माघ-कृष्ण-षट्तिला-एकादशी-माहात्म्यम्

दाल्भ्य उवाच

मर्त्यलोके तु सम्प्राप्ताः पापं कुर्वन्ति जन्तवः।
ब्रह्महत्यादिपापैश्च ह्यन्यैश्च विविधैर्युताः॥१॥
परद्रव्यापहर्तारः परव्यसनमोहिताः।
कथं नायान्ति नरकान्ब्रह्मस्तवहि तत्त्वतः॥२॥
अनायासेन भगवन् दानेनाल्पेन केनचित्।
पापं प्रशममायाति येन तद्वक्तुमर्हसि॥३॥

पुलस्त्य उवाच

साधु साधु महाभाग गुह्यमेतत्तुदुर्लभम्।
यन्न कस्यचिदाख्यातं ब्रह्मविष्ण्विन्द्रदैवतैः॥४॥
तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम।
पौषमासे तु सम्प्राप्ते शुचिः स्नातो जितेन्द्रियः॥५॥
कामक्रोधाभिमानेालोभपैशुन्यवर्जितः।
देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिणा॥६॥
पुष्यक्षेण तु सङ्गृह्य गोमयं तत्र मानकः।
तिलान् प्रक्षिप्य कार्यासं पिण्डकांश्चैव कारयेत्॥७॥
अष्टोत्तरशतं होमो नात्र कार्या विचारणा।
माघमासे तु सम्प्राप्त ह्याषाढः भवेद्यदि॥८॥
मूलं वा कृष्णपक्षस्य द्वादश्यां नियमं ततः।
गृहीयात्पुण्यफलदं विधानं तस्य मे शृणु॥९॥
देवदेवं समभ्यर्च सुनातः प्रयतः शुचिः।
कृष्णनामानि सङ्कीर्त्य एकादश्यामपोषितः॥१०॥
रात्री जागरणं कुर्याद्रात्रौ होमं च कारयेत्।
अर्चयेद् देवदेवशं द्वितीयेदि पुनहरिम्॥११॥
चन्दनागुरुकर्परेनैवेद्यं कृसरं तथा।
संस्तुत्य नाम्ना तेनैव कृष्णाख्येन पुनः पुनः॥१२॥
कूष्माण्डेनारिकेले व ह्यथवा बीजपूरकैः।
सर्वाभावे तु विप्रेन्द्र शस्तपूगीफलैर्युतम्॥१३॥
अर्थ दद्याद्विधानेन पूजयित्वा जनादनम्।
कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव॥१४॥
संसारार्णवमन्नानां प्रसीद परमेश्वर।
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन॥१५॥
सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज।
गृहाणायं मया दत्तं लक्ष्म्या सह जगत्पते॥१६॥
ततस्तु पूजयेद्विप्रनुदकुम्भं प्रदापयेत्।
छत्रोपानयुगैः सार्ध कृष्णो मे प्रीयतामिति॥१७॥
कृष्णा धेनुः प्रदातव्या यथाशक्त्या द्विजोत्तम।
तिलपात्र द्विजश्रेष्ठ दात् तत्र विचक्षणः॥१८॥
स्नानप्राशनयोः शस्ताः श्वेताः कृष्णास्तिला मुने।
तान् प्रदद्यात्प्रयत्नेन यथाशक्त्या द्विजोत्तम॥१९॥
तिलप्ररोहजाः क्षेत्रे यावत्सङ्ख्यास्तिला द्विज।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते॥२०॥
तिलस्नायी तिलोद्वौ तिलहोमी तिलोदकी।
तिलभुक् तिलदाता च षट्तिलाः पापनाशकाः॥२१॥

[इयमेव पन्तलाख्या।]

नारद उवाच

कृष्ण कृष्ण महाबाहो नमस्ते विश्वभावन।
षटतिलकादशीभूतं कीदृशं फलमश्नुते॥२२॥
सोपाख्यानं मम ब्रूहि यदि तुष्टोसि यादव।

श्रीकृष्ण उवाच

शृणु ब्रह्मन् यथावृत्तं दृष्टं तत्कथयामि ते॥२३॥
मृत्युलोके पुरा ह्यासीद्राह्मण्येका च नारद।
व्रतचर्यारता नित्यं देवपूजारता सदा॥२४॥
मासोपंवासन्निरता मम भक्ता च सर्वदा।
कृष्णोपवाससंयुक्ता मम पूजापरायणा॥२५॥
शरीरं क्लेशितं नित्यमुपवासैस्तया द्विज।
दीनानां ब्राह्मणानाञ्च कुमारीणां च भक्तितः॥२६॥
गृहादिकं प्रयच्छन्ती सर्वकालं महामतिः।
अतिकृच्छ्रता सा तु सर्वकालेषु वै द्विजा॥२७॥
ब्राह्मणा नान्नदानेन तर्पिता देवता न च।
ततःकालेन महता मया ये चिन्तितं द्विज॥२८॥
शुद्धमस्या शरीरं हि व्रतः कृच्छर्न संशयः।
जितो वैष्णवो लोकः कायक्लेशेन वै तया॥२९॥
न दत्तमन्नदानं हि येन तृप्तिःपरा भवेत्।
विचिन्त्यैवं मया ब्रह्मन् मृत्युलोकमुपेत्य च॥३०॥
कापालं रूपमास्थाय भिक्षा पात्रेण याचिता।

ब्राह्मण्युवाच

कस्मात्त्वमागतो ब्रह्मन् वद सत्यं ममाप्रतः॥३१॥
पुनरेव मयाप्रोक्तं दहि भिक्षां च सुन्दरि।
तया कोपेन महता मृत्पिण्डस्ताम्रभाजने॥३२॥
क्षिप्तो यावदहं ब्रह्मन् पुनः स्वर्गः गतो द्विज।
ततः कालेन महता तापसी तुमहाव्रता॥३३॥
सदेहा स्वर्गमायाता व्रतचर्याप्रभावतः।
मृत्पिण्डस्य प्रभावेण गृहं प्राप्त मनोरमम्॥३४॥
परं तच्चैव विप्रर्षे धान्यकोशविवर्जितम्।
गृहं यावत्प्रविश्यैषा न किञ्चितत्र पक्ष्यति॥३५॥
तावद्गृहाद्विनिष्क्रम्य ममान्ते चागता द्विज।
क्रोधेन महताविष्टा इदै वचनमब्रवीत्॥३६॥
मया वतैश्च कृछैच ह्युपवासैरनेकशः।
पूजयाराधितो देवः सर्वलो कल्य भावनः॥३७॥
न तत्र दश्यते किश्चिद्गृहे मम जनार्दन।
ततश्चोक्ता मया सा तु गृह गच्छ यथागतम्॥३८॥
आगमिष्यन्ति सुतरां कौतूहलसमन्विताः।
द्रष्टुं त्वां देवपत्न्यस्तु दिव्यरूपसमन्विताः॥३९॥
द्वारं नोद्धाटय विना षट्तिलापुण्यवाचनात्।
एवमुक्ता गता सा तु याव? मानुषी गृहम्।
अवान्तरे समायाता देवपत्त्यश्च नारद॥४०॥
ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः।
द्वारमुद्घाटय त्वं च पश्यामस्त्वां शुभानने॥४१॥

मानुष्युवाच

यदि द्रष्टुं समायाताः सत्यं वाच्यं विशेषतः।
षट्तिलाया व्रतं पुण्यं द्वारोद्धाटनकारणात्॥४२॥
एकापि नावदत् तत्र षट्तिलैकादशीव्रतम्।
अन्यया कथितं तत्र द्रष्टव्या मानुषी मया॥४३॥
ततो द्वारं समुदाय दृष्टा ताभिश्च मानुषी।
न देवी न च गन्धर्वी नासुरी न च पन्नगी॥४४॥
दृष्टा पूर्व तथा नारी यादृशीयं द्विजर्षभ।
देवीनामुपदेशेन षट्तिलाया व्रतं कृतम्॥४५॥
मानुष्या सत्यवतया भुक्तिमुक्तिफलप्रदम्।
रूपकान्तिसमायुक्ता क्षणेन समवाप सा॥४६॥
धनं धान्यं च वस्त्रादि सुवर्ण रौप्यमेव च।
भवनं सर्वसम्पन्नं षटतिलायाः प्रसादतः॥४७॥
अतितृष्णा न कर्तव्या वित्तशाठयं विवर्जयेत्।
आत्मवित्तानुसारेण तिलान् वस्त्रादि दापयेत्॥४८॥
लभते चैवमारोग्यं ततो जन्मनि जन्मनि।
दारिद्र्यं न च कष्टं च न च दौर्भाग्यमेव च॥४९॥
न भवढे द्विजश्रेष्ठ पतिलायामुपोषणात्।
अनेन विधिना ब्रह्मस्तिलदानान्न संशयः॥५०॥
मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा।
दानं च विधिना सम्यक् सर्वपापप्रणाशनम्।
नानर्थः कश्चिन्नायासः शरीरे मुनिसत्तम॥५१॥

॥इति श्रीभविष्योत्तरपुराणे माघकृष्णैकादश्याः षट्तिलानाम्न्या माहात्म्यं सम्पूर्णम्॥