पौष-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
कथिता वै त्वया कृष्ण सफलैकादशी शुभा।
कथयस्व प्रसादेन शुक्ला पौषस्य या भवेत्॥१॥
किन्नाम को विधिस्तस्याः को देवस्तत्र पूज्यते।
कस्मै तुष्टो हृषीकेश त्वमेव पुरुषोत्तम॥२॥
श्रीकृष्ण उवाच
शृणु राजन् प्रवक्ष्यामि शुक्ला पौषस्य या भवेत्।
तस्या विधि महारान लोकानां च हिताय वै॥३॥
पूर्वेण विधिना राजन् कर्तव्यैषा प्रयत्नतः।
पुत्रदेति च नाम्नासौ सर्वपापहरा वरा॥४॥
नारायणोऽधिदेवोऽम्याः कामदः सिद्विदायकः।
नातःपरतरा काचित्रलोक्ये सचराचरे॥५॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं करोत्यसौ।
शृणु राजन् प्रवक्ष्यामि कथां पापहरां पराम्॥६॥
पुरी भद्रावती नाम्नी राजा तत्र सुकेतुमान्।
तस्य राज्ञोऽथ राज्ञी च शैब्या नाम्नीति विश्रुता॥७॥
पुत्रहीनेन राज्ञा च कालो नीतो मनोरथैः।
नैवात्मजं नृपो लेभे वंशकर्तारमेव च॥८॥
तेनैव राज्ञा धर्मेण चिन्तितं बहुकालतः।
किं करोमि छ गच्छामि सुतप्रातिः कथं भवेत्॥९॥
न राष्ट्र न पुरे सौख्यं लेभे राजा सुकेतुमान्।
शैव्यया कान्तया साई प्रत्यहं दुःखितोऽभवत्॥१०॥
तावुभौ दम्पती नित्यं चिन्ताशोकपरायणौ।
पितरोऽन्य जलं दत्तं कवोष्णमुपभुनते।
राजः पश्चान्न पश्यामो योऽस्मान् सन्तर्पयिष्यति॥११॥
इत्येवं संस्मरन्तोऽस्य पितरो दुःखिनोभवन्।
न बान्धवा न मित्राणि नामात्याः सुहृदस्तथा॥१२॥
रोचन्ते तस्य भूपस्य न गजाश्वपदातयः।
नैराश्यं भूपतेस्तस्य मनस्येवमजायत॥१३॥
नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम्।
अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा॥१४॥
पितृदेवमनुष्याणां नानृगित्वं सुतं विना।
तस्मात्सर्वप्रयत्नेन सुतमुत्पादयेन्नरः॥१५॥
इहलोके यशस्तेषां परलोके शुभा गतिः।
येषां तु पुण्यकर्तृणां पुत्रजन्म गृहे भवेत्॥१६॥
आयुरारोग्यसम्पत्तिस्तेषां गेहे प्रवर्तते।
पुत्राः पौत्राश्च लोकाश्च भवेयुः पुण्यकर्मणाम्॥१७॥
पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना तथा।
पुत्राणां सम्पदो वाऽपि विद्यापाश्चेति मे मतिः॥१८॥
एवं चिन्तयमानोसो राजा शर्म न लब्धवान्।
प्रत्यूषेऽचिन्तयद्राजा निशीथेऽचिन्तयत्तथा॥१९॥
ततश्चात्मविनाशं व विचार्याथ सुकेतुमान्।
आत्मघाते दुर्गातं च चिन्तयित्वा तदा नृपः॥२०॥
दृष्ट्वान्मदेई प्रक्षीणमपुत्रत्वं तथैव च।
पुनर्विचार्यात्मबुद्धचा ह्यात्मनो हितकारणम्॥२१॥
अश्वारूढस्ततो राजा जगाम गहनं वनम्।
पुरोहितादयः सर्वे न जानन्ति गतं नृपम्॥२२॥
गम्भीरे विपिन राजा मृगपक्षिनिषेविते।
विचचार तदा तस्मिन्वनवृक्षान्विलोकयन्॥२३॥
वटानश्वत्थविल्वांश्च खजूरापनसांस्तथा।
बकुलांश्च सदापर्णास्तिन्दुकांस्तिलकानपि॥२४॥
शालांस्तालास्तमालांश्च ददर्श सरलानृपः।
इगुदीककुभांश्चैव श्लेष्मातकविभीतकान्॥२५॥
शल्लकीकरमर्दाश्च पाटलान् स्खदिरानपि।
शाकांश्चैव पलाशांश्च शोभितान् ददृशे पुनः॥२६॥
मृगव्याध्रवराहांश्च सिंहाशाखामृगानपि।
गवयान् कृष्णसारांश्च सृगालाशशकानपि॥२७॥
वनमार्जार कान् क्रूराञ्शल्लकांश्चमरानपि।
ददर्श भुजगान् राजा वल्मीकादभिनिन्मृतान्॥२८॥
तथा वनगजान्मत्तान्कलभैः सह सङ्गतान्।
यूथपांश्च चतुर्दन्तान्करिणीगणमध्यगान्॥२९॥
तान् दृष्ट्वा चिन्तयामास ह्यात्मनः स गजान्नृपा।
तेषां स विचरन्मध्ये राजा शोभामवाप ह॥३०॥
महदाश्चर्यसंयुक्तं ददर्श विपिनं नृपः।
कञ्चिच्छिवारुतं शृण्वन्तुलूकविरुतं तथा॥३१॥
तांस्तान् क्षिमृगान् पश्यन्बभ्राम वनमध्यगः।
एवं ददर्श गहनं नृपो मध्यङ्गते रवौ॥३२॥
क्षुत्तृभ्यां पीडितो राजा इतश्चेतश्च धावति।
चिन्तयामास नृपतिः संशुष्कगलकन्धरः॥३३॥
मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम्।
मया वै तोविता देवा यज्ञैः पूजाभिरेव च॥३४॥
तथैव ब्राह्मगा दानस्तोषिता मृष्टभोजनैः।
प्रजाश्चैव यथाकालं पुत्रवन् परिपालिताः॥३५॥
कस्मादुःखं मया प्रातमीदृशं दारुणं महत्।
इति चिन्तापरो राजा जगामाथागतो वनम्॥३६॥
सुकृतस्य प्रभावेण सरो दृष्टं मनोरमम्।
मानसेन स्पर्धमानं पद्मिनी परिशोभितम्॥३७॥
कारण्डवैश्चक्रवाकै राजहंसैश्च नादितम्।
मकरहुभिर्मत्स्यैरन्य जलचरैर्युतम्॥३८॥
समीपे सरसस्तत्र मुनीनामाश्रमान् बहून्।
ददर्श राजा लक्ष्मीवानिमित्तैः शुभशंसिभिः॥३९॥
सव्यात्परतरं चक्षुरपसव्यस्तथा करः।
प्रास्फुरन्नृपतेस्तस्य कथयञ्शोभनं फलम्॥४०॥
तस्य तीरे मुनीन् दृष्ट्वा कुर्वाणान्नैगमं जपम्।
अवतीर्य हयात्तस्मान्मुनीनामग्रतः स्थितः॥४१॥
पृथक् पृथग्ववन्दे स मुनीस्तान् संशितव्रतान्।
कृताञ्जलिपुटो भूत्वा दण्डवञ्च प्रणम्य सः॥४२॥
हर्षेण महताविष्टो बभूव नृपसत्तमः।
तमूचुस्तेऽपि मुनयः प्रसन्नाः स्मो वयं तव॥४३॥
कथयस्वाद्य वै राजन्यत्ते मनसि वर्तते।
राजोवाच
के यूयमुग्रतपसः का आख्या भवतामपि॥४४॥
किमर्थ सङ्गता यूयं वदन्तु मम तत्त्वतः।
मुनय ऊचुः
विश्वेदेवा वयं राजन् स्नानार्थमिह चागताः॥४५॥
माघो निकटमायात एतस्मात्पञ्चमेहनि।
अद्य ह्येकादशी राजन पुत्रदा नाम नामतः॥४६॥
पुत्रं ददात्यसौ शुक्ला पुत्रदा पुत्रमिच्छताम्।
राजोवाच
ममापि यत्नो मुनयः सुतस्योत्पादने महान्॥४७॥
यदि तुष्टा भवन्तो मे पुत्रो धै दीयतां शुभः॥४८॥
मुनय ऊचुः
अस्मिन्नेव दिने राजन् पुत्रदा नाम वर्तते॥४९॥
एकादशी तिथिः ख्याता क्रियतां व्रतमुत्तमम्।
आशीर्वादेन चास्माकं केशवस्य प्रसादतः॥५०॥
अवश्यं तव राजेन्द्र पुत्रप्राप्तिर्भविष्यति।
इत्येवं वचनात्तेषां कृतं राज्ञा व्रतं शुभम्॥५१॥
द्वादश्यां पारणं कृत्वा मुनीनत्वा पुनः पुनः।
आजगाम गृहं राजा राज्ञी गर्भ समादधे॥५२॥
मुनीनां वचनेनैव पुत्रदायाः प्रसादतः।
पुत्रो जातस्तथा काले तेजस्वी पुण्यकर्मकृत्॥५३॥
पितरं तोषयामास प्रजापालो बभूव सः।
एतस्मात्कारणाद्राजन्कर्तव्यं पुत्रदावतम्॥५४॥
लोकानां च हितार्थाय तवाने कथितं मया।
एतद्वतं तु ये माः कुर्वन्ति पुत्रदाभिधम्॥५५॥
पुत्र प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः।
पठनाच्छ्रवणाद्राजन्नश्वमेधफलं लभेत्॥५६॥
॥इति श्रीभविष्योत्तरपुराणे पौषशुक्लैकादश्याः पुत्रदानाम्न्या माहात्म्यं सम्पूर्णम्॥
❀