मार्गशीर्ष-कृष्ण-एकादशी-माहात्म्यम्
सूत उवाच
एवं प्रीत्या पुरा विप्राः श्रीकृष्णेन परं व्रतम्।
माहात्म्यविधिसंयुक्तमुपदिष्टं विशेषतः॥१॥
उत्पत्तिं यः शृणोत्येवमेकादश्यां द्विजोत्तम।
भुक्त्वा भोगाननकांस्तु विष्णुलोकं प्रयाति सः॥२॥
पार्थ उवाच
उपवासस्य नक्तस्य एकभक्तस्य च प्रभो।
किं पुण्यं किं विधानं हि बेहि सर्व जनार्दन॥३॥
श्रीकृष्ण उवाच
हेमन्ते चैव सम्प्राप्ते मासि मार्गशिरे शुभे।
शुक्लपक्षे तथा पार्थ एकादश्या मुपोषयेत्॥४॥
नक्तं दशम्यां कुर्यात्तु दन्तधावनपूर्वकम्।
दिवसस्याष्टमे भागे अन्दीभूते दिवाकरे॥५॥
तत्र नक्तं विजानीयान नक्तं निशिभोजनम्।
ततः प्रभातसमये लइल्प नियनश्चरेत्॥६॥
मध्याहे च तथा पार्थ शुचिः स्नानः समानः।
नद्यां नडागे वाप्यां वा घुत्तमं मध्यम त्वधः॥७॥
क्रमाज्ज्ञेयं तथा कूपे तदनावे प्रशस्यत।
अश्वक्रान्ने रथक्रान्तं विष्णुकान्ते वसुन्धरे॥८॥
मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम्।
क्या हतेन पापेन गच्छामि परमां गतिम्॥९॥
अनेन मृत्तिकास्नान विदध्यातु व्रती नरः।
नालपेत्पतितैश्चोरैस्तथा पाखण्डिभिः सह॥१०॥
मिथ्यापवादिनो देववेदब्राह्मणनिन्दकान्।
अन्यांश्चैव दुराचारानगम्यागामिनस्तथा॥११॥
परद्रव्यापहर्तृश्च देवद्रव्यापहारिणः।
न सम्भाषेत दृष्ट्वाऽपि भास्करं चावलोकयेत्॥१२॥
ततो गोविन्दमभ्यर्च्य नैवेद्यादिभिरादरात्।
दीपं दद्याद्गृहे चैव भक्तियुक्तेन चेतसा॥१३॥
तदिने वर्जयेत्पार्थ निद्रां मैथुनमेव च।
गीतशास्त्रविनोदेन दिवारानं नयेद्रती॥१४॥
रात्रौ जागरणं कृत्वा भक्तियुक्तेन चेतसा।
विप्रेभ्यो दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत्॥१५॥
यथा शुक्ला तथा कृष्णा मान्या वै धर्मतत्परैः।
एकादश्योयो राजन्विभेदं नैव कारयत्॥१६॥
एवं हि कुरुते यस्तु शृणु तस्यापि यत्फलम्।
शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्॥१७॥
एकादश्युपवासस्य कलां नाप्नोति षोडशीम्।
व्यतीपाते च दानस्य लक्षमें फलं स्मृतम्॥१८॥
सङ्क्रान्ति चतुर्लक्षं दानस्य च धनञ्जय।
कुरुक्षेत्रे च यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः॥१९॥
तत्सर्व लभते यस्तु टङ्कादश्यामुपोषितः।
अश्वमेधस्य यज्ञस्य करणाद्यत्फलं लभत्॥२०॥
ततः शतगुणं पुण्यमेकादश्युपवासतः।
तपस्विनो गृहे नित्यं लक्ष यस्य च भुञ्जते॥२१॥
षष्टिवर्षसहस्राणि तस्य पुण्यं च यद्भवेत्।
एकादश्युपवासेन फलं प्राप्नोति मानवः॥२२॥
गोसहस्रे च यत्पुण्यं दत्ते वेदाङ्गपारगे।
तस्मात्पुण्यं दशगुणमेकादश्युपवासिनाम्॥२३॥
नित्यं च भुञ्जते यस्य गृहे दश द्विजोत्तमाः।
यत्पुण्यं तद्दशगुणं भोजने ब्रह्मचारिणः॥२४॥
एतत्सहस्रं भूदाने कन्यादाने तु तत्स्मृतम्।
तस्मादशगुणं प्रोक्त विद्यमाने तथैव च॥२५॥
विद्यादशगुणं चान्नं यो ददाति बुभुक्षिते।
अन्नदानसमं दानं न भूतं न भविष्यति॥२६॥
तृप्तिमायान्ति कौन्तेय स्वर्गस्थाः पितृदेवताः।
एकादश्या व्रतस्यापि पुण्यसङ्ख्या न विद्यते॥२७॥
एतत्पुण्यप्रभावश्च यत्सुरैरपि दुर्लभः।
नक्तस्याद्रफलं तस्य एकभक्तस्य सत्तम॥२८॥
एकभक्तं च नक्तं च उपवासस्तथैव च।
एतेष्वन्यतमं वाऽपि व्रतं कुर्याद्धरोर्दन॥२९॥
तावद्गर्जन्ति तीर्थानि दानानि नियमा यमाः।
एकादशी न सम्प्राप्ता यावत्तावन्मखा अपि॥३०॥
तस्मादेकादशी सर्वैरुपोष्या भवभीरुभिः।
न शङ्खन पिवेत्तोयं न खादेन्मत्स्यसूकरौ॥३१॥
एकादश्यां न भुञ्जीत यन्मां त्वं पृच्छसेऽर्जुन।
एतत्ते कथितं सर्व व्रतानामुत्तमं व्रतम्॥३२॥
एकादशीसमं नास्ति कृत्वा यज्ञसहस्रकम्।
अर्जुन उवाच
उक्ता त्वया कथं देव पुण्येयं सर्वतस्तिथिः॥३३॥
सर्वभ्योऽपि पवित्रेयं कथं होकादशी तिथिः।
श्रीकृष्ण उवाच
पुरा कृतयुगे पार्थ मुरनामा हि दानवः॥३४॥
अत्यद्भुतो महारौद्रः सर्वदेवभयङ्करः।
इन्द्रो विनिर्जितस्तेन ह्याद्यो देवः पुरन्दरः॥३५॥
आदित्या वसवो ब्रह्मा वायुरग्निस्तथैव च।
देवता निर्जितास्तेन अत्युप्रेण च पाण्डव॥३६॥
इन्द्रेण कथितः सर्वो वृत्तान्तः शङ्कराय वै।
स्वर्गलोकपरिभ्रष्टा विचरामो महीतले॥३७॥
उपायं ब्रूहि मे देव अमराणां तु का गतिः।
ईश्वर उवाच
गच्छ गच्छ सुरश्रेष्ठ यत्राम्नि गरुडध्वजः॥३८॥
शरण्यश्च जगन्नाथः परित्राणपरायणः।
ईशस्य वचनं श्रुत्वा देवराजो महामनाः॥३९॥
त्रिदशैः सहितः सर्वैर्गतस्तत्र धनञ्जय।
यत्र देवो जगन्नाथः प्रसुप्तो हि जनार्दनः॥४०॥
जलमध्ये प्रसुप्तं तु दृष्ट्वा देवं जगत्पतिम्।
कृताञ्जलिपुटो भूत्वा इदं स्तोत्रमुदीरयत॥४१॥
ओं नमो देवदेवाय देवदेवः सुवन्दित।
दैत्यारे पुण्डरीकाक्ष त्राहि नो मधुसूदन॥४२॥
दैत्यभीता इमे देवा मया सह समागताः।
शरणं त्वं जगन्नाथ त्वं कर्ता त्वं च कारकः॥४३॥
त्वं माता सर्वलोकानां त्वमेव जगतः पिता।
त्वं स्थितिस्त्वं तथोत्पत्तिस्त्वं च संहारकारकः॥४४॥
सहायस्त्वं च देवानां त्वं च शान्तिकरः प्रभो।
त्वं धरा च त्वमाकाशः सर्वविश्वोपकारकः॥४५॥
भवस्त्वं च स्वयं ब्रह्मा त्रैलोक्यप्रतिपालक।
त्वं रविस्त्वं शशाङ्कश्च त्वं च देवो हुताशनः॥४६॥
हव्यं होमो हुतस्त्वं च मन्त्रतन्त्रविजो जपः।
यजमानश्च यज्ञस्त्वं फलभोक्ता त्वमीश्वरः॥४७॥
न त्वया रहितं किञ्चित्रलोक्ये सचराचरे।
भगवन्देवदेवेश शरणागतवत्सल॥४८॥
त्राहि त्राहि महायोगिन्भीतानां शरणं भव।
दानवैर्विजिता देवाः स्वर्गभ्रष्टाः कृता विभो॥४९॥
स्थानभ्रष्टा जगन्नाथ विचरन्ति महीतले।
इन्द्रस्य वचनं श्रुत्वा विष्णुर्वचनमब्रवीत्॥५०॥
श्रीभगवानुवाच
कोऽसौ दैत्यौ महा यो देवा येन विनिर्जिताः।
किं स्थानं तस्य किं नाम किं बलं कस्तदाश्रयः॥५१॥
एतत्सर्व समाचक्ष्व मघवन्निर्भयो भव।
इन्द्र उवाच
भगवन्देवदेवेश भक्तानुग्रहकारक॥५२॥
दैत्यः पूर्व महानासीन्नाडीजव इति स्मृतः।
ब्रह्मवंशसमुद्भूतो महोग्रः सुरसूदनः॥५३॥
तस्य पुत्रोऽतिविख्यातो मुरनामा महासुरः।
तस्य चन्द्रवतीनाम नगरी च गरीयसी॥५४॥
तस्यां वसन्स दुष्टात्मा विश्व निर्जित्य वीर्यवान्।
तुरान्स्ववशमानिन्ये निराकृत्य त्रिविष्टपात्॥५५॥
इन्द्राग्नियमवाय्वीशसोमानिऋतिपाशिनाम्।
पदेषु स्वयमेवासीत्सूर्यो भूत्वा तपत्यपि॥५६॥
पर्जन्यः स्वयमेवासीदजेयः सर्वदेवतैः।
जहि तं दानवं विष्णो सुराणां जयमावह॥५७॥
तस्य तद्वचनं श्रुत्वा कोपाविष्टो जनादनः।
उवाच शत्रु देवेन्द्र हनिष्ये तं महाबलम्॥५८॥
प्रयान्तु सहिताः सर्वे चन्द्रवत्यां महाबलाः।
इत्युक्ताः प्रययुः सर्वे पुरस्कृत्य हरिं सुराः॥५९॥
दृष्टो देवैस्तु दैत्येन्द्रो गर्जमानस्तु दानवैः।
असङ्ख्यातसहस्रेस्तु दिव्यप्रहरणायुधैः॥६०॥
हन्यमानास्तदा देवा असुरैर्बाहुशालिभिः।
सङ्ग्रामं ते समुत्सृज्य पलायन्त दिशो दश॥६१॥
ततो दृष्ट्वा हृषीकेशं सङ्ग्रामे समुपस्थितम्।
अन्वधावन्नाभिकुद्धा विविधायुधपाणयः॥६२॥
अथ तान् प्रगुतान्दृष्ट्वा शङ्खचक्रगदाधरः।
विव्याध सर्वगात्रेषु शरैराशीविषोपमै॥६३॥
तेनाहतास्ते शनशो दानवा निधनं गताः।
एकाङ्गो दानवः स्थित्वा युध्यमानो मुहुर्मुहुः॥६४॥
तस्योपरि हृषीकेशो यद्यदायुधमुत्सृजत्।
पुष्पवत्तत्समभ्येति कुण्ठितं तस्य तेजसा॥६५॥
शस्त्रास्त्रविध्यमानोऽपि यदा जेतुं न शक्यते।
युयोध च तदा क्रुद्धो बाहुभिः परिघोपमैः॥६६॥
वाहुयुद्धं कृतं तेन दिव्यवर्ष लहाकन्द।
तेन श्रान्तः स भगवान् गतो बदरिकाश्रमम्॥६७॥
तत्र हैमवती नाम्नी गुहा परमशोजना।
तां प्राविशन्महायोगी शयनार्थ जगत्पतिः॥६८॥
योजनबादशायामः पत्रद्वारा धनञ्जय।
अहं तत्र प्रसुप्तोस्मि भयभीतो न संशयः॥६९॥
महायुद्धेन तेनैव श्रान्तोऽहं गाडुनन्दन।
दानवः पृष्ठतो लग्नः प्रविवेश स तां गुहाम्॥७०॥
प्रसुप्तं मां तदा दृष्ट्वाऽचिन्नयदानो हृदि।
हरिमेनं हनिष्येऽहं दानवानां क्षयावहम्॥७१॥
एवं सुदुनेम्नाय व्यवसायं व्यवस्य च।
समुद्भूता ममाङ्गेभ्यः कन्यैका च महाप्रभा॥७२॥
दिव्यप्रहरणा देवी युद्धाय समुपस्थिता।
मुरेण दानवेन्द्रेण ईक्षिता पाण्डुनन्दन॥७३॥
युद्धं समीरितं तेन स्त्रिया तत्र प्रयाचितम्।
तेनायुध्यत सा नित्यं तां दृष्ट्वा विस्मयं गतः॥७४॥
केनेयं निर्मिता रौद्रा अत्युप्राशनिपातिनी।
इत्युक्त्वा दानवेन्द्रोऽसौ युयुधे कन्यया तया॥७५॥
ततस्तया महादेव्या त्वरया दानवो बली।
छित्त्वा सर्वाणि शस्त्राणि क्षणेन विरथः कृतः॥७६॥
बाहुप्रहरणोपेतो धावमानो महाबलात्।
तलेनाहत्यहृदये तया देव्या निपातितः॥७७॥
पुनरुत्थाय सोचावकन्याह ननकाङ्क्षया।
दानवं पुनरायान्तं रोषणाहत्य तच्छिरः॥७८॥
क्षणानिपातयामास भूमौ तच्च समुज्ज्वलत्।
दैत्यः कृत्तशिराः सोथ ययौ वैवस्वतालयम्॥७९॥
शेषा भयादिना दीनाः पातालं विविशुद्धिषः।
तत्तः समुत्थितो देवः पुरो दृष्ट्वाऽसुरं हतम्॥८०॥
कन्यां पुरः स्थिता चापि कृताञ्जलिपुटां नताम्।
विस्मयोत्फुल्लनयनः प्रोवाच जगतां पतिः॥८१॥
केनायं निहतः सङ्ख्ये दानवो दुष्टमानसः।
येन देवाः सगन्धर्वाः सेन्द्राश्च समस्हणाः॥८२॥
सनागाः सहलोकेशा लीलयैव विनिर्जिताः।
येनाहं निर्जितो भीतः श्रान्तः सुप्तो गुहामिमाम्॥८३॥
केन कारुण्यभावेन राक्षतोऽहं पलायितः।
कन्योवाच
मया विनिहतो दैत्यस्त्वदंशोद्भूतया प्रभो॥८४॥
दृष्ट्वा सुप्तं हरे त्वां तु दैत्यो हन्तुं समुद्यतः।
त्रैलोक्यकण्टकस्येत्यं व्यवसाय प्रबुध्य च॥८५॥
हतो मया दुरात्माऽसौ देवता निर्भयाः कृताः।
तवैवाहं महाशक्तिः सर्वशत्रुभयङ्करी॥८६॥
त्रैलोक्यरक्षणार्थाय हतो लोकभयङ्करः।
निहतं दानवं दृष्ट्वा किमाश्चर्य वद प्रभो॥८७॥
श्रीभगवानुवाच
निहते दानवेन्द्रेऽस्मिन्सन्तुष्टोऽहं त्वयानघे।
हृष्टाः पुष्टाश्च वै देवा आनन्दः समजायत॥८८॥
आनन्दस्त्रिषु लोकेषु देवानां यस्त्वया कृतः।
प्रसन्नोस्म्यनचे तुभ्यं वरं वरय सुव्रते॥८९॥
ददामि तन्न सन्देहो यत्सुरैरपि दुर्लभम्।
कन्योवाच
यदि तुष्टोऽसि मे देव यदि दयो वरो मम॥९०॥
तारयेहं महापापादुपवासपरं नरम्।
उपवालस्य यत्पुण्यं तस्यार्ध नक्तभोजने॥९१॥
तदर्ध च भवेत्तस्य एकभुक्तं करोति यः।
यः करोति व्रतं भक्त्या दिने मम जितेन्द्रियः॥९२॥
स गत्वा वैष्णवं स्थानं कल्पकोटिशतानि च।
भुञ्जानो विविधान्भोगानुपवासी जितेन्द्रियः॥९३॥
भगवंस्त्वत्प्रसादेन भवत्वेष वरो मम।
उपवासं च नक्तं च एकभुक्तं करोति यः॥९४॥
तस्य धर्म च वित्तं च मोक्षं देहि जनार्दन।
श्रीभगवानुवाच
यत्त्वं वदसि कल्याणि तत्सर्वं च भविष्यति॥९५॥
मम भक्ताश्च ये लोकास्तव भक्ताश्च ये नराः।
त्रिषु लोकेषु विख्याताः प्राप्स्यन्ति मम सनिधिम्॥९६॥
एकादश्यां समुत्पन्ना मम शक्तिः परा यतः।
अत एकादशीत्येवं तव नाम भविष्यति॥९७॥
दग्ध्वा पापानि सर्वाणि दास्यामि पदमव्ययम्।
तृतीया चाष्टमी चैव नवमी च चतुर्दशी॥९८॥
एकादशी विशेषेण तिथयो मे महाप्रियाः।
सर्वतीर्थाधिकं पुण्यं सर्वदानाधिकं फलम्॥९९॥
सर्वव्रताधिक चैव सत्यं सत्यं वदामि ते।
एवं दत्त्वा वरं तस्यास्तत्रैवान्तरधीयत॥१००॥
दृष्टा तुष्टा तु सा जाता तदा एकादशीतिथिः।
इमामेकादशी पार्थ करिष्यन्ति नरास्तु ये॥१०१॥
तेषां शत्रु हनिष्यामि दास्यामि परमां गतिम्।
अन्येऽपि ये करिष्यन्ति एकादश्या महाव्रतम्॥१०२॥
हरामि तेषां विनांश्च सर्वसिद्धिं ददामि च।
एवमुक्का समुत्पत्तिरेकादश्याः पृथासुत॥१०३॥
इयमेकादशी नित्या सर्वपापक्षयङ्करी।
एकैव च महापुण्या सर्वपापनिषूदनी॥१०४॥
उदिता सर्वलोकेषु सर्वसिद्धिकरी तिथिः।
शुक्का वाप्यथवा कृष्णा इति भेदं न कारयेत्॥१०५॥
कर्तव्ये तु उभे पार्थ न तुल्या द्वादशीतिथिः।
अन्तरं नैव कर्तव्यं समस्तैर्वतकारिभिः॥१०६॥
तिथिरेका भवेत् सर्वा पक्षयोरुभयोरपि।
ते यान्ति परमं स्थानं यत्राले गरुडध्वजः॥१०७॥
धन्यान्ते मानवा लोके विष्णुभक्तिपरायणाः।
एकादश्यास्तु माहात्म्यं सर्वकालं तु यः पठेत्॥१०८॥
अश्वमेधस्य यत्पुण्यं तदाप्नोति न संशय।
यः शृणोनि दिवारात्रौ नरो विष्णुपरायणः॥१०९॥
तद्भक्तमुखनिष्पन्नां कथां विष्णोः सुमङ्गलाम्।
कुलकोटिसमायुक्तो विष्णुलोके महीयते॥११०॥
एकादश्याश्च माहात्म्यं पादमेकं शृणोति यः।
ब्रह्महत्यादिकं पापं नदयते नात्र संशयः॥१११॥
विष्णुधर्मः समो नास्ति गीतार्थेन धनञ्जय।
एकादशी समं नास्ति व्रतं नाम सनातनम्॥११२॥
॥इति श्रीकृष्णार्जुनसंवादे मार्गशीर्षकृष्णैकादशीमाहात्म्यं सम्पूर्णम्॥
❀