फाल्गुन-शुक्लामलकी-एकादशी-माहात्म्यम्

मान्धातोवाच

वद ब्रह्मन्महाभाग येन श्रेयो भवेन्मम।
कृपया तब्रह्मयोने यधनुग्राह्यतो मयि॥१॥
सरहस्यं सेतिहासं प्रतानामुत्तमं व्रतम्।

वसिष्ठ उवाच

कथयाम्यधुना तुभ्यं सर्ववतफलप्रदम्॥२॥
, आमलक्या व्रतं राजन् महापातकनाशनम्।
मोक्षदं सर्वलोकानां गोसहस्नफलप्रदम्॥३॥
अत्रयोदाहरन्तीममितिहासं पुरातनम्।
यथामुक्तिमनुप्राप्तो व्याधो हिंसासमन्वितः॥४॥
वैदिशं नाम नगरं हृष्टपुष्टजनावृतम्।
ब्राह्मणैः क्षत्रियैश्यः शूद्रेश्च समलङ्कृतम्॥५॥
रुचिरं नृपशार्दूल ब्रह्मघोषनिनादितम्।
न नास्तिको दुष्कृतिकस्तस्मिन् पुरवरे सदा॥६॥
तत्र सोमान्वयो राजा विख्यातः शशिबिन्दवः।
राजा चैत्ररथो नाम धर्मात्मा सत्यसङ्गरः॥७॥
नागायुतबलः श्रीमाञ्छस्त्रशास्त्रार्थपारगः।
तस्मिन्छासति धर्मज्ञे धर्मात्मनि धरां प्रभो॥८॥
कृपणो नैव कुत्रापि दृश्यते नैव निर्धनः।
सुकालः क्षेममारोग्यं न दुर्भिक्षं न चेतयः॥९॥
विष्णुभक्तिरता लोकास्तस्मिन् पुरवरे सदा।
हरिपूजारताश्चैव राजा चापि विशेषतः॥१०॥
न शुक्लां नैव कृष्णां च द्वादशी भुञ्जते जनाः।
सर्वधर्मान् परित्यज्य हरिभक्तिपरायणाः॥११॥
एवं संवत्सरा जग्मुर्बहवो राजसत्तम।
जनस्य सौख्ययुक्तस्य हरिभक्तिरतस्य च॥१२॥
अथ कालेन सम्प्राप्ता द्वादशी पुण्यसंयुता।
फाल्गुनस्य सिते पक्षे नाम्ना ह्यामलकी स्मृता॥१३॥
तामवाप्य जनाः सर्वे बालकाः स्थविरा नृप।
नियमं चोपवासं च सर्वे चकुर्नरा विभो॥१४॥
प्रहालं व्रतं ज्ञात्वा स्नानं कृत्वा नदीजल।
नत्र देवालये राजा लोकयुक्तो महाप्रभुः॥१५॥
पूर्णकुम्भमवस्थाप्य छोपानह संयुतम्।
पञ्चरत्नसमायुतं दिव्यगधाधिवालितम्॥१६॥
दीपमालावितं चैव जामदग्न्यसमन्वितम्।
पूजयामातुरव्यमा धात्री च मुनिभिर्जनाः॥१७॥
जामदग्न्य नमस्तेऽस्तु रेगुकानन्दवर्धन।
मलकीतच्छाय भुक्तिमुक्तिवरप्रद॥१८॥
धात्रि धातृसमुद्भूते सर्वपातकनाशिनि।
आमलकि नमस्तुभ्यं सहामा यो दकं मम॥१९॥
धात्रि ब्रह्म स्वरूपासि त्वं तु रामे ग पूजिता।
प्रदक्षिण विधानेन सर्वनापहरा भव॥२०॥
तत्र जागरणं चक्रुर्जनः सर्वे स्वभक्तिः।
एतस्मिन्नेव काले तु व्याधस्तत्र समागतः॥२१॥
क्षुधाश्रमपरिव्यातो महामारण पीडितः।
कुटुम्बार्थ जीवनाती सर्वधर्मबहि कृतः॥२२॥
जागरं तत्र सोऽपश्यदामलक्यां झुधान्वितः।
दीपमालाकुलं दृष्ट्वा तत्रैव निषसाद सः॥२३॥
किमेतदिनि सञ्चिन्त्य प्रातबाविस्मयं भृशम्।
ददर्श कुम्भं तत्रस्थं देवं दामोदरं तथा॥२४॥
ददर्शामलकीवृक्षं तत्रस्थाश्चैव दीपकान्।
वैष्णवं च तथाऽख्यानं शुश्राव पठतां नृणाम्॥२५॥
एकादश्याश्च माहात्म्यं शुश्राव क्षुधितोऽपि सन्।
जाग्रतस्तस्य सा रात्रिर्गता विस्मितचेतसः॥२६॥
ततः प्रभातसमये विविशुनगरं जनाः।
व्याधोऽपि गृहमा गत्य बुजे प्रीतमानसः॥२७॥
ततः कालेन महता व्यायः पञ्चत्वमागतः।
एकादश्याः प्रभावेण रात्री जागरणेन च॥२८॥
राज्यं प्रपेदे सुमहच्चतुरङ्गवलाधिनम्।
जय-नीनाम नगरी तब राजा विदूरथः॥२९॥
तस्मात्स तनयो जज्ञ नाम्ना वतुरथो बली।
चतुरङ्गबलोपेतो धनधान्यसमन्वितः॥३०॥
दशायुतानि ग्रामागां बुभुजे भयवर्जिनः।
तेजसादित्यसदृशः कान्त्या चन्द्रसमप्रभः॥३१॥
पराक्रमे विष्णुप्तमः क्षमया पृथिवीलमः।
धार्मिकः सत्यवादी शक्तिपरायणः॥३२॥
ब्रह्मज्ञः कर्मशीलश्च प्रजापालनतत्परः।
यजते विविधान कमान राजा परदर्पहा॥३३॥
दानानि विविधान्येव प्रददाति च सर्वदा।
एकदा मृगयां यानो देवान्मार्गपरिच्युतः॥३४॥
न दिशो नैव विदिशो वेत्ति तत्र महीपतिः।
उपधाय च दोलनकाकी गहने वने॥३५॥
श्रान्तश्च क्षुधितोऽत्यन्तं संविवेश महीपतिः।
अवान्तरे न पर्वतान्तरवासभाक्॥३६॥
आययौ तत्र यत्रास्ते राजा परबलार्दनः।
कृतवैरास्ते राज्ञा सर्वदेवोपतापिताः॥३७॥
परिवार्य ततस्तस्थू राजानं भूरिदक्षिणम्।
हन्यता हाला वायं पूर्व वरविरुद्धधीः॥३८॥
अनेन निहताः पूर्व पितरौ भ्रातरः सुताः।
पौवाश्च व मातुलाश्च निपातिताः॥३९॥
निष्कासिताश्च स्वस्थानाद्विक्षिप्ताश्च दिशो दश।
एनपदुःस्वा ते सर्वे तत्रैनं हन्तुमुद्यताः।
पाशश्च पट्टिशैः खङ्गैर्बाणैर्धनुषि संस्थितैः॥४०॥
शस्त्राणि समापतन्ति न वै शरीरे प्रविशन्ति।
तस्यातिचापि सर्वे हतशस्त्रसङ्घा म्लेच्छा अरिजीवदेहाः॥४१॥
यदापि चलितुं तत्र न शेकुल्तेरयो भृशम्।
शस्त्रागि कुण्ठता जग्गः तवेषां हतचेतसाम्॥४२॥
दीना बभूवुस्ते सर्वे ये तं हन्तुं समागताः।
एतस्मिन्नेव काले तु तस्य राज्ञः शरीरतः॥४३॥
निन्मृता प्रमदा ह्येका सर्वावयवशोभना॥४४॥
दिव्य पता दिव्याभरणभूषिता।
दिव्यमाल्याम्बरधरा भृकुटीकुटिलानना॥४५॥
स्फुलि गाभ्यो च नेत्राभ्यां पावकं वमती बहु।
चक्रोद्यतकरा चैव कालरात्रिरिवापरा॥४६॥
अभ्यधामा सङ्कुद्धा म्लेच्छानत्यन्तदुःखितान्।
निहताश्च यदा म्लेच्छास्ते विकर्मरतास्तथा॥४७॥
ततो राजा विबुद्धः सन् ददर्श महदद्भतम्।
हतान् म्लेच्छगणान् दृष्ट्वा राजा हर्षमवाप सः॥४८॥
इह न हता म्लेच्छा अत्यन्तं वैरिणो मम।
केन चेदं महत्कर्म कृतमस्मद्धितार्थिना॥४९॥
समय काले तु वागुवाचाशरीरिणी।
तं स्थितं नृपतिं दृष्ट्वा निकामं विस्मयान्वितम्॥५०॥
शरणं केशवादन्यो नास्ति कोपि द्वितीयकः।
इति श्रुत्वाकाशवाणी विस्मयोत्तर॥५१॥
वनात्तस्मात्स कुशली समायातः स भूमिभुक्।
राज्यं चकार धर्मात्मा धरायो तेशवत्॥५२॥

वसिष्ठ उवाच

तस्मादामलकी राजन् ये कुर्वन्ति नरोत्तमाः।
ते यान्ति के लोकं नात्र कार्या विचारणा॥५३॥

॥इति श्रीब्रह्माण्डपुराणे आमलक्याख्यफाल्गुनशुक्लैकादशीव्रतम्॥