमम्।
तद्वतस्य प्रभावेण देवरूपो बभूव सः॥३३॥
संयोग कान्तया लेभे बुभुजे सौख्यमुत्तमम्।
ईटग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम्॥३४॥
अष्टाशीतिसहस्राणि द्विजान् भोजयते तु यः।
तत्फलं समवानोति योगिनीव्रतकृन्नरः॥३५॥
महापापप्रशमनी महापुण्यफलप्रदा।
शुचिकृष्णकादशी ते कथिता योगिनी नृप॥३६॥
॥इति श्रीब्रह्मवैवर्तपुराणे आषाढकृष्णयोगिन्याख्यैकादशीमाहात्म्यं सम्पूर्णम्॥
❀