कार्त्तिक-शुक्ल-प्रबोधिनी-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ त्रिषष्टितमोऽध्यायः॥६३

युधिष्ठिर उवाच

श्रुतं रमाया माहात्म्यं त्वत्तः कृष्ण यथातथम्।
कार्तिके शुक्लपक्षे या तां मे कथय मानद॥१॥

श्रीकृष्ण उवाच

शृणु राजन् प्रवक्ष्यामि शुक्ले चोर्जदले तु या।
सा यथा नारदे प्रोक्ता ब्रह्मणा लोककारिणा॥२॥

नारद उवाच

प्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम।
यस्यां जागर्ति गोविन्दो धर्मकर्मप्रवर्तकः॥३॥

ब्रह्मोवाच

प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम्।
मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम॥४॥
तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि च।
यावत् प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिके॥५॥
तावद्गर्जन्ति विप्रेन्द्र गङ्गाभागीरथी क्षितौ।
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी॥६॥
अश्वमेधसहस्राणि राजसूयशतानि च।
एकेनैवोपवासेन प्रबोधिन्या लभेन्नरः॥७॥
यद् दुर्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम्।
तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी॥८॥
ऐश्वर्यं सम्पदं प्रज्ञां राज्यं च सुखसम्पदः।
ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी॥९॥
मेरुमन्दरमात्राणि पापान्युक्तानि यानि च।
एकेनैवोपवासेन दहते पापनाशिनी॥१०॥
पूर्वजन्मसहस्रेषु यत् पापं समुपार्जितम्।
निशि जागरणं चास्या दहते तूलराशिवत्॥११॥
उपवासं प्रबोधिन्यां यः करोति स्वभावतः।
विधिवन्मुनिशार्दूल यथोक्तं लभते फलम्॥१२॥
यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः।
स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम्॥१३॥
विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम्।
अणुमात्रं तदाप्नोति फलं धर्मस्य नारद॥१४॥
ये ध्यायन्ति मनोवृत्या ये करिष्यन्ति बोधिनीम्।
वसन्ति पितरो हृष्टा विष्णुलोके च तस्य वै।
विमुक्ता नारकैर्दुःखैर्याति विष्णोः परं पदम्॥१५॥
कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः।
कृत्वा तु जागरं विष्णोर्धौतपापो भवेन्नरः॥१६॥
दुष्प्राप्यं यत्फलं विप्र अश्वमेधादिकैर्मखैः।
प्राप्यते तत् सुखेनैव प्रबोधिन्यास्तु जागरे॥१७॥
आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा काञ्चनं महीम्।
तत्फलं समवाप्नोति यत्कृत्वा जागरं हरेः॥१८॥
जातः स एव सुकृती कुलं तेनैव पावितम्।
कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी॥१९॥
यथा ध्रुवं नृणां मृत्युर्धनं गात्रं तथाऽध्रुवम्।
इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम्॥२०॥
यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च।
तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम्॥२१॥
किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी।
पुत्रपौत्रप्रदा ह्येषा कार्तिके हरिबोधिनी॥२२॥
स ज्ञानी च स योगी च स तपस्वी जितेन्द्रियः।
भोगो मोक्षश्च तस्यास्ति उपास्ते हरिबोधिनीम्॥२३॥
विष्णोः प्रियतरा ह्येषा धर्मसारसहायिनी।
यः करोति नरो भक्त्या भुक्तिभाक्स भवेन्नरः॥२४॥
प्रबोधिनीमुपोषित्वा गर्भे न विशते नरः।
सर्वधर्मान् परित्यज्य तस्मात् कुर्वीत नारद॥२५॥
कर्मणा मनसा वाचा पापं यत्समुपार्जितम्।
तत्क्षालयति गोविन्दः प्रबोधिन्यां तु जागरे॥२६॥
स्नानं दानं जपः पूजां समुद्दिश्य जनार्दनम्।
नरो यत्कुरुते वत्स प्रबोधिन्यां तदक्षयम्॥२७॥
येऽर्चयन्ति नरास्तस्यां भक्त्या देवं च माधवम्।
समुपोष्य प्रमुच्यन्ते पापैस्तैः शतजन्मजैः॥२८॥
महाव्रतमिदं पुत्र महापापौघनाशनम्।
प्रबोधवासरं विष्णोर्विधिवत्समुपोषयेत्॥२९॥
व्रतेनानेन देवेशं परितोष्य जनार्दनम्।
विराजयन्दिशः सर्वाः प्रयाति हरिमन्दिरम्॥३०॥
कर्तव्यैषा प्रयत्नेन नरैः कान्तिधनार्थिभिः।
बाल्ये यत्सञ्चितं पापं यौवने वार्धके तथा॥३१॥
शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु।
तत्क्षालयति गोविन्दश्चास्यामभ्यर्चितो नृणाम्॥३२॥
धनधान्यवहा पुण्या सर्वपापहरा परा।
तामुपोष्य हरेर्भक्त्या दुर्लभं न भवेत्क्वचित्॥३३॥
चन्द्रसूर्योपरागे च यत्फलं परिकीर्तितम्।
तत् सहस्रगुणं प्रोक्तं प्रबोधिन्यां प्रजागरे॥३४॥
स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः।
तत् सर्वं कोटिगुणितं प्रबोधिन्यां कृतं तु यत्॥३५॥
जन्मप्रभृति यत् पुण्यं नरेणोपार्जितं भवेत्।
वृथा भवति तत् सर्वमकृत्वा कार्तिके व्रतम्॥३६॥
अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः।
न जन्मार्जितपुण्यस्य फलं प्राप्नोति नारद॥३७॥
तस्मात् सर्वप्रयत्नेन देवदेवं जनार्दनम्।
उपसेवेत विप्रेन्द्र सर्वकामफलप्रदम्॥३८॥
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः।
परान्नवर्जनाद्वत्स चान्द्रायणफलं लभेत्॥३९॥
नित्यं शास्त्रविनोदेन कार्तिके मधुसूदनः।
स दहेत् सर्वपापानि यज्ञायुतफलं लभेत्॥४०॥
न तथा तुष्यते यज्ञैर्न दानैर्वाजपादिभिः।
यथा शास्त्रकथालापैः कार्तिके मधुसूदनः॥४१॥
ये कुर्वन्ति कथां विष्णोर्ये शृण्वन्ति शुभान्विताः।
श्लोकार्धं श्लोकपादं वा कार्तिके गोशतं फलम्॥४२॥
सर्वधर्मान् परित्यज्य कार्तिके केशवाग्रतः।
शास्त्रावधारणं कार्यं श्रोतव्यं च महामुने॥४३॥
श्रेयसा लोभबुद्ध्या च यः करोति हरेः कथाम्।
कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम्॥४४॥
नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम्।
कार्तिके तु विशेषेण गोसहस्रफलं लभेत्॥४५॥
प्रबोधवासरे विष्णोः शृणुते यो हरेः कथाम्।
सप्तद्वीपवती दाने तत्फलं लभते मुने॥४६॥
श्रुत्वा विष्णुकथां दिव्यां येऽर्चयन्ति कथाविदम्।
स्वशक्त्या मुनिशार्दूल तेषां लोकोऽक्षयः स्मृतः॥४७॥
गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः।
न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय॥४८॥
गीतं नृत्यं च वाद्यं च भव्यां विष्णुकथां मुने।
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः॥४९॥
बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुङ्कुमैः।
हरेः पूजा विधातव्या कार्तिके बोधवासरे॥५०॥
यस्मात् पुण्यमसङ्ख्यातं प्राप्यते मुनिसत्तम।
फलैर्नानाविधैर्द्रव्यैः प्रबोधिन्यां तु जागरे॥५१॥
शङ्खे तोयं समादाय अर्घो देयो जनार्दने॥५२॥
यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम्।
तत्फलं कोटिगुणितं दत्त्वाऽर्घं बोधवासरे॥५३॥
गुरुपूजा ततः कार्या भोजनाच्छादनादिभिः।
दक्षिणाभिश्च देवर्षे तुष्ट्यर्थं चक्रपाणिनः॥५४॥
भागवतं शृणुते यस्तु पुराणं च पठेन्नरः।
प्रत्यक्षरं भवेत् तस्य कपिलादानजं फलम्॥५५॥
कार्त्तिके मुनिशार्दूल स्वशक्त्या वैष्णवं व्रतम्।
यः करोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला॥५६॥
केतक्या एकपत्रेण पूजितो गरुडध्वजः।
समाः सहस्रं सुप्रीतो भवति मधुसूदनः॥५७॥
अगस्तिकुसुमैर्देवं पूजयेद्यो जनार्दनम्।
दर्शनात् तस्य देवर्षे नरकाग्निः प्रणश्यति॥५८॥
मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः।
ददात्यभिमतान्कामान्शशिसूर्यग्रहे यथा॥५९॥
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम्।
कार्तिके योऽर्चयेद् भक्त्या वाजिमेधफलं लभेत्॥६०॥
तुलसीदलानि पुष्पाणि ये यच्छन्ति जनार्दने।
कार्तिके सकलं वत्स पापं जन्मायुतं दहेत्॥६१॥
दृष्टा स्पृष्टाऽथ वा ध्याता कीर्तिता नामतस्तु ता।
रोपिता सिञ्चिता नित्यं पूजिता तुलसी शुभा॥६२॥
नवधा तुलसीभक्तिं ये कुर्वन्ति दिनेदिने।
युगकोटिसहस्राणि तन्वन्ति सुकृतं मुने॥६३॥
यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने।
रोपिता तुलसी पुम्भिर्वर्धते वसुधातले॥६४॥
तेषां वंशे तु ये जाता ये भविष्यन्ति ये गताः।
आकल्पवर्षसाहस्रं तेषां वासो हरेर्गृहे॥६५॥
यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद।
तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत्॥६६॥
सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः।
पूजनीयो महाविष्णुः कोमलैस्तुलसीदलैः॥६७॥
इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः।
तुलसीदलैस्तु तत् पुण्यं कार्तिके केशवार्चने॥६८॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे कार्त्तिक-शुक्ल-प्रबोधिनी-एकादशी-माहात्म्यं नाम त्रिषष्टितमोऽध्यायः॥६३॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥