पुरुषोत्तम-मासस्य कृष्ण-परमा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ पञ्चषष्टितमोऽध्यायः॥६५
युधिष्ठिर उवाच
श्रुतानि बहुधर्माणि व्रतानि च जगत् प्रभो।
एकादशीसमं किञ्जिच्छ्रुतं नैव जनार्दन॥१॥
पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीम्।
यां कृत्वा मनुजो लोके प्राप्नुयात् परमं पदम्॥२॥
श्रीकृष्ण उवाच
शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत्।
न त्याज्या जगतीपाल मोक्षसौख्यविवर्धनी॥३॥
एकादशी कलौ राजन् भवबन्धविमोचनी।
कामदा सर्वकामानां पापानां पापहा भुवि॥४॥
रविवारेऽथ माङ्गल्ये सङ्क्रमे वा नृपोत्तम।
एकादशी सदोपोष्या पुत्रपौत्रविवर्धनी॥५॥
एकादशीव्रतं क्वापि न त्याज्यं विष्णुवल्लभैः।
आयुः कीर्तिप्रदं नित्यं सन्तानारोग्यवित्तदम्॥६॥
मोक्षदं रूपदं राज्यं नित्यमेकादशीव्रतम्।
ये कुर्वन्ति महीपाल श्रद्धया परया युताः॥७॥
यथोक्तविधिना लोके ते नरा विष्णुरूपिणः।
जीवन्मुक्तास्तु भूपाल दृश्यन्ते नात्र संशयः॥८॥
युधिष्ठिर उवाच
जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः।
पापरूपाश्च दृश्यन्ते परं कौतूहलं हि मे॥९॥
श्रीकृष्ण उवाच
ये च राजन् कलौ भक्त्या निर्जलं व्रतमुत्तमम्।
एकादश्याः प्रकुर्वन्ति विधिदृष्टेन कर्मणा॥१०॥
न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं नहि।
सर्वपापहरं पुण्यं व्रतमेकादशीसमम्॥११॥
न किञ्चिद् विद्यते राजन् सर्वकामप्रदं नृणाम्।
एकाशनं दशम्यां च नन्दायां निर्जलं व्रतम्॥१२॥
पारणं चैव भद्रायां कृत्वा विष्णुसमा नराः।
श्रद्धावान्यस्तु कुरुते कामदाया व्रतं शुभम्॥१३॥
वाञ्छितं लभते सोऽपि इहलोके परत्र च।
पवित्रा पावनी ह्येषा महापातकनाशिनी॥१४॥
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम।
कामदायां विधानेन पूजयेत् पुरुषोत्तमम्॥१५॥
पुष्पधूपादिभिश्चैव नैवेद्यैर्विविधैस्तथा।
कांस्य मांसमसूरांश्च चणकान्कोद्रवांस्तथा॥१६॥
शाकं मधु परान्नं च पुनर्भोजन मैथुनम्।
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत्॥१७॥
द्यूतं क्रीडां तथा निद्रा ताम्बूलं दन्तधावनम्।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम्॥१८॥
क्रोधं च वितथं वाक्यमेकादश्यां विवर्जयेत्।
कांस्यं मांसं मसूरांश्च तैलं वितथभाषणम्॥१९॥
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम्।
वृषपृष्ठं परान्नं च शाकं च द्वादशीदिने॥२०॥
अनेन विधिना राजन् विहिता यैश्च कामदा।
रात्रौ जागरणं कृत्वा पूजितः पुरुषोत्तमः॥२१॥
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम्।
पठनाच्छ्रवणाद् राजन् गोसहस्रफलं लभेत्॥२२॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे पुरुषोत्तम-मासस्य शुक्ल-कामदा-एकादशी-माहात्म्यं नाम पञ्चषष्टितमोऽध्यायः॥६५॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀
व्रतराजतः विविधपुराणान्तर्गत-एकादशी-माहात्म्यानि
मार्गशीर्ष-कृष्ण-एकादशी-माहात्म्यम्
मार्गशीर्ष-शुक्ल-मोक्षदा-एकादशी-माहात्म्यम्
पौष-कृष्ण-सफला-एकादशी-माहात्म्यम्
पौष-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्
माघ-कृष्ण-षट्तिला-एकादशी-माहात्म्यम्
माघ-शुक्ल-जया-एकादशी-माहात्म्यम्
फाल्गुन-कृष्ण-विजया-एकादशी-माहात्म्यम्
फाल्गुन-शुक्लामलकी-एकादशी-माहात्म्यम्
चैत्र-कृष्ण-पापमोचनी-एकादशी-माहात्म्यम्
चैत्र-शुक्ल-कामदा-एकादशी-माहात्म्यम्
वैशाख-कृष्ण-वरूथिनी-एकादशी-माहात्म्यम्
वैशाख-शुक्ल-मोहिनी-एकादशी-माहात्म्यम्
ज्येष्ठ-कृष्णापरा-एकादशी-माहात्म्यम्
ज्येष्ठ-शुक्ल-निर्जला-एकादशी-माहात्म्यम्
आषाढ-कृष्ण-योगिनी-एकादशी-माहात्म्यम्
आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम्
आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम् (भविष्य-पुराणम्)
श्रावण-कृष्ण-कामिका-एकादशी-माहात्म्यम्
श्रावण-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्
भाद्रपद-कृष्णाजा-एकादशी-माहात्म्यम्
भाद्रपद-शुक्ल-पद्मा-एकादशी-माहात्म्यम्
आश्विन-कृष्णेन्दिरा-एकादशी-माहात्म्यम्
आश्विन-शुक्ल-पाशाङ्कुशा-एकादशी-माहात्म्यम्
कार्त्तिक-कृष्ण-रमा-एकादशी-माहात्म्यम्
कार्त्तिक-शुक्ल-प्रबोधिनी-एकादशी-माहात्म्यम्
पुरुषोत्तम-मासस्य शुक्ल-कमला-एकादशी-माहात्म्यम्
पुरुषोत्तम-मासस्य कृष्ण-परमा-एकादशी-माहात्म्यम्