फाल्गुन-कृष्ण-विजया-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
फाल्गुनस्यासिते पक्षे किन्नामैकादशी भवेत्।
वासुदेव कृपासिन्धो कथयस्व प्रसादतः॥१॥
श्रीकृष्ण उवाच
कथयिष्यामि राजेन्द्र कृष्णा या फाल्गुनी भवेत्।
विजयेति च सा प्रोक्ता कर्तृणां जयदा सदा॥२॥
तस्याश्च व्रतमाहात्म्यं सर्वपापहरं परम्।
नारदः परिपप्रच्छ ब्रह्माणं कमलासनम्॥३॥
फाल्गुनस्यासिते पक्षे विजयानाम या तिथिः।
तस्या व्रतं सुरश्रेष्ठ कथयस्व प्रसादतः॥४॥
इति पृष्टो मारदेन प्रत्युवाच पितामहः।
ब्रह्मोवाच
शृणु नारद वक्ष्यामि कथां पापहरां पराम्॥५॥
पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम्।
यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम्॥६॥
जयं ददाति विजया नृणां चैवन संशयः।
रामस्तपोवनं यातो वर्षाण्येव चतुर्दश॥७॥
न्यवसत्पञ्चवट्यां तु ससीतश्च सल क्ष्मणः।
तत्रैव वसतस्तस्य राघवस्य महात्मनः॥८॥
रावणेन हृता भार्या सीतानाम्नी तपस्विनी।
तेन दुःखेन रामोऽसौ मोहमभ्यागतस्तदा॥९॥
भ्रमञ्जटायुषं तत्र ददर्श विगतायुषम्।
कवन्धो निहतः पश्चाद्रमतारण्यमध्यतः॥१०॥
राजे विज्ञाप्य तत्सर्व सोऽपि मृत्युवशं गतः।
सुग्रीवेण समं सख्यमजयं समजायत॥११॥
वानराणामनीकानि रामार्थ सङ्गतानि वै।
ततो हनूमता दृष्टा लोद्याने तु जानकी॥१२॥
रामसञ्ज्ञापनं तस्यै दत्तं कर्म महत्कृतम्।
समेत्य रामेण पुनः सर्व तत्र निवेदितम्॥१३॥
अथ श्रुत्वा रामचन्द्रो वाक्यं चैव हनूमतः।
सुग्रीवानुमतेनैव प्रस्थानं समरोचयत्॥१४॥
स गत्वा वानरैः सार्ध तीरं नदनदीपतेः।
दृष्ट्वाब्धि दुस्तरं रामो विस्मितोऽभूत्कपिप्रियः॥१५॥
प्रोत्फुल्ललोचनो भूत्वा लक्ष्मणं वाक्यमब्रवीत्।
सौमित्र केन पुण्येन तीर्यते वरुणालयः॥१६॥
अगाधसलिलैः पूर्णो नीमैः समाकुलः।
उपायं नैव पश्यामि येनैव सुतरो भवेत्॥१७॥
लक्ष्मण उवाच
आदिदेवस्त्वमेवासि पुराणपुरुषोत्तम।
बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः॥१८॥
अस्मात्स्थानाद्योजनार्धमाश्रमस्तस्य राघव।
अनेन दृष्टा ब्रह्माणो बहवो रघुनन्दन॥१९॥
तं पृच्छ गत्वा राजेन्द्र पुराणमृषिपुङ्गवम्।
इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम्॥२०॥
जगाम राघवो द्रष्टुं बदाल्भ्यं महामुनिम्।
त्रण नाम मुनि मूर्ना रामो विष्णुमिवामराः॥२१॥
मुनित्विा ततो राम पुराणपुरुषोत्तमम्।
केनापि कारणे व प्रविष्टं मानुषी तनुम्॥२२॥
उवाच स ऋषिस्तत्र कुतो राम तवागमः।
राम उवाच
त्वत्प्रसादादहो विप्र वरुणालयसनिधिम्॥२३॥
आगतोऽस्मि ससैन्योऽत्र लङ्कां जेतुं सराक्षसाम्।
भवतश्चानुकूल्येन तीर्यतेन्धिर्यथा मया॥२४॥
तमुपायं वद मुने प्रसादं कुरु सुव्रत।
एतस्मात्कारणादेव द्रष्टुं त्वाहमुपागतः॥२५॥
मुनिरुवाच
कथयिष्याम्यहं राम बतानामुत्तमं व्रतम्।
कृतेन येन सहसा विजयस्ते भविष्यति॥२६॥
लड़ां जित्वा राक्षसांश्च दीवी कीर्तिमवाप्स्यसि।
एकाप्रमानसो भूत्वा प्रतमेतत्समाचर॥२७॥
फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत्।
तस्या व्रते कृते राम विजयस्ते भविष्यति॥२८॥
निःसंशयं समुद्रं च तरिष्यसि सवानरः।
विधिस्तु श्रूयतां राम व्रतस्यास्य फलप्रदः॥२९॥
दशमीदिवसे प्राप्ते कुम्भमेकं च कारयेत्।
हेमं वा राजतं वाऽपि तानं वाप्यथ मृन्मयम्॥३०॥
स्थापयेत्स्थण्डिले कुम्भं जलपूर्ण सपल्लवम्।
सतधान्यान्य वस्तस्य यवातुपरि विन्यसेत्॥३१॥
तस्योपरि न्यसेदेवं हेमं नारायणं प्रभुम्।
एकादशीदिने प्राते प्रातःस्नानं समाचरेत्॥३२॥
निश्चले स्थापित कुम्भे गन्धमाल्यातुलपिते।
गन्धैर्धपैस्तथा दीपनैवेद्युविविधैरपि॥३३॥
दाडिमालिकेरैश्च पूजयेच्च विशेषतः।
कुम्भाने तहिन राम नेतव्यं भक्तिभावतः॥३४॥
रात्रौ जागरणं तब तस्याने कारयेद्बुधः।
द्वादशीदिवसे प्राप्त मार्तण्डस्योदये नृप॥३५॥
नीत्वा कुम्भं जलोद्देशे नद्यां प्रस्रवणे तथा।
तडागे स्थापयित्वा वा पूजयित्वा यथाविधि॥३६॥
दद्यात् सदैवतं कुम्भं ब्राह्मणे वेदपारगे।
कुम्भेन सह राजेन्द्र महादानानि दापयेत्॥३७॥
अनेन विधिना राम यूथपैः सह सङ्गतः।
कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति॥३८॥
इति श्रुत्वा वचो रामो यथोक्तमकरोत्तथा।
कृते व्रते स विजयी बभूव रघुनन्दनः॥३९॥
अनेन विधिना राजन्ये कुर्वन्ति नरा व्रतम्।
इहलोके जयस्तेषां परलोकस्तथाऽक्षयः॥४०॥
एतस्मात्कारणात्पुत्र कर्तव्यं विजयावतम्।
विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम्।
पठनाच्छ्रवणात्तस्य वाजपेयफलं लभेत्॥४१॥
॥इति श्रीस्कन्दपुराणे फाल्गुनकृष्णैकादश्या विजयानाम्न्या माहात्म्यं सम्पूर्णम्॥
❀