चैत्र-कृष्ण-पापमोचनी-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
फाल्गुनस्य सिते पक्षे श्रुता साऽमलकी मया।
चैत्रस्य कृष्णपक्षेन किं नामैकादशी भवेत्॥१॥
को विधिः किं फलं तस्या ब्रूहि कृष्ण ममाननः।
श्रीकृष्ण शृणु राजेन्द्र वक्ष्यामि पापमोचनिकाव्रतम्॥२॥
यल्लोमशोऽब्रवीत्पृष्टो मान्धात्रा चक्र।
मान्धातोवाच
भगवञ्छोतुमिच्छामि लोकानां हितकाम्यया॥३॥
चैत्रमास्यसिते पक्ष नामैकादशी भवेत्।
को विधिः किं फलं तस्याः कथयस्व प्रसादतः॥४॥
लोमश उवाच
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी।
एकादशी समाख्याता पिशाचत्वविनाशिनी॥५॥
शृणु तस्याः प्रवक्ष्यामि क मदां सिद्धिदां नृप।
कथां विचित्रां शुभदा पापी धर्मका॥६॥
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते।
वसन्तसमये प्राते पुष्पैराकुलिते वने॥७॥
गन्धर्वकन्यास्तत्रैव रमन्ति सह किन्नरैः।
पाकशालनमुख्याश्च क्रीडन्ते च दिवौकसः॥८॥
नापरं सुन्दर किश्चिदनाच्चैत्ररथानम्।
तस्मिन्वने तु मुनयस्त पन्ति बहुलं तपः॥९॥
वैस्तु मघवा रमते मधुमाधवौ।
एको मुनिवरस्तव मेधावी नाम नामतः॥१०॥
ॐ मुनिवरं मोहनायोपचक्रमे।
मजुयोति विख्याना भावं तस्य विचिन्वती॥११॥
क्रोशमात्र स्थिता तस्य भयदाश्रमसन्निधौ।
गायन्ती मधुरं साधु पीडयन्ती विपश्चिकाम्॥१२॥
गायानी तोमथालोक्य पुष्पचन्दनवेष्टिताम्।
कामोऽपि विजयाकाङ्क्षी शिवभक्तं मुनीश्वरम्॥१३॥
तस्याः शरीरसंसर्ग शिववैरमनुस्मरन्।
कृत्वा भ्रुवौ धनुष्कोटी गुणं कृत्वा कटाक्षकम्॥१४॥
मार्गणो नयने कृत्वा पक्षयुक्तौ यथाक्रमम्।
कुचौ कृत्वा पटकुटी विजयायोपसंस्थितः॥१५॥
मञ्जुघोषाभवत् तत्र कामस्येव वरूथिनी।
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता॥१६॥
यौवनोदिनदेहोऽसौ मेधाव्यतिविराजते।
सितोपवीतसहितो दण्डी स्मर इवापरः॥१७॥
मञ्जुघोषा स्थिता तत्र दृष्ट्वा तं मुनिपुङ्गवम्।
मदनस्य वशं प्राप्ता मन्दं मन्दमगायत॥१८॥
रणद्रलयसंयुक्तां शिञ्जपुरमेखलाम्।
गायन्ती भावसंयुक्तां विलोक्य मुनिपुङ्गवः॥१९॥
मदनेन ससैन्येन नीतो मोहवशं बलात्।
मञ्जुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम्॥२०॥
हावभावकटाक्षैस्तु मोहयामास चाङ्गना।
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम्॥२१॥
वल्लीवाकुलिता वृक्षं वातवेगेन वेपिता।
सोऽपि रेमे तया सार्ध मेधावी मुनिपुङ्गवः॥२२॥
तस्मिन्नेव वनोदेशे दृष्ट्वा तदेहमुत्तमम्।
शिवतत्त्वं स विस्मृत्य कामतत्त्ववशं गतः॥२३॥
न निशां न दिनं सोऽपि रमजानाति कामुकः।
बहुलश्च गतः कालो मुनराचारलोपकः॥२४॥
मजुघोषा देवलोकगमनायोपचक्रमे।
गच्छन्ती प्रत्युवाचाथ रमन्तं मुनिपुङ्गवम्॥२५॥
आदशो दीयतां ब्रह्मन् स्वधामगमनाय मे।
मेधाव्युवाच
अव त्वं समायाता प्रदोषादौ वरानने॥२६॥
यावत्प्रभातसन्ध्या स्यात्तावत्तिष्ठं ममान्तिके।
इति श्रुत्वा मुने वाक्यं भयभीता बभूव सा॥२७॥
पुनर्वै रमयामास तं मुनि नृपसत्तम।
मुनिशापभयागीता बहुलान् परिवत्सरान्॥२८॥
वर्षाणि सप्तपञ्चाशनवमासान् दिनत्रयम्।
सा रेमे सुनिना तस्य निशार्धमिव चाभवत्॥२९॥
सा तं पुनरुवाचाथ तस्मिन्काले गत मुनिम्।
आदेशो दीयता ब्रह्मन गन्तव्यं स्वगृहे मया॥३०॥
मेधाव्युवाच
प्रातःकालोऽधुनेवारते श्रूयतां वचनं मम।
कुर्वे सन्ध्यां दिनं यावत्तावत्त्वं सुस्थिरा भव॥३१॥
इति वाक्यं मुनेः श्रुत्वा भयानन्दसमाकुलम्।
स्मितं कृत्वा तु सा किश्चित्प्रत्युवाच सुविस्मिता॥३२॥
अप्सरा उवाच
कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गताः किल।
मयि प्रसादं कृत्वा तु गतः कालो विचार्यताम्॥३३॥
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः।
सध्यात्वा हृदि विप्रेन्द्रःप्रणाममकरोत्तदा॥३४॥
समाश्च सप्तपञ्चाशद्गता मम तया सह।
नेत्राभ्यां विस्फुल्लिङ्गान्स मुश्चमानोऽतिकोपनः॥३५॥
कालरूपां च तां दृष्ट्वा तपसः क्षयकारिणीम्।
दुःखार्जितं मम तपो नीतं तदनया क्षयम्॥३६॥
विचार्येत्थं स कम्पोष्ठो मुनिस्तु व्याकुलेन्द्रियः।
तां शशाप च मेधावी त्वं पिशाची भवेति हि॥३७॥
धिक्त्वा पापे दुराचारे कुलटे पातकप्रिये।
तस्य शापेन सा दग्धा विनयावनता स्थिता॥३८॥
उवाच वचनं सुभूः प्रसादं वाञ्छती मुनिम्।
कृत्वा प्रसादं विप्रेन्द्र शापस्योपशमं कुरु॥३९॥
सतां सङ्गेहि भवति मित्रत्वं सप्तमे पद।
त्वया सह मम ब्रह्मन् गताः सुबहवः समाः॥४०॥
एतस्मात्कारणात्स्वामिन् प्रसादं कुरु सुव्रत।
मुनिरुवाच
शृणु मे वचनं भद्रे शापानुग्रहकारकम्॥४१॥
किं करोमि त्वया पापे क्षयं नीतं महत्तपः।
चैत्रस्य कृष्णपक्षे या भवेदेकादशी शुभा॥४२॥
पापमोचनिका नाम सर्वपापक्षयङ्करी।
तस्या व्रते कृते सुभ्रु पिशाचत्वं प्रयास्यति॥४३॥
इत्युक्त्वा तां स मधावी जगाम पितुराश्रमम्।
तमागतं समालोक्य च्यवनःप्रत्युवाच ह॥४४॥
किमेतद्विहितं पुत्र त्वया पुण्यक्षयः कृतः।
मेधाव्युवाच
पापं कृतं महत्तात रमिता चाप्सरा मया॥४५॥
प्रायश्चित्तं ब्रूहि मम येन पापक्षयो भवेत्।
च्यवन उवाच
चैत्रस्य चासिते पक्ष नाम्रा वै पापमोचनी॥४६॥
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत्।
इति श्रुत्वा पितुः वाक्यं कृतं तेन व्रतोत्तमम्॥४७॥
गतं पापं क्षयं तस्य पुण्ययुक्तो बभूव सा।
साप्येवं मञ्जुघोषा च कृत्वा तद्रूतमुत्तमम्॥४८॥
पिशाचत्वविनिर्मुक्ता पापमोचनिकाव्रतात्।
दिव्यरूपधरा भूत्वा गता नाकं वराप्सराः॥४९॥
लोमश उवाच
इत्थम्भूतप्रभावं हि पापमोचनिकाव्रतम्।
पापमोचनिको राजन् ये कुर्वन्तीह मानवाः॥५०॥
तेषां पापं च यत्किञ्चित्तत्सर्व क्षीणतां व्रजेत्।
पठनाच्छ्रवणादस्या गोसहस्रफलं लभेत्॥५१॥
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः।
व्रतस्य चास्य करणात् पापमुक्ता भवन्ति ते।
बहुपुण्यप्रदं ह्येतत्करणागतमुत्तमम्॥५२॥
॥इति श्रीभविष्यपुराणे पापमोचनिकाख्यचैत्रकृष्णैकादशीमाहात्म्यं सम्पूर्णम्॥
❀