माघ-शुक्ल-जया-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
कृष्ण कृष्णाप्रमेयात्मवादिदेव जगत्पते।
स्वेदजा अण्ड जाश्चैव उद्भिजाश्च जरायुजाः॥१॥
तेषां कर्ता विकर्ता त्वं पालकः क्षयकारकः।
माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया॥२॥
शुक्ले यैकादशी तां च कथयस्व प्रसादतः।
किन्नामा कोविधिस्तस्याः को देवस्तत्र पूज्यते॥३॥
श्रीकृष्ण उवाच
कथयिष्यामि राजेन्द्र शुक्ले माघन्य या भवेत्।
जयानाम्रीति विख्याता सर्वपापहरा परा॥४॥
पवित्रा पापहन्त्री च कामदा मोक्षदा नृणाम्।
ब्रह्महत्यापहन्त्री च पिशाचत्वाविनाशिनी।
नैव तस्या ते चीणे प्रेतत्वं जायते नृणाम्॥५॥
नातः परतरा काचिपापन्नी मोक्षदायनी।
एतस्मात्कारणाद्राजन् कर्तव्येयं प्रयत्नतः॥६॥
श्रूयतां राजशार्दूल कथा पौराणिकी शुभा।
पङ्कजाख्यपुराणेऽस्या महिमा कथितो मया॥७॥
एकदा नाकलोके वै इन्द्रो राज्यं चकार ह।
देवाश्च तत्र सौख्येन निवसन्ति मनोरमे॥८॥
पीयूष पाननिरता ह्यप्सरोगणसेविताः।
नन्दनं तु वनं तत्र पारिजातोपशोभितम्॥९॥
रमयन्ति रमन्त्यत्र ह्यप्सरोभिर्दिवौकसः।
एकदा रममाणोऽसौ देवेन्द्रः स्वेच्छया नृप॥१०॥
नर्तयामास हर्षात्स पञ्चाशत्कोटिनायिकाः।
गन्धर्वास्तत्र गायन्ति गन्धर्वः पुष्पदन्तकः॥११॥
चित्रसनश्च नत्रैव चित्रसेनसुता तथा।
मालिनीति च नाना तु चित्रसेनस्य कामिनी॥१२॥
मालिन्यां तु समुत्पन्नः पुष्पवानिति नामतः।
तस्य पुष्पवतः पुत्रो माल्यवान्नाम नामतः॥१३॥
गन्धर्वी पुष्पवत्याख्या माल्यवत्यतिमोहिता।
कामस्य च शरैस्तीक्ष्णैर्विद्धाङ्गी सा बभूव ह॥१४॥
तया भावकटाक्षश्च माल्यवांस्तु वशीकृतः।
लावण्यरूपसम्पत्या तस्या रूपं नृप शृणु॥१५॥
बाहू तस्यास्तु कामेन कण्ठपाशौ कृताविव।
चन्द्रबद्वदनं तस्या नयने श्रवणायते॥१६॥
कर्णी तु शोभितौ तस्याः कुण्डलाभ्यां नृपोत्तम।
कण्ठो प्रैवेयसंयुक्तो दिव्याभरणभूषितः॥१७॥
पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव।
अतिक्षामं तदुदर मुष्टिमात्रं च मध्यमम्॥१८॥
नितम्बौ विपुलौ तस्या विस्तीर्ण जघनस्थलम्।
चरणौ शोभमानौ तौ रक्तोत्पलसमद्युती॥१९॥
ईदृश्यां पुष्पवत्यां स माल्यवानपि मोहितः।
शक्रस्य परितोषाय नृत्यार्थ तौ समागतौ॥२०॥
गायमानौ च तो तत्र ह्यप्सरोगणसङ्गतौ।
न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ॥२१॥
बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ।
ज्ञात्वा लेखर्षभस्तत्र सङ्गतं मानसं तयोः॥२२॥
कालक्रियाणां संलोपात्तथा गीतावभञ्जनात्।
चिन्तयित्वा तु मघवानवज्ञानं तथात्मनः॥२३॥
कुपितश्च तयोरित्थं शापं दास्यन्निदं जगौ।
धिग्वां पापगतौ मूढावाजाभङ्गकरौ मम॥२४॥
युवां पिशाचौ भवतं दम्पतीरूपधारिणौ।
मृत्युलोकमनुप्राप्तौ भुनानौ कर्मणः फलम्॥२५॥
एवं मघवता शप्तावुभौ दुःखितमानसौ।
हिमवन्तमनुप्राप्ताविन्द्रशापविमोहितौ॥२६॥
उभी पिशाचतां प्राप्तौ दारुणं दुःखमेव च।
सन्तप्तमानसौ तत्र महाकृच्छ्रगतावुभौ॥२७॥
गन्धं रसं च स्पर्श च न जानीतो विमोहितौ।
पीडयमानौ तु दाहेन देहपातकरेण च॥२८॥
तो ननिद्रामुखं प्राप्तौ कर्मणा तेन पीडितौ।
परस्परं खादमानौ चरेतुर्गिरिगह्वरम्॥२९॥
पीडयमानौ तु शीतेन तुषारप्रभवेण तौ।
दन्तघर्ष प्रकुर्वाणौ रोमाश्चितवपुर्धरौ॥३०॥
ऊचे पिशाचः शीतार्तः स्वपत्नी तु पिशाचिकाम्।
किमावाभ्यां कृतं पापमत्यन्तं दुःखदायकम्॥३१॥
येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा।
नरकं दारुणं मन्ये पिशाचत्वं च गर्हितम्॥३२॥
तस्मात्सर्वप्रयत्नेन पापं नैव समाचरेत्।
इति चिन्तापरौ तत्र ह्यास्तां दुःखेन कर्शितौ॥३३॥
दैवयोगात्तयोः प्राप्ता माघस्यैकादशी सिता।
जया नाम्नीति विख्याता तिथीनामुत्तमा तिथिः॥३४॥
तस्मिन्दिने तु सम्प्राप्ते तावाहारविवर्जितौ।
आसाते तत्र नृपते जलपानविवर्जितो॥३५॥
न कृतो जीवघातश्च न पेत्रफलभक्षणम्।
अश्वत्थस्य समीपे तु पतितौ दुःखसंयुतो॥३६॥
रविरस्तं गतो राजस्तथैव स्थितयोस्तयोः।
प्राप्ता चैव निशा घोरा दारुणा शीतकारिणी॥३७॥
वेपमानौ तु तो तत्र हिमेन च जडीकृतौ।
परस्परेण संलग्नौ गात्रयो(जयोरपि॥३८॥
न निद्रां न रतिं तत्र न तौ सौस्यमविन्दताम्।
एवं तौ राजशार्दूल शापेनेन्द्रस्य पीडितौ॥३९॥
इत्थं तयोर्दुःखितयोर्निर्जमाम तदा निशा।
जयायास्तु व्रते चीर्ण रात्री जागरणे कृते॥४०॥
तयोव्रतप्रभावेण यथा ह्यासीत्तथा शृणु।
द्वादशीदिवसे प्राप्ते ताभ्यां चीर्णे जयाव्रते॥४१॥
विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम्।
पुष्पवनीमाल्यवांश्च पूर्वरूपौ बभूवतुः॥४२॥
पुरातनस्नेहयुतौ पूर्वालङ्कारसंयुनौ।
विमानमधिरूढौ तावप्सरोगणसेवितो॥४३॥
स्तूयमानौ तु गन्धर्वैस्तुम्बुरुप्रमुम्बैस्तथा।
हावभावसमायुनौ गतौ नाके मनोरमे॥४४॥
देवेन्द्रस्याग्रतो गत्वा प्रणाम चक्रतुर्मुदा।
तथाविधौ तु तो दृष्ट्रा मघवा विस्मितोऽब्रवीत्॥४५॥
इन्द्र उवाच
वदतं केन पुण्यन पिशाचत्वं विनिर्गतम।
मम शापवशं प्राप्तौ केन देवेन मोचितौ॥४६॥
माल्यवानुवाच
वासुदेवप्रसादेन जयायाः सुव्रतेन च।
पिशाचत्वं गतं स्वामिन्सत्यं भक्तिप्रभावतः॥४७॥
इति श्रुत्वा वचस्तस्य प्रत्युवाच सुरेश्वरः।
पवित्रौ पावनौ जातो वन्दनीयौ ममापि च॥४८॥
हरिवासरकारी विष्णुभक्तिपरायणौ।
हरिभक्तिरता ये च शिवभक्तिरतास्तथा॥४९॥
अस्माकमपि ते माः पूज्या वन्द्या न संशयः।
विहरस्व यथासौख्यं पुष्पवत्या सुरालये॥५०॥
एतस्मात्कारणाद्राजन् कर्तव्यो हरिवासरः।
जया नामेति राजेन्द्र ब्रह्महत्यापहारकः॥५१॥
सर्वदानानि दत्तानि यज्ञास्तेन कृता नृप।
सर्वतीर्थेषु सुनातः कृतं येन जयाव्रतम्॥५२॥
य करोति नरो भक्त्या श्रद्धायुक्तो जयावतम्।
कल्पकोटिशतं यावद्वैकुण्ठे मोदते ध्रुवम्॥५३॥
पठनाच्यणाद्राजन्नाग्निष्टोमफलं लभेत्॥५४॥
॥इति श्रीभविष्योत्तरपुराणे माघशुक्क्लैकादश्या जयाया माहात्म्यं सम्पूर्णम्॥
❀