कार्त्तिक-कृष्ण-रमा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ द्विषष्टिमोऽध्यायः॥६२
युधिष्ठिर उवाच
कथयस्व प्रसादेन मयि स्नेहाज्जनार्दन।
कार्त्तिकस्यासिते पक्षे किं नामैकादशी भवेत्॥१॥
श्रीकृष्ण उवाच
श्रूयतां राजशार्दूल कथयामि तवाग्रतः।
कार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना॥२॥
एकादशी समाख्याता महापापहरा परा।
अस्याः प्रसङ्गतो राजन् माहात्म्यं प्रवदामि ते॥३॥
मुचुकुन्द इति ख्यातो बभूव नृपतिः पुरा।
देवेन्द्रेण समं तस्य मित्रत्वमभवन्नृप॥४॥
यमेन वरुणेनैव कुबेरेणापि सर्वथा।
विभीषणेन यस्यैव सखित्वमभवन्नृप॥५॥
विष्णुभक्तः सत्यसन्धो बभूव नृपतिः परः।
तस्यैवं शासतो राजन् राज्यं निहतकण्टकम्॥६॥
बभूव दुहिता गेहे चन्द्रभागा सरिद् वरा।
शोभनाय च सा दत्ता चन्द्रसेनसुताय वै॥७॥
स कदाचित्समायातः श्वशुरस्य गृहे नृप।
एकादशीव्रतदिनं समायातं सुपुण्यदम्॥८॥
समागते व्रतदिने चन्द्रभागा त्वचिन्तयत्।
किं भविष्यति देवेश मम भर्तातिदुर्बलः॥९॥
क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः।
पटहस्ताड्यते यस्य सम्प्राप्ते दशमीदिने॥१०॥
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने।
श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत् प्रियाम्॥११॥
किं कर्तव्यं मया कान्ते देहि शिक्षां वरानने।
चन्द्रभागोवाच
मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित्॥१२॥
गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च।
तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने॥१३॥
मानवैश्च कुतः कान्त भुज्यते हरिवासरे।
यदि त्वं भोक्ष्यसे कान्त ततो गर्हां प्रयास्यसि॥१४॥
एवं विचार्य मनसा सुदृढं मानसं कुरु।
शोभन उवाच
सत्यमेतत् प्रिये वाक्यं करिष्येऽहमुपोषणम्॥१५॥
दैवेन विहितं यद्धि तत्तथैव भविष्यति।
इति दृढां मतिं कृत्वा चकार नियमं व्रते॥१६॥
क्षुधया पीडिततनुः स बभूवातिदुःखितः।
इति चिन्तयतस्तस्य आदित्योऽस्तमगाद्गिरिम्॥१७॥
वैष्णवानां नराणां सा निशा हर्षविवर्धनी।
हरिपूजारतानां च जागरासक्तचेतसाम्॥१८॥
बभूव नृपशार्दूल शोभनस्यातिदुःखदा।
रवेरुदयवेलायां शोभनः पञ्चतां गतः॥१९॥
दाहयामास राजा तं राजयोग्यैश्च दारुभिः।
चन्द्रभागा नात्मदेहं ददाह पतिना सह॥२०॥
कृत्वौर्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि।
शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः॥२१॥
प्राप्तो देवपुरं रम्यं मन्दराचलसानुनि।
अनुत्तममनाधृष्यमसङ्ख्येयगुणान्वितम्॥२२॥
हेमस्तम्भमयैसौधै रत्नवैडूर्यमण्डितैः।
स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः॥२३॥
सिंहासनसमारूढः सुश्वेतच्छत्रचामरः।
किरीटकुण्डलयुतो हारकेयूरभूषितः।
स्तूयमानश्च गन्धर्वैरप्सरोगणसेवितः॥२४॥
शोभनः शोभते यत्र राजराजोपरो यथा।
सोमशर्मेति विख्यातो मुचुकुन्दपुरेऽभवत्॥२५॥
तीर्थयात्राप्रसङ्गेन भ्रमन्विप्रो ददर्श तम्।
नृपजामातरं ज्ञात्वा तत् समीपं जगाम सः॥२६॥
शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम्।
आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम्॥२७॥
चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च।
कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च॥२८॥
सोमशर्मोवाच
कुशलं वर्तते राजन् श्वशुरस्य गृहे तव।
चन्द्रभागा कुशलिनी सर्वतः कुशलं पुरे॥२९॥
स्ववृत्तं कथ्यतां राजन् नाऽऽश्चर्यं विद्यतेऽद्भुतम्।
पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित्॥३०॥
एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया।
शोभन उवाच
कार्तिकस्यासिते पक्षे या नामैकादशी रमा॥३१॥
तामुपोष्य मया प्राप्तं द्विजेन्द्र पुरमध्रुवम्।
ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः॥३२॥
द्विज उवाच
कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम्।
तत्त्वं कथय राजेन्द्र तत्करिष्यामि नान्यथा॥३३॥
शोभन उवाच
मयैतद् विहितं विप्र श्रद्धाहीनं व्रतोत्तमम्।
तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु॥३४॥
मुचुकुन्दस्य दुहिता चन्द्रभागा सुशोभना।
तस्यै कथय वृत्तान्तं ध्रुवमेतद् भविष्यति॥३५॥
कृष्ण उवाच
स श्रुत्वा वचनं तस्य मुचुकुन्दपुरं गतः।
उवाच सर्वं वृत्तान्त्तं चन्द्रभागाग्रतो द्विजः॥३६॥
सोमशर्मोवाच
प्रत्यक्षं दयितः कान्तस्तव दृष्टो मया शुभे।
इन्द्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया।
अध्रुवं तेन तत् प्रोक्तं ध्रुवं भवति तत्कुरु॥३७॥
चन्द्रभागोवाच
तत्र मां नय विप्रर्षे पतिदर्शनलालसाम्।
आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम्॥३८॥
आवयोर्द्विजसंयोगो यथा भवति तत्कुरु।
प्राप्यते हि महत् पुण्यं कृत्वा योगं वियुक्तयोः॥३९॥
इति श्रुत्वा सह तया सोमशर्मा जगाम ह।
आश्रमं वामदेवस्य मन्दराचलसन्निधौ॥४०॥
वामदेवोऽशृणोत् सर्वं वृत्तान्तं कथितं तयोः।
अभ्यषिञ्चच्चन्द्रभागां वेदमन्त्रैरथोज्ज्वलाम्॥४१॥
ऋषिमन्त्रप्रभावेन विष्णुवासरसेवनात्।
दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह॥४२॥
पत्युः समीपमगमत् प्रहर्षोत्फुल्ललोचना।
जहर्ष शोभनोऽतीव दृष्ट्वा कान्तां समागताम्॥४३॥
समाहूय स्वके वामे पार्श्वेतां सन्न्यवेशयत्।
अथोवाच प्रियं हर्षाच्चन्द्रभागा प्रियं वचः॥४४॥
शृणु कान्त हितं वाक्यं यत् पुण्यं विद्यते मयि।
अष्टवर्षाधिका जाता यदाहं पितृवेश्मनि॥४५॥
ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम्।
यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा।
तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम्॥४६॥
सर्वकामसमृद्धं च यावदाभूतसम्प्लवम्।
एवं सा नृपशार्दूल रमते पतिना सह॥४७॥
दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता।
शोभनोऽपि तया सार्धं रमते दिव्यविग्रहः॥४८॥
रमाव्रतप्रभावेन मन्दराचलसानुनि।
चिन्तामणिसमा ह्येषा कामधेनुसमाथ वा॥४९॥
रमाभिधाना नृपते तवाग्रे कथिता मया।
तस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप॥५०॥
मया तवाग्रे कथितं माहात्म्यं पापनाशनम्।
एकादशीव्रतानां च पक्षयोरुभयोरपि॥५१॥
यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत्।
सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी॥५२॥
धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः।
तथैव तुल्यफलदं स्मृतमेकादशीद्वयम्॥५३॥
एकादशीव्रतानां यो माहात्म्यं शृणुते नरः।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥५४॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे कार्त्तिक-कृष्ण-रमा-एकादशी-माहात्म्यं नाम द्विषष्टिमोऽध्यायः॥६२॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀