मार्गशीर्ष-शुक्ल-मोक्षदा-एकादशी-माहात्म्यम्
युधिष्ठिर उवाच
वन्दे विष्णु प्रभु साक्षाल्लोकत्रयसुखप्रदम्।
विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम्॥१॥
पृच्छामि देवदेवेश संशयोऽस्ति महान्मम।
लोकानां तु हितार्थाय पापानां च क्षयाय च॥२॥
मार्गशीर्षे सिते पक्षे किन्नामैकादशी भवेत्।
कीदृशश्च विधिस्तस्याः को देवस्तत्र पूज्यते॥३॥
एतदाबश्व मे स्वामिविस्तरेण यथातथम्।
श्रीकृष्ण उवाच
सम्यक् पृष्टं त्वया राजन् साधु ते विमला मतिः॥४॥
कथयिष्यामि राजेन्द्र हरिवासरमुत्तमम्।
उत्पन्ना सा सिते पक्षे द्वादशी मम वल्लभा॥५॥
मार्गशीर्षे समुत्पन्ना मम देहान्नराधिप।
मुरस्य च वधार्थाय प्रख्याता मम वल्लभा॥६॥
कथिना सा मया चैव त्वद्ने राजसत्तम।
पूर्वमेकादशी राजन् त्रैलोक्ये सचराचरे॥७॥
मार्गशीर्षेसिते पक्षे चोत्पत्तिरिति नामतः।
अतः पर प्रवक्ष्यामि मार्गशीर्षलितां तथा॥८॥
मोक्षाना-नातिविख्यातां सर्वपापहरां पराम्।
देव दामोदरं तस्या पूजयेञ्च प्रयत्नतः॥९॥
गन्धपुष्पादिभिश्चैव गीतनृत्यः सुमङ्गलैः।
शृणु राजेन्द्र वक्ष्यामि कथा पौराणिकी शुभाम्॥१०॥
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्।
अधोगतिं गता ये व पितृमातृसुतादयः॥११॥
अस्याः पुण्यप्रभावेण स्वर्ग यान्ति न संशयः।
एतत्मात्कारणाद्राजन्महिमान शृणुष्व तम्॥१२॥
पुरा वै नगरे रम्ये गोकुलै न्यबसन्नृपः।
वैखानसेति राजर्षिः पुत्रवत्पालयन् प्रजाः॥१३॥
द्विजाश्च न्यवसंस्तत्र चतुर्वेदपरायणाः।
एवं स राज्यं कुर्वाणो रात्रौ तु स्वप्नमध्यतः॥१४॥
ददर्श जनकं स्वं तु अधोयोनिगतं नृपः।
एवं दृष्ट्वा तु तं तन्त्र विस्मयो फुललोचनः॥१५॥
कथयामास वृत्तान्तं द्विजाने स्वप्नसम्भवम्।
राजो वाच
मया तु स्वपिता दृष्टो नरके पतितो द्विजाः॥१६॥
तारयस्वेति मां तात अधोयोनिगतं सुत।
इति ब्रुवाणः स तदा मया दृष्टः पिता स्वयम्॥१७॥
तदाप्रभृति भो विप्रा नाहं शर्म लभाम्यहो।
एतद् राज्यं मम महदसह्यमसुखं तथा॥१८॥
अश्वा गजा रथाश्चैव न मां रोचन्ति सर्वथा।
न कोशोऽपि सुखायालं न किञ्चित्सुखदं मम॥१९॥
न दारा न सुता मह्यं रोचन्ते द्विसत्तम।
किं करोमि व गच्छामि शरीरं मे तु दह्यते॥२०॥
दानं व्रतं तपो योगो येनैव मम पूर्वजाः।
मोक्षमायान्ति विप्रेन्द्रास्तदेव कययन्तु मे॥२१॥
किं तेन जीवता लोके सुपुत्रेण बलीयला।
पिता तु यस्य नरके तस्य जन्म निरर्थकम्॥२२॥
ब्राह्मणा ऊचुः
पर्वतस्य मुनेरत्र आश्रमो निकटे नृप।
गम्यतां राजशार्दूल भूतं भव्यं विजानतः॥२३॥
तेषां श्रुत्वा ततो वाक्यं विषण्णो राजसत्तमः।
जगाम नत्र यत्रासौ आश्रमे पर्वतो मुनिः॥२४॥
ब्राह्मणैर्वेष्टितः शान्तैः प्रजाभिश्च समन्ततः।
आश्रमो विपुलस्तस्य मुनिभिः सन्निषेवितः॥२५॥
ऋग्वेदिभिर्याजुषैश्च सामावणकोविदः।
वेष्टितो मुनिभिस्तत्र द्वितीय इव पद्मजः॥२६॥
दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तदा।
जगाम चावनिं मूर्ना दण्डवत् प्रणनाम च॥२७॥
पप्रच्छ कुशलं तस्य सप्तस्वङ्गेष्वसौ मुनिः।
राज्ये निष्कण्टकत्वं च राजसौख्यसमन्वितम्॥२८॥
राजोवाच
तव प्रसादान्कुशलमङ्गेषु मम सप्ततु।
विभवेष्वनुकूलेषु कश्चिद्विन्न उपस्थितः॥२९॥
एवं मे संशयं ब्रह्मन् प्रष्टुं त्वामहमागतः।
एवं श्रुत्वा नृपवचः पर्वतो मुनिसत्तमः॥३०॥
ध्यानस्तिमितनेत्रोऽसौ भूतं भव्यं व्यचिन्तयत।
मुहूर्तमेकं ध्यात्वा च प्रत्युवाच नृपोत्तमम्॥३१॥
मुनिरुवाच
जानेऽहं तव राजेन्द्र पितुः पापं विकमणः।
पूर्वजन्मनि ते पित्रा स्वपत्नीद्रयमध्यतः॥३२॥
कामासक्तेन चैकस्या ऋतुभङ्गः कृतः स्त्रियः।
त्राहि देहीति जल्पत्या अन्यस्याश्च नराधिप॥३३॥
कर्मणा तेन सततं नरके पतितो ह्ययम्।
राजोवाच
केन व्रतेन दानेन मोक्षस्तस्य भवेन्मुने॥३४॥
निरयात्पापसंयुक्तातन्ममाचक्ष्व पृच्छतः।
मुनिरुवाच
मार्गशीर्षे सिते पक्षे मोक्षानाम्नी हरेस्तिथिः॥३५॥
सर्वैस्तु तद्वतं कृत्वा पित्रे पुण्यं प्रदीयताम्।
तस्य पुण्यप्रभावेण मोक्षस्तस्य भविष्यति॥३६॥
मुनेर्वाक्यं ततः श्रुत्वा नृपः स्वगृहमागतः।
आग्रहायणिकी शुक्ला प्राप्ता भरतसत्तम॥३७॥
अन्तःपुरचरैः सर्वैः पुत्ररस्तदा नृपः।
व्रतं कृत्वा विधानेन पित्रे पुण्यं ददौ नृपः॥३८॥
तस्मिन्दत्ते तदा पुण्ये पुष्पवृष्टिरभूदिवः।
वैखानसपिता तेन गतः स्वर्ग स्तुतो गणैः॥३९॥
राजानमन्तरिक्षाच शुद्धां गिरमभाषत।
स्वस्त्यस्तु ते पुत्र सदेत्यथ स त्रिदिवं गतः॥४०॥
एवं यः कुरुते राजन् मोक्षामेकादशीमिमाम्।
तस्य पापं क्षयं याति मृतो मोक्षमवाप्नुयात्॥४१॥
नातः परतरा काचिन्मोझदा विमला शुभा।
पुण्यसङ्ख्यां तु तेषां वै न जानेऽहं तु यः कृता॥४२॥
पठनाच्छ्वणाचास्या वाजपेयफलं लभेत्।
चिन्तामणिसमा ह्येषा स्वर्गमोक्षप्रदायिनी॥४३॥
॥इति श्रीब्रह्माण्डपुराणे मार्गशीर्षशुक्लैकादश्या मोक्षानाम्न्या माहात्म्यं सम्पूर्णम्॥
❀