चैत्र-शुक्ल-कामदा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः।
चैत्रस्य शुक्लपक्षे तु किन्नामकादशी भवेत्॥१॥
श्रीकृष्ण उवाच
शृणुष्वैकमना राजन् कथामेको पुरातनीम्।
वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते॥२॥
दिलीप उवाच
भगकछोतुमिच्छामि कथयस्व प्रसा दतः।
चैत्रे मासि सिते पक्षे किन्नामैकादशी भवेत्॥३॥
वसिष्ठ उवाच
साधु पृष्टं नृपश्रेष्ठ कथयामि तवाग्रतः।
चत्रस्य शुक्लपक्षे तु कामदा नाम नामतः॥४॥
एकादशी पुण्यतमा पापेन्धनदवानलः।
शृणु राजन् कथामेतां पापन्नी पुत्रदायिनीम्॥५॥
पुरा भोगिपुरे रम्ये हेमरत्नविभूषिते।
पुण्डरीकमुखा नागा निवसान्त मदोत्कटाः॥६॥
तस्मिन् पुरे पुण्डरीको राजा राज्यं करोति च।
गन्धर्वैः किन्नरैश्चैव ह्यप्सरोभिः स सेव्यते॥७॥
वराप्सरा तु ललिता गन्धर्वो ललितस्तथा।
उभौ रागेण संयुक्तौ दम्पती कामपीडितौ॥८॥
रेमाते स्वगृहे रम्ये धनधान्ययुते सदा।
ललितायास्तु हृदये पतिर्वसति सर्वदा॥९॥
हृदयें तस्य ललिता नित्यं वसति भामिनी।
एकदा पुण्डरीकाद्याः क्रीडन्तः सदसि स्थिताः॥१०॥
गीतगानं प्रकुरुते ललितो दयितां विना।
पदबन्धे स्खलजिह्वो बभूव ललितां स्मरन्॥११॥
मनोभावं विदित्वाऽस्य कोटो नागसत्तमः।
पदबन्धच्युतिं तस्य पुण्डरीके न्यवेदयत्॥१२॥
क्रोधसंरक्तनयनः पुण्डरीकोऽभवत्तदा।
शशाप ललितं तत्र मन्दनातुरचेतसम्॥१३॥
राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः।
यतः पत्नीवशो जातो गायश्चैव ममाग्रतः॥१४॥
वचनात्तस्य राजेन्द्र रक्षोरूपो बभूव ह।
रौद्राननो विरूपाक्षो दृष्टमात्रो भयङ्करः॥१५॥
बाहू योजनविस्तीर्णी मुखकन्दरसन्निभम्।
चन्द्रसूर्यनिभे नेत्रे ग्रीवा पर्वतसन्निभा॥१६॥
नासारन्ध्रे तु विवरे चाधरौ योजनार्धकौ।
शरीरं तस्य राजेन्द्र उत्थितं योजनाष्टकम्॥१७॥
ईदृशो राक्षसः सोऽभूद्भुञ्जानः कर्मणः फलम्।
ललिता तमथालोक्य स्वपति विकृताकृतिम्॥१८॥
चिन्तयामास मनसा दुःखेन महतार्दिता।
किं करोमि व गच्छामि पतिः शापेन पीडितः॥१९॥
इति संस्मृत्य मनसा न शर्म लभते तु सा।
चचार पतिना सार्ध ललिता गहने वन॥२०॥
बभ्राम विपिने दुर्गे कामरूपः स राक्षसः।
निर्वृणः पापनिरतो विरूपः पुरुषदकः॥२१॥
न सुखं लभते रात्रौ न दिवा तापपीडितः।
ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम्॥२२॥
भ्रमन्ती तेन सार्ध सा रुदती गहने वने।
कदाचिदगमद्विन्ध्यशिखरे बहुकौतुके॥२३॥
ऋष्यशृङ्गमुनेस्तत्र दृष्ट्वाश्रमपदं शुभम्।
शीघ्रं जगाम ललिता विनयावनता स्थिता॥२४॥
प्रत्युवाच मुनिदृष्ट्वा का त्वं कस्य सुता शुभम्।
किमर्थ त्वमिहायाता सत्यं वद ममाप्रतः॥२५॥
ललितोवाच
वीरधन्तेति गन्धर्वः सुतां तस्य महात्मनः।
ललितां नाम मां विद्धि पत्यर्थमिह चागताम्॥२६॥
भर्ता में शापदोषेण राक्षसोऽभून्महामुने।
रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम्॥२७॥
साम्प्रतं शाधि मां ब्रह्मन् प्रायश्चित्तं करोमि तत्।
येन पुण्येन मे भर्ता राक्षसत्वाद्विमुच्यते॥२८॥
ऋषिरुवाच
चैत्रमासस्य रम्भोरु शुक्लपक्षेऽस्ति साम्प्रतम्।
कामदैकादशी नाम्ना या कृता कामदा नृणाम्॥२९॥
कुरुष्व तद्वतं भद्रे विधिपूर्व मयोदितम्।
तस्य व्रतस्य यत्पुग्यं तत्स्वभत्रै प्रदीयताम्॥३०॥
दत्ते पुण्ये क्षणात्तस्य शापदोषः प्रशाम्यति।
इति श्रुत्वा मुनेर्वाक्यं ललिता हर्विपाभवत्॥३१॥
उपोष्यैकादशी राजन्द्वादशी दिवसे तदा।
विप्रस्यैव समीपे तु वासुदेवाग्रतः स्थिता॥३२॥
वाक्यमूचे तु ललिता स्वपत्युत्तारणाय वै।
मया तु यद्वतं चीर्ण कामदाया उपोषणम्॥३३॥
तस्य पुण्यप्रभावेण गच्छत्वस्य पिशाचता।
ललितावचनादेवं वर्तमानोपि तत्क्षगे॥३४॥
गतपापः सललितो दिव्य देहो बभूव ह।
राक्षसत्वं गतं तस्य प्राप्तो गन्धर्षतां पुनः॥३५॥
हेमरत्नसमाकीणों रेमे ललितया सह।
तौ विधानं समारूढौ पूर्वरूपाधिकावुभौ॥३६॥
दम्पती चापि शोभेता कामदायाः प्रभावतः।
इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः॥३७॥
लोकानां च हितार्थाय तबाने कथिता मया।
ब्रह्महत्यादिपापनी पिशाचत्वविनाशिनी॥३८॥
नातः परतरा काचित्रैलोक्ये सचराचरे।
पठनाच्छ्रवणाद्वाऽपि वाजपेयफलं लभेत्॥३९॥
॥इति श्रीवाराहपुराणे कामदा नाम चैत्रशुक्लैकादशीमाहात्म्यं सम्पूर्णम्॥
❀