आश्विन-शुक्ल-पाशाङ्कुशा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ एकषष्टितमोऽध्यायः॥६१
युधिष्ठिर उवाच
कथयस्व प्रसादेन ममाग्रे मधुसूदन।
इषस्य शुक्लपक्षे तु किं नामैकादशी भवेत्॥१॥
श्रीकृष्ण उवाच
शृणुराजेन्द्र वक्ष्यामि माहात्म्यं पाप नाशनम्।
शुक्लपक्षे चाश्विनस्य भवेदेकादशी तु या॥२॥
पापाङ्कुशेति विख्याता सर्वपापहरा परा।
पद्मनाभाभिधानं मां पूजयेत् तत्र मानवः॥३॥
सर्वाभीष्ट फलं प्राप्तौ स्वर्गमोक्षप्रदं नृणाम्।
तपस्तप्त्वा पुनस्तीव्रं चिरं सुनियतेन्द्रियः॥४॥
यत्फलं समवाप्नोति तन्न त्वा गरुडध्वजम्।
कृत्वाऽपि बहुशःपापं नरो मोह समन्वितः॥५॥
न याति नरकं नत्वा सर्वपापहरं हरिम्।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च॥६॥
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात्।
देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम्॥७॥
न तेषां यमलोकस्य यातना जायते क्वचित्।
उपोष्यैकादशीमेकां प्रसङ्गेनापि मानवः।
न याति यातनां यामीं पापं कृत्वाऽपि दारुणम्॥८॥
वैष्णवः पुरुषो भूत्वा शिवनिन्दां करोति यः।
न विन्देद् वैष्णवं लोकं स याति नरकं ध्रुवम्॥९॥
शैवः पाशुपतो भूत्वा विष्णुनिन्दां करोति चेत्।
रौरवे पच्यते घोरे यावदिन्द्राश्चतुर्दश॥१०॥
नेदृशं पावनं किञ्चित् त्रिषु लोकेषु विद्यते।
यादृशं पद्मनाभस्य व्रतं पातकनाशनम्॥११॥
तावत् पापानि देहेऽस्मिन् तिष्ठन्ति मनुजाधिपम्।
यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम्॥१२॥
अश्वमेधसहस्राणि राजसूयशतानि च।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्॥१३॥
एकादशीसमं किञ्चिद् व्रतं लोके न विद्यते।
व्याजेनापि कृता यैश्च न ते यान्ति हि भास्करिम्॥१४॥
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी।
कलत्रसुतदा ह्येषा धनमित्रप्रदायिनी॥१५॥
न गङ्गा न गया राजन् न च काशी च पुष्करम्।
न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात्॥१६॥
रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम्।
अनायासेन भूपाल प्राप्यते वैष्णवं पदम्॥१७॥
दशैव मातृके पक्षे राजेन्द्र दश पैतृके।
प्रियाया दशपक्षे तु पुरुषानुद्धरेन्नरः॥१८॥
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः।
स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम्॥१९॥
बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम।
उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम्॥२०॥
पापाङ्कुशामुपोष्यैव आश्विनस्य सिते नरः।
सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति॥२१॥
दत्त्वा हेमतिलान्भूमिं गामन्नमुदकं तथा।
उपानच्छत्रवस्त्रादीन्न पश्यति यमं नरः॥२२॥
यस्य पुण्यविहीनानि दिनान्यायान्ति यान्ति च।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति॥२३॥
अवन्ध्यं दिवसं कुर्याद्दरिद्रोऽपि नृपोत्तम।
सदाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः॥२४॥
होमस्नानजपध्यानसत्रादिपुण्यकर्मणाम्।
कर्तारो नैव पश्यन्ति घोरां तां यमयातनाम्॥२५॥
दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः।
दृश्यन्ते मानवा लोके पुण्यकर्तार ईदृशाः॥२६॥
किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम्।
आरोहन्ति दिवं धर्मैर्नात्रकार्या विचारणा॥२७॥
इति ते कथितं राजन् यत् पृष्टोऽहं त्वयानघ।
पापाङ्कुशाया माहात्म्यं किमन्यच्छ्रोतुमिच्छसि॥२८॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे आश्विन-शुक्ल-पाशाङ्कुशा-एकादशी-माहात्म्यं नाम एकषष्टितमोऽध्यायः॥६१॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀