पौष-कृष्ण-सफला-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
पौषस्य कृष्णपक्षे तु द्वादशी या भवेत् प्रभो।
किन्नाम को विधिस्तस्याः को देवस्तत्र पूज्यते॥१॥
एतदाचक्ष्व मे स्वामिन्विस्तरेण जनार्दन।
श्रीकृष्ण उवाच
कथयिष्यामि राजेन्द्र भवतः स्नेहकारणात्॥२॥
तथा तुष्टिर्न मे राजन् ऋतुभिश्चाप्तदक्षिणैः।
यथा तुष्टिर्भवन्मह्यमेकादश्या व्रतेन वै॥३॥
तस्मात्सर्वप्रयत्नेन कर्तव्यो हरिवासरः।
पौषस्य कृष्णपक्षे तु द्वादशी या भवेन्नृप॥४॥
तस्याश्चैव च माहात्म्यं शृणुष्वैकापमानसः।
गदितायाश्च चै राजन्नैकादश्यो भवन्ति हि॥५॥
तासामपि हि सर्वासां विकल्पं नैव कारयेत्।
अतः परं प्रवक्ष्यामि पौधे कृष्णा हि द्वादशी॥६॥
तस्या विधिं नृपश्रेष्ठ लोकानां हितकाम्यया।
पौषस्य कृष्णपक्षे या सफलानाम नामतः॥७॥
नारायणोऽधिदेवोऽस्याः पूजयेत्तं प्रयत्नतः।
पूर्वेण विधिना राजन् कर्तव्यकादशी जनः॥८॥
नागानां च यथा शेषः पक्षिणां गरुडो यथा।
यथाश्वमेधो यज्ञानां नदीनां जाह्नवी यथा॥९॥
देवानां च यथाविष्णुर्द्विपदां ब्राह्मणो यथा।
व्रतानां च तथा राजन् प्रवरैकादशी तिथिः॥१०॥
ते जना भरतश्रेष्ठ मम पूज्याश्च सर्वशः।
हरिवासरसंसक्ता वर्तन्ते ये भृशं नृप॥११॥
सफलानाम या प्रोक्ता तस्याःपूजाविध शृणु।
फलैर्मा पूजयेत् तत्र कालदेशोद्भवैः शुभैः॥१२॥
नारिकेलफल शुद्धस्तथा वै बीजपूरकैः।
जम्बीरैर्दाडिमैश्चैव तथा पूगफलैरपि॥१३॥
लवङ्गैविविधैश्चान्यैस्तथा चाम्रफलादिभिः।
पूजयेदेवदेवेशं धूपै-पैर्यथाक्रमम्॥१४॥
सफलायां दीपदानं विशेषेण प्रकीर्तितम्।
रात्री जागरणं तत्र कर्तव्यं च प्रयत्नतः॥१५॥
यावदुन्मिषते नेत्रं तावजागर्ति यो निशि।
एकाग्रमानसो भूत्वा तस्य पुण्यफलं शृणु॥१६॥
तत्समो नास्ति वै यज्ञस्तीर्थ नत्सदृशं न हि।
तत्समं न व्रतं किञ्चिदिह लोके नराधिप॥१७॥
पञ्चवर्षसहस्राणि तपस्तप्त्वा च यत्फलम्।
तत्फलं समवाप्नोति सफलाजागरेण वै॥१८॥
श्रूयतां राजशार्दूल सफलायाः कथानकम्।
चम्पावतीति विख्याता पुरी माहिष्मतस्य च॥१९॥
माहिष्मतव्य राजर्वेश्चन्वारश्वाभवन्सुताः।
तेषां मध्ये तु यो ज्येष्ठः स महापापसंयुतः॥२०॥
परदाराभिगामी च यतवेश्यारतः सदा।
पितुर्द्रव्यं स पापिष्ठो गमयामास सर्वशः॥२१॥
असवृत्तिरतो नित्यं देवताद्विजनिन्दकः।
वैष्णवानां च देवानां नित्यं निन्दारतः स वै॥२२॥
ईदृग्विधं तदा दृष्ट्वा पुत्र माहिष्मतो नृपः।
राज्यानिष्कासयामास लुम्पकं नाम नामतः॥२३॥
राज्यानिष्कासितस्तेन पित्रा चैवापि बन्धुभिः।
परिवारजनैः सर्वैस्त्यक्तो राज्ञो भयात्तदा॥२४॥
लुम्पकोऽपि तदा त्यक्तश्चिन्तयामास चैकलः।
मयात्र किं प्रकर्तव्यं त्यक्तेन पितृबान्धवैः॥२५॥
इति चिन्तापरो भृत्वा मतिं पापे तदाकरोत्।
मया तु गमनं कार्य बने त्यक्त्वा पुरं पितुः॥२६॥
तस्मानापितुः सर्व व्यापयिष्ये पुरं निशि।
दिवा वने चरिष्यामि रात्रावपि पितुः पुरे॥२७॥
इत्येवं स मति कृत्वा लुम्पको दैवपातितः।
निर्जगाम पुरात्तस्माद्गतोऽसौ गहनं वनम्॥२८॥
जीवघातकरो नित्यं नित्यं स्तेयपरायणः।
सर्व च नगरं तेन मुषितं पापकर्मणा॥२९॥
गृहीतश्च परिल्यको लोके राज्ञो भयात्तदा।
जन्मान्तरीयपापेन राज्यभ्रष्टः स पापकृत्॥३०॥
आमिषाभिरतो नित्यं नित्यं वै फलभक्षकः।
आश्रमस्तस्य दुष्टस्य वासुदेवस्य सम्मतः॥३१॥
अश्वत्थो वर्तते तत्र जीर्णो बहुलवार्षिकः।
देवत्वं तस्य वृक्षस्य वर्तते तद्ने महत्॥३२॥
तत्रैव न्यबसचासौ लुम्पकः पापबुद्धिमान्।
एवं कालक्रमेणैव वसतस्तस्य पापिनः॥३३॥
दुष्कर्मनिरतस्यास्य कुर्वतः कर्म निन्दितम्।
पौषस्य कृष्णपक्षे तु पूवस्मिन् सफलादिनात्॥३४॥
दशमीदिवसे राजन्निशायां शीतपीडितः।
लुम्पको वस्त्रहीनो वै निश्चेष्टो ह्यभवत्तदा॥३५॥
पीडयमानस्तु शीतेन अश्वत्थस्य समीपगः।
न निद्रा न सुखं तस्य गतप्राण इवाभवत्॥३६॥
पीडयन्दशनैर्दन्तानवं सोऽगमयन्निशाम्।
भानूदयेऽपि तस्याथ न सञ्ज्ञा समजायत॥३७॥
लुम्पको गतसञ्ज्ञस्तु सफलादिवसे ततः।
मध्याह्नसमये प्राप्ते सञ्ज्ञा लेभे स पार्थिव॥३८॥
प्राप्तसञ्ज्ञो मुहूर्तेन चोत्थितोसौ तदासनात्।
प्रस्खलंश्च पदस्यास्पैः पडूगुवञ्चलितो मुहुः॥३९॥
वनमध्ये गतस्तत्र क्षुत्तृषापीडितोऽभवत्।
न शक्तिविघातस्य लुप्पकस्य दुरात्मनः॥४०॥
फलानि भूमौ पतितान्याहृत्य च स लुपकः।
यावत्स चागतस्तत्र तावदस्तमगाद्रविः॥४१॥
किं भविष्यति तातेति विललापातिदुःखितः।
फलानि तानि सर्वाणि वृक्षमूले निवेदयन्॥४२॥
इत्युवाच फलैरेभिः प्रीयतां भगवान् हरिः।
उपविष्टो लुपकश्च निद्रां लेभे न वै निशि॥४३॥
तेन जागरणं मेने भगवान्मधुसूदनः।
फलश्च पूजनं मेने सफलायां तथानघ॥४४॥
कृतमेवं लुपकेन ह्यकस्माद्वतमुत्तमम्।
तेन व्रतप्रभावेण प्राप्त राज्यमकण्टकम्॥४५॥
पुण्याकुरोदयाद्राजन् यथाप्राप्तं तथा शृणु।
रवेरुदयवेलायां दिव्योऽश्वश्चाजगाम ह॥४६॥
दिव्यवस्तुपरीवारो लुम्पकस्य समीपतः।
तस्थौ स तुरगो राजन वागुवाचाशरीरिणाम्॥४७॥
प्राप्तुहि त्वं नृपसुत स्वराज्यं हतकण्टकम्।
वासुदेवप्रसादेन सफलायाः प्रभावतः॥४८॥
पितुः समीपं गच्छ त्वं भुंश्व राज्यमकण्टकम्।
तथेत्युक्त्वा त्वसौ तत्र दिव्यरूपधरोऽभवत्॥४९॥
कृष्णे मतिश्च तस्यासीत्परमा वैष्णवी तथा।
दिव्याभरणशोभाढयस्तातं नत्वा स्थितो गृहे॥५०॥
वैष्णवाय ततो दत्तं पित्रा राज्यमकण्टकम्।
कृतं राज्यं तु तेनैव वर्षाणि सुबहून्यपि॥५१॥
हरिवासरसलीनो विष्णुभक्तिरतः सदा।
मनोज्ञास्त्वस्य पुत्राः स्युर्दाराः कृष्णप्रसादतः॥५२॥
ततः स वार्ध के प्राप्त राज्यं पुत्रे निवेश्य च।
वनं गतः संयतात्मा विष्णुभक्तिपरायणः॥५३॥
साधयित्वा तथात्मानं विष्णुलोकं जगाम ह।
एवं ये वै प्रकुर्वन्ति सफलैकादशीव्रतम्॥५४॥
इह लोके यशः प्राप्य मोक्षं यास्यत्यसंशयम्।
धन्यास्ते मानवा लोके सफलातकारिणः॥५५॥
तस्मिन्नन्मनि ते मोक्षं लभन्ते नात्र संशयः।
सफलायाश्च माहात्म्यश्रवणाद्धि विशाम्पते।
राजसूयफलं प्राप्य वसेत्स्वर्गे च मानवः॥५६॥
॥इति पौषकृष्ण-एकादश्याः सफलानाम्न्या माहात्म्यं सम्पूर्णम्॥
❀