वैशाख-कृष्ण-वरूथिनी-एकादशी-माहात्म्यम्

युधिष्ठिर उवाच

वैशाखस्यासिते पक्षे किन्नामैकादशी भवेत्।
महिमानं कथय मे वासुदेव नमोऽस्तु ते॥१॥

श्रीकृष्ण उवाच

सौभाग्यदायिनी राजनिह लोके परत्र च।
वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी॥२॥
वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा।
पापहानिश्च भवति सौभाग्यप्राप्तिरेव च॥३॥
दुर्भगा या करोत्येना सा स्त्री सौभाग्यमाप्नुयात्।
लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी॥४॥
सर्वपापहरा नृणां गर्भवासनिकृन्तनी।
वरूथिन्या व्रतेनैव मान्धाता स्वर्गतिं गतः॥५॥
धुन्धुमारादयश्चान्ये राजानो बहवस्तथा।
ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः॥६॥
दशवर्षसहस्राणि तपस्तप्यति यो नरः।
तचुल्यं फलमाप्नोति वरूथिन्या व्रतादपि॥७॥
कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः।
तत्तुल्यं फलमाप्नोति वरूथिन्या व्रतान्नरः॥८॥
श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः।
वाञ्छितं लभते सोऽपि इह लोके परत्र च॥९॥
पवित्रा पावनी ह्येषा महापातकनाशिनी।
भुक्तिमुक्तिप्रदा चापि कर्मणां नृपसत्तम॥१०॥
अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते।
गजदानाद्भूमिदानं तिलदानं ततोऽधिकम्॥११॥
ततः सुवर्णदानं तु अन्नदानं ततोऽधिकम्।
अन्नदानात्पर दानं न भूतं न भविष्यति॥१२॥
पितृदेवमनुष्याणां तृप्तिरनेन जायते।
तत्सम कविभिः प्रोक्तं कन्यादानं नृपोत्तम॥१३॥
धेनुदानं च तत्तुल्यमित्याह भगवान् स्वयम्।
प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते॥१४॥
तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम्।
कन्यावित्तेन जीवन्ति ये नराः पापमोहिताः॥१५॥
ते नरा नरकं यान्ति यावदाभूतसम्प्लवम्।
तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम्॥१६॥
यञ्च गृहाति लोभेन कन्या क्रीत्वा च तद्धनम्।
'सोन्यजन्मनि राजेन्द्र ओतुर्भवति निश्चि॥१७॥
कन्यां वित्तेन यो दद्याद् यथाशक्ति स्वलङ्कृताम्।
तत्पुण्यसङ्ख्यां कर्तुं हि चित्रगुप्तो न वेत्यलम्॥१८॥
तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम्।
कांस्यं मांसं मसूरानं चणकान् कोद्रवांस्तथा।
शाकं मधु परान्नं च पुनर्भोजनमैथुने॥१९॥
वैष्णवव्रतकर्ता च दशम्यां दश वर्जयेत्।
द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनम्॥२०॥
परापवादं पैशुन्यं पतितैः सह भाषणम्।
क्रोध चैवानृतं वाक्यमेकादश्यां विवर्जयेत्॥२१॥
कांस्यं मांसं मसूरांश्च क्षौद्रं वितथभाषणम्।
व्यायामश्च प्रयासं च पुनर्भोजनमैथुने॥२२॥
क्षौर तैलं परानं च द्वादश्यां परिवर्जयेत्।
अनेन विधिना राजन्विहिता यैर्वरूथिनी।
सर्वपापक्षयं कृत्वा दद्यात्प्रान्तेऽक्षयां गतिम्॥२३॥
रात्री जागरणं कृत्वा पूजितो यर्जनार्दनः।
सर्वपापविनिर्मुक्तास्ते यान्ति परमो गतिम्॥२४॥
तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः।
क्षपारितनयादीतैर्नरदेव वरूथिनीम्॥२५॥
पठनाच्छ्रवणाद्राजन् गोसहस्रकलं लभेत्।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥२६॥

॥इति श्रीभविष्यपुराणे वैशाखकृष्णैकादश्या वरूथिन्याख्याया माहात्म्यं सम्पूर्णम्॥