पुरुषोत्तम-मासस्य शुक्ल-कमला-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ चतुःषष्टितमोऽध्यायः॥६४

युधिष्ठिर उवाच

भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्।
सर्वपापहरं विष्णोः फलदं व्रतिनां च यत्॥१॥
पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन।
को विधिः किं फलं तस्य को देवस्तत्र पूज्यते॥२॥
अधिमासे च सम्प्राप्ते व्रतं ब्रूहि जनार्दन।
कस्य दानस्य किं पुण्यं किं कर्तव्यं नृभिः प्रभो॥३॥
कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतः।
किं भोज्यमुत्तमं चान्नं मासेऽस्मिन् पुरुषोत्तमे॥४॥

श्रीकृष्ण उवाच

कथयिष्यामि राजेन्द्र भवतः स्नेहकारणात्।
पुरुषोत्तममासस्य माहात्म्यं पापनाशनम्॥५॥
अधिमासे तु सम्प्राप्ते भवेदेकादशी तु या।
कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः॥६॥
तस्या व्रतप्रभावेन कमलाभिमुखी भवेत्।
ब्राह्मे मुहूर्ते चोत्थाय संस्मृत्य पुरुषोत्तमम्॥७॥
स्नात्वा चैव विधानेन नियमं कारयेद् व्रती।
गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम्॥८॥
गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम्।
शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ॥९॥
लक्षं तुलस्याः सान्निध्ये ह्यनन्तं विष्णुसन्निधौ।
अवन्त्यामभवत् कश्चिच्छिवशर्मा द्विजोत्तमः॥१०॥
तस्याऽऽत्मजास्तु पञ्चाऽऽसन् कनिष्ठो दोषवानभूत्।
तदा पित्रा परित्यक्तस्त्यक्तः स्वजनबान्धवैः॥११॥
कुकर्मणः प्रभावेन गतो दूरतरं वनम्।
एकदा दैवयोगेन तीर्थराजं समागतः॥१२॥
क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत्।
मुनीनामाश्रमांस्तत्र विचिन्वन् क्षुधयाऽऽर्दितः॥१३॥
हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमम्।
पुरुषोत्तममासे वै जनानां च समागमे॥१४॥
तत्राऽऽश्रमे कथयतां कथां कल्मषनाशिनीम्।
ब्राह्मणानां मुखात् तेन श्रद्धया कमला श्रुता॥१५॥
एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी।
जयशर्मा विधानेन श्रुत्वेमां कमलातिथिम्॥१६॥
एकादशीपुण्यतमा भुक्तिमुक्तिप्रदायिनी।
व्रतं कृतं च तैः सार्धं स्थित्वा शून्यालये तदा॥१७॥
निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागता।
वरं ददामि भो विप्र कमलायाः प्रभावतः॥१८॥

जयशर्मोवाच

का त्वं कस्यासि रम्भोरु प्रसन्ना च कथं मम।
इन्द्राणी सुरनाथस्य भवानी शङ्करस्य वा॥१९॥
गन्धर्वी किन्नरी वाऽथ वधूर्वा चन्द्रसूर्ययोः।
त्वत्सदृशा न दृष्टा च न श्रुता च शुभानने॥२०॥

लक्ष्मीरुवाच

प्रसन्ना साम्प्रतं जाता वैकुण्ठादहमागता।
प्रेरिता देवदेवेन कमलायाः प्रभावतः॥२१॥
पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत्।
तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसन्निधौ॥२२॥
व्रतस्यास्य प्रभावेन वशगाहं न संशयः।
तववंशे भविष्यन्ति मानवा द्विजसत्तम॥२३॥
मत्प्रसादादवाप्स्यन्ति सत्यं ते व्याहृतं मया।

ब्राह्मण उवाच

प्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद॥२४॥
यत्कथासु प्रवर्तन्ते साधवो ये जना द्विजाः।

लक्ष्मीरुवाच

श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम्॥२५॥
दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः।
उत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्धमेव वा॥२६॥
पठित्वा मुच्यते सद्यो महापातककोटिभिः।
मासानां परमो मासः पक्षिणां गरुडो यथा॥२७॥
नदीनां च यथा गङ्गा तिथीनां द्वादशी तिथिः।
अद्यापि निर्जराः सर्वे भारते जन्मलिप्सवः॥२८॥
तमर्चयन्ति विविधा नारायणमनामयम्।
ये यजन्ति सदा भक्त्या देवं नारायणं प्रभुम्॥२९॥
तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः।
येऽपि नामपरा ये च हरिकीर्तनतत्पराः॥३०॥
हरिपूजापरा ये च ते कृतार्थाः कलौ युगेः।
शुक्ले वा यदि वा कृष्णे भवेदेकादशीद्वयम्॥३१॥
गृहस्थानां भवेत् पूर्वा यतीनामुत्तरा स्मृता।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे॥३२॥
एकादश्यां निराहारः स्थित्वाऽहमपरेऽहन्नि।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥३३॥
अमुं मन्त्रं समुच्चार्य देवदेवस्य चक्रिणः।
भक्तिभावेन तुष्टात्मा उपवासं समाचरेत्॥३४॥
कुर्याद् देवस्य पुरतो जागरं नियतो व्रती।
गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः॥३५॥
ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती।
स्नात्वा विष्णुं समभ्यर्च्य विधिवत् प्रयतेन्द्रियः॥३६॥
पञ्चामृतेन संस्नाप्य एकादश्यां जनार्दनः।
द्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते॥३७॥
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव॥३८॥
एवं विज्ञाप्य देवेशं देवदेवं गदाधरम्।
ब्राह्मणान् भोजयेद् भक्त्या तेभ्यो दद्याच्च दक्षिणाम्॥३९॥
ततः स्वबन्धुभिः सार्धं नारायणपरायणः।
कृत्वा पञ्चमहायज्ञान्स्वयं भुञ्जीत वाग्यतः॥४०॥
एवं यः प्रयतः कुर्यात् पुण्यमेकादशीव्रतम्।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम्॥४१॥
इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे।
सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः॥४२॥

श्रीकृष्ण उवाच

एवं यः कुरुते राजन् कमलाव्रतमुत्तमम्।
शृणुयाद् वासरे विष्णोः सर्वपापैः प्रमुच्यते॥४३॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे पुरुषोत्तम-मासस्य शुक्ल-कमला-एकादशी-माहात्म्यं नाम चतुःषष्टितमोऽध्यायः॥६४॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥