ज्येष्ठ-कृष्णापरा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
ज्येष्ठस्य कृष्णपक्षे तु किन्नामैकादशी भवेत्।
श्रोतुमिच्छामि माहात्म्य तद्वदस्व जनार्दन॥१॥
श्रीकृष्ण उवाच
साधु पृष्टं त्वया राजैल्लोकानां हितकाम्यया।
बहुपुण्यप्रदा ह्येषा महापातकनाशिनी॥२॥
अपरा नाम राजेन्द्र अपारफलदायिनी।
लोक प्रसिद्धतां याति अपरां यस्तु सेवते॥३॥
ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा।
परापवादवादी च परस्त्रीरसिकोपि च॥४॥
अपरासेवनाद्राजन्विपाप्मा भवति ध्रुवम्।
कूटसाक्ष्य मानकूटं तुलाकूटं करोति यः॥५॥
कूटवेदं पठेद्विप्रः कूटशास्त्रं तथैव च।
ज्योतिषी कूटगणकः कूटायुर्वेदको भिषक्॥६॥
कूट साक्षिसमा ह्येते विज्ञेया नरकौकसः।
अपरासेवनादाजन् पापमुक्ता भवन्ति ते॥७॥
क्षत्रियः क्षात्रधर्म यस्त्यक्त्वा युद्धात्पलायते।
स याति नरकं घोरं स्वीयधर्मबहिष्कृतः॥८॥
अपरासेवनात्सोपि पापं त्यक्त्वा दिवं व्रजेत्।
विद्यामधीत्य यः शिष्यो गुरुनिन्दा करोति च॥९॥
महापातकसंयुक्तो निरयं याति दारुणम्।
अपरासेवनात्सोपि सद्गतिं प्राप्नुयानरः॥१०॥
पुष्करत्रितये स्नात्वा कार्तिक्यां यत्फलं लभेत्।
मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम्॥११॥
काश्यां यत्प्राप्यते पुण्यं शिवरारुपोषणात्।
गयायां पिण्डदानेन यत्फलं प्राप्यते नृभिः॥१२॥
सिंहस्थिते देवगुरौ गौतमीस्नानतो नरः।
यत्फलं समवाप्नोति कुम्भे केदारदर्शनात्॥१३॥
बदर्याश्रमयात्रायास्तत्तीर्थसेवनादपि।
यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे॥१४॥
गजाश्वहेमदानेन यज्ञे कृत्स्नसुवर्णदः।
तत्फलं समवाप्नोति अपराया व्रतान्नरः॥१५॥
अर्धप्रसूतां गां दत्त्वा सुवर्ण वसुधां तथा।
नरो यत्फलमानोति अपराया व्रतेन तत्॥१६॥
पापद्रुमकुठारोऽयं पापेन्धनदवानलः।
पापान्धकारसूर्योऽयं पापसारङ्गकेसरी॥१७॥
अपरैकादशी राजन् कर्तव्या पापभीरुभिः।
बुदबुदा इव तोयेषु पुत्तिका इव जन्तुषु॥१८॥
जायन्ते मरणायैव एकादश्या व्रतं विना।
अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम्॥१९॥
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः।
लोकानां च हितार्थाय तवाने कथितं मया।
पठनाच्छ्रवणाद्राजन् सर्वपापैः प्रमुच्यते॥२०॥
॥इति ब्रह्माण्डपुराणे ज्येष्ठकृष्णापराख्यकादशीमाहात्म्यं सम्पूर्णम्॥
❀