ज्येष्ठ-शुक्ल-निर्जला-एकादशी-माहात्म्यम्
भीमसेन उवाच
पितामह महाबुद्धे शृणु मे परमं वचः।
युधिष्ठिरश्च कुन्ती च तथा द्रुपद नन्दिनी॥१॥
अर्जुनो नकुलश्चैव सहदेवस्तथैव च।
एकादश्यां न भुनन्ति कदाचिदपि सुव्रत॥२॥
ते मां ब्रुवन्ति वै नित्यं मा भुक्ष्व त्वं वृकोदर।
अहं तानत्रुवं तात बुभुक्षा दुःसहा मम॥३॥
दानं दास्यामि विधिवत्पूजयिष्यामि केशवम्।
विनोपवासं लभ्येत कथमेकादशीव्रतम्॥४॥
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत्।
व्यास उवाच
यदि स्वर्गोत्यभीष्टस्ते नरकोनिष्ट एव च॥५॥
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि।
भीमसेन उवाच
पितामह महाबुद्धे कथयामि तवाग्रतः॥६॥
एकभक्तं न शक्तोऽहमुपवासः कुतो मुने।
वृको नामास्ति यो वन्द्विः स सदा जठरे मम॥७॥
अतीवानं यदानामि तदा समुपशाम्यति।
एकं शक्तोस्म्यहं कर्तु चोपवासं महामुने॥८॥
तदेकं वद निश्चित्य येन श्रेयोइमाप्नुयाम्।
व्यास उवाच
श्रुतास्ते मानवा धर्मा वैदिकाश्च श्रुतास्त्वया॥९॥
कलौ युगे न शक्यन्ते ते वै कर्तु नराधिप।
सुखोपायं चाल्पधनमल्पक्लेशं महाफलम्॥१०॥
पुराणानां च सर्वेषां सारभूतं वदामि ते।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥११॥
एकादश्या न भुङ्क्त यो न याति नरकं तु सः।
व्यासस्य वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवत्॥१२॥
भीमसेनो महाबाहुर्भातो वाक्यमभाषत।
भीमसेन उवाच
पितामह न शक्तोऽहमुपवासे करोमि किम्॥१३॥
ततो बहुफलं ब्रूहि व्रतमेक मम प्रभो।
व्यास उवाच
वृषस्थ मिथुनस्थे के शुक्का यैकादशी भवेत्॥१४॥
ज्येष्ठमासे प्रयत्नेन सोपोष्या जलवर्जिता।
स्नाने चाचमने चैव वर्जयित्वोदकं बुधः॥१५॥
उपयुञ्जीत नैवान्यगतभङ्गोऽन्यथा भवेत।
उदयादुदयं यावद् वर्जयित्वा जलं बुधः॥१६॥
अप्रयत्नादवाप्नोति द्वादशद्वादशीफलम्।
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत्॥१७॥
जलं सुवर्ण दत्त्वा च द्विजातिभ्यो यथाविधि।
भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी॥१८॥
एवं कृते तु यत्पुण्यं भीमसेन शृणुष्व तत्।
संवत्स रस्य या मध्ये एकादश्यो भवन्ति वै॥१९॥
तासां फलमवाप्नोति अत्र मे नास्ति संशयः।
इति मां केशवः प्राह शङ्खचक्रगदाधरः॥२०॥
एकादश्यां सिते पक्षे ज्येष्ठस्यौदकवर्जितम्।
उपोष्य फलमाप्नोति तच्छृणुष्व वृतोदर॥२१॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम्।
यत्फेलं समवाप्नोति इमां कृत्वा वृकोदर॥२२॥
संवत्सरस्य यावन्त्यः शुक्लाः कृष्णा वृकोदर।
उपोपितास्ताः सर्वाः स्युरेकादश्यो न संशयः॥२३॥
धनधान्यवहाः पुण्याः पुत्रारोग्यफलप्रदाः।
उपोषिता नरव्याघ्र इति सत्यं वदामि ते॥२४॥
यमदूता महाकायाः करालाः कृष्णपिङ्गलाः।
दण्डपाशधरा रौद्रा मरणे दृष्टिगोचरम्॥२५॥
न प्रयान्ति नरव्याघ्र एकादश्यामुपोषणात्।
पीताम्बरधराः सौम्याश्चक्रहस्ता मनोजवाः॥२६॥
अन्नकाले नयन्त्येव मानवं वैष्णवीं पुरीम्।
तस्मात्सर्वप्रयत्नेन सोपोष्योदकवर्जिता॥२७॥
जलधेनुं ततो दत्त्वा सर्वपापैः प्रमुच्यते।
इति श्रुत्वा तदा चकुः पाण्डवा जनमेजय॥२८॥
ततःप्रभृति भीमेन कृतेयं निर्जला शुभा।
पाण्डवद्वादशोनाम्ना लोके ख्याता बभूव ह॥२९॥
तथा त्वमपि भूपाल सोपवासार्चनं हरेः।
कुरु त्वं च प्रयत्नेन सर्वपापप्रशान्तये॥३०॥
करिष्याम्यद्य देवेश जलवर्जमुपोषणम्।
भोक्ष्ये परेऽति देवेश ह्यन्नं च तव वासरात्॥३१॥
इत्युच्चार्य ततो मन्त्रमुपवासपरो भवेत्।
सर्वपापविनाशाय श्रद्धादमसमन्वितः॥३२॥
मेरुमन्दरमानं तु त्रियाथ पुरुषस्य यत्।
पापं तद्भस्मतां याति एकादश्याः प्रभावतः॥३३॥
न शक्रोति च यो दातुं जलधेतुं नराधिप।
सकाश्चनो घटस्तेन देयो वस्त्रेण संवृतः॥३४॥
तोयस्य नियमं योस्यां कुरुते व पुण्यभाक्।
पलकोटिनुवर्गस्य यामेयामेऽश्नुते फलम्॥३५॥
स्नानं दानं जपं होमं यदस्यां कुरुते नरः।
तत्सर्व चाक्षयं प्रोक्तमेतत्कृष्णस्य भाषितम्॥३६॥
किं वापरण धर्मेण निर्जलैकादशीं नृप।
उपोष्य च नरो भक्त्या वैष्णवं पदमाप्नुयात्॥३७॥
सुवर्णमन्नं वासांसि यदस्यां सम्प्रदीयते।
तदस्य च कुरुश्रेष्ठ सर्वमप्यक्षयं भवेत्॥३८॥
एकादशीदिने योऽनं भुक्ते पापं भुनक्ति सः।
इह लोके स चाण्डालो मृतः प्राप्नोति दुर्गतिम्॥३९॥
ये प्रदास्यन्ति दानानि द्वादशी समुपोष्य च।
ज्येष्ठे मासि सिते पक्षे प्राप्स्यन्ति परमं पदम्॥४०॥
ब्रह्महा मद्यपः स्तेनो गुरुद्वेष्टा सदाऽनृती।
मुच्यन्ते पातकै सर्वैर्निर्जला यरुपोषिता॥४१॥
विशेषं शृणु राजेन्द्र निर्जलैकादशीदिने।
यत्कर्तव्यं नरैः स्त्रीभिः श्रद्धादमसमन्वितैः॥४२॥
जलशायी तु सम्पूज्यो देया धेनुश्च तन्मयी।
प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा॥४३॥
दक्षिणाभिश्च श्रेष्ठाभिदृष्टान्नैश्च पृथग्विधैः।
तोषणीया प्रयत्नेन द्विजा धर्मभृतां वर॥४४॥
तुष्टो भवति वै क्षिप्रं तैस्तुष्टैर्मोक्षदो हरिः।
आत्मद्रोहः कृतस्तैस्तु यैषा समुपोषिता॥४५॥
पापात्मानो दुराचारा दुष्टास्ते नात्र संशयः।
कुलानां च शतं सायमनाचाररतं सदा॥४६॥
आत्मना सह तैनीतं वासुदेवस्य मन्दिरम्।
शान्तैनपरैश्चैव अर्चद्भिश्च तथा हरिम्॥४७॥
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता।
अन्नं पानं तथा गावो वस्त्रं शय्यासनं शुभम्॥४८॥
कमण्डलु तथा छत्रं दातव्यं निर्जलादिन।
उपानहीं च यो दद्यात्पात्रभूते द्विजोत्तमे॥४९॥
स सौवर्णेन यानेन स्वर्गलोकं व्रजेयुवम्।
यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत्॥५०॥
उभौ तौ स्वर्गतौ स्याता नात्र कार्या विचारणा।
यत्फलं सन्निहत्यायां राहुप्रस्ते दिवाकरे॥५१॥
कृत्वा श्राद्धं लभेन्मयम्तदस्याः श्रवणादपि।
एवं यः कुरुते पुण्यां द्वादशी पापनाशिनीम्।
सर्वपापविनिमुक्तः पदं गच्छत्यनामयम्॥५२॥
॥इति श्रीभारतपद्मयोरुक्तं ज्येष्ठशुक्लनिर्जलैकादशीमाहात्म्यं सम्पूर्णम्॥
❀