वैशाख-शुक्ल-मोहिनी-एकादशी-माहात्म्यम्

युधिष्ठिर उवाच

वैशाखशुक्लपक्षे तु किन्नामैकादशी भवेत्।
किं फलं को विधिस्तस्याः कथयस्व जनार्दन॥१॥

श्रीकृष्ण उवाच

कथयामि कथामेतां शृणु त्वं धर्मनन्दन।
वसिष्ठो यामकथयत्पुरा रामाय पृच्छते॥२॥

राम उवाच

भगवन् श्रोतुमिच्छामि व्रतानामुत्तमं व्रत।
सर्वपापक्षयकरं सर्वदुःखनिकृन्तनम्॥३॥
मया दुःखानि भुक्तानि सीताविरहजानि व।
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने॥४॥

वसिष्ठ उवाच

साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः।
त्वन्नामग्रहणेनैव पूतो भवति मानवः॥५॥
तथापि कथयिष्यामि लोकानां हितकाम्यया।
पवित्रं प्रावनानां च व्रतानामुत्तमं व्रतम्॥६॥
वैशाखस्य सिते पक्षे द्वादशी राम या भवेत्।
मोहिनीनाम सा प्रोक्ता सर्व पापहरा परा॥७॥
मोहजालात्प्रमुच्येत पातकानां समूहन्तः।
अस्या व्रतप्रभावेण सत्यं सत्यं वदाम्यहम्॥८॥
अतस्तु कारणाद्राम कर्तव्यैषा भवादशैः।
पातकानां क्षयकरी महादुःखविनाशिनी॥९॥
शृणुष्वैकमना राम कथां पुण्यप्रदां शुभाम्।
यस्याः श्रवणमात्रण महापापं प्रणश्यति॥१०॥
सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा।
द्युतिमानाम नृपतिस्तत्र राज्यं करोति वै॥११॥
सोमवंशोद्भवो राम धृतिमान्सत्यसङ्गरः।
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान्॥१२॥
धनपाल इति ख्यात पुण्यकर्मप्रवर्तकः।
प्रपासवाद्यायतनतडागारामकारकः॥१३॥
विष्णुभक्तिपरः शान्तस्तस्यांसपञ्चपुत्रकाः।
सुमना द्युतिमांश्चैव मेधावी सुकृती तथा॥१४॥
पञ्चमो धृष्टबुद्धिश्च महापापरतः सदा।
वारस्त्रीसङ्गनिरतो विटगोष्ठीविशारदः॥१५॥

द्यूतादिव्यसनासक्तः परस्त्रीरतिलालसः
न देवांश्चातिथीन्वृद्धान् पितॄश्चा विजानपि

अन्यायकर्ता दुष्टात्मा पितृद्रव्यक्षयङ्करः।
अभक्ष्यभक्षकः पाप सुरापानरतः सदा॥१६॥
वेश्याकण्ठक्षिप्तवाहुर्धमदृष्टिश्चतुष्पथे।
पित्रा निष्कासितो गेहात्परित्यक्तश्च बान्धवैः॥१७॥
स्वदेहभूषणान्येवं क्षयं नीतानि तेन वै।
मणिकाभिः परित्यक्तो निन्दितश्च धनक्षयात्॥१८॥
ततश्चिन्तापरो जातो वस्त्रहीनः क्षुधार्दितः।
किं करोमि क गच्छानि केनोपायेन जीव्यते॥१९॥
तस्करत्वं समारब्धं तत्रैव नगरे ततः।
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात्॥२०॥
पुनर्बद्धः पुनर्मुक्तः पुनर्मुक्तः स वै भटैः।
धृष्टबुद्धिर्दुराचारो निबद्धो निगडैद्वैः॥२१॥
कशाघातस्ताडितश्च पीडितश्च पुनः पुनः।
न स्थातव्यं हि मन्दात्मंस्त्वया मद्देश गोचरे॥२२॥
एवमुक्त्वा ततो राज्ञा मोचितो दृढबन्धनात्।
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम्॥२३॥
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति।
सिंहवनिजघानासौ मृगसूकरचित्तलान्॥२४॥
आमिषाहारनिरतो वने तिष्ठति सर्वदा।
शरासने शरं कृत्वा निषङ्गं पृष्ठसङ्गतम्॥२५॥
अरण्यचारिणो हन्ति दक्षिणश्च चतुष्पदान्।
चकोरांश्च मयूरांश्च कास्तित्तिरिमूषकान्॥२६॥
एतानन्यान् हन्ति नित्यं धृष्टबुद्धिः स निर्वृणः।
पूर्वजन्मकृतैः पापैनिमग्नः पापकर्दमे॥२७॥
दुःखशोकसमाविष्टश्चिन्तयन् सोऽप्यहर्निशम्।
कौण्डिन्यस्याश्रमं प्राप्तः कस्माञ्चित्पुण्यगौरवात्॥२८॥
माधवे मासि जाहल्या कृतस्नानं तपोधनम्।
आससाद धृष्टबुद्धिः शोकभारेण पीडितः॥२९॥
तद्वस्त्रविन्दुस्पर्शन गतपाप्मा हताशुभः।
कौण्डिन्यस्याप्रतः स्थित्वा प्रत्युवाच कृताञ्जलिः॥३०॥

धृष्टबुद्धिरुवाच

प्रायश्चित्तं वद ब्रह्मन्विना वित्तेन यद्भवेत्।
आजन्मकृतपापस्य नास्ति वित्तं ममाधुना॥३१॥

ऋषिरुवाच

शृणुष्वकमना भूत्वा येन पापक्षयस्तव।
वैशाखस्य सिते पक्षे मोहिनी नाम नामतः॥३२॥
एकादशीवतं तस्याः कुरु मद्वाक्यनोदितः।
मेरुतुल्यानि पापानि क्षयं नयति देहिनाम्॥३३॥
बहुजमार्जितान्येषा मोहिनी समुपोषिता।
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नहृत्॥३४॥
व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः।
कृते व्रते नृपश्रेष्ठ हतपापो बभूव सः॥३५॥
दिव्यदेहस्ततो भूत्वा गरुडोपरि संस्थितः।
जगाम वैष्णवं लोकं सर्वोपद्रववर्जितम्॥३६॥
इतीदृशं रामचन्द्र तमोमोहनिकृन्तनम्।
नातः परतरं किश्चित्रैलोक्ये सचराचरे॥३७॥
यज्ञादितीर्थदानानि कलां नाहन्ति षोडशीम्।
पठनाच्छ्रवणाद्राजन् गोसहस्रफलं लभेत्॥३८॥

॥इति श्रीकूर्मपुराणे मोहिन्याख्यवैशाखशुक्लैकादशीमाहात्म्यं सम्पूर्णम्॥