आश्विन-कृष्णेन्दिरा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ षष्टितमोऽध्यायः॥६०
युधिष्ठिर उवाच
कथयस्व प्रसादेन ममाग्रे मधुसूदन।
इषस्य कृष्णपक्षे तु किं नामैकादशी भवेत्॥१॥
श्रीकृष्ण उवाच
आश्विने कृष्णपक्षे तु इन्दिरा नाम नामतः।
तस्या व्रतप्रभावेन महापापं प्रणश्यति॥२॥
अधोयोनि गतानां च पितॄणां गतिदायिनी।
शृणुष्वावहितो राजन् कथां पापहरां पराम्॥३॥
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्।
पुरा कृतयुगे राजन् बभूव नृपनन्दनः॥४॥
इन्द्रसेन इति ख्यातः पुरा माहिष्मतीपतिः।
स राजा पालयामास धर्मेण यशसान्वितः॥५॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः।
माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः॥६॥
जपन् गोविन्दनामानि मुक्तिदानि नराधिपः।
कालं नयति विधिवदध्यात्मध्यानचिन्तकः॥७॥
एकस्मिन् दिवसे राज्ञि सुखासीने सदो गते।
अवतीर्यागमत् तत्र ह्यम्बरान्नारदो मुनिः॥८॥
तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृताञ्जलि।
पूजयित्वाऽथ विधिना चासने सन्न्यवेशयत्॥९॥
सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमः।
राजोवाच
त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम॥१०॥
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्।
प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम्॥११॥
नारद उवाच
श्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम्।
ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम॥१२॥
शमनेनार्चितो भक्त्या उपविष्टो वरासने।
धर्मशीलः सत्यवांस्तु भास्करिं समुपासते॥१३॥
बहुपुण्यप्रकर्ता च व्रतवैकल्यदोषतः।
सभायां श्राद्धदेवस्य मया दृष्टः पिता तव॥१४॥
कथितस्तेन सन्देशस्तं निबोध जनेश्वर।
इन्द्रसेन इति ख्यातो राजा माहिष्मतीपतिः॥१५॥
तस्याग्रे कथयब्रह्मन् स्थितं मां यमसन्निधौ।
केनापि चान्तरायेण पूर्वजन्मोद्भवेन च॥१६॥
स्वर्गं प्रेषय मां पुत्र इन्दिरा पुण्य दानतः।
इत्युक्तोऽहं समायातः समीपं तव पार्थिव॥१७॥
पितुः स्वर्गकृते राजन्निन्दिरा व्रतमाचर।
तेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता॥१८॥
राजोवाच
कथयस्व प्रसादेन भगवन्निन्दिराव्रतम्।
विधिना केन कर्तव्यं कस्मिन् पक्षे तिथौ तथा॥१९॥
नारद उवाच
शृणु राजेन्द्र ते वच्मि व्रतस्यास्य विधिं शुभम्।
आश्विनस्यासिते पक्षे दशमी दिवसे शुभे॥२०॥
प्रातःस्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा।
ततो मध्याह्नसमये स्नानं कृत्वा समाहितः॥२१॥
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः।
एकभक्तं ततः कृत्वा रात्रौ भूमौ शयीत च।
प्रभाते विमले जाते प्राप्ते चैकादशी दिने॥२२॥
मुख प्रक्षालनं कुर्याद्दन्तधावन वर्जितम्।
उपवासस्य नियमं गृह्णीयाद् भक्तिभावतः॥२३॥
अद्यस्थित्वा निराहारः सर्वभोग विवर्जितः।
श्वो भोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत॥२४॥
इत्येवं नियमं कृत्वा मध्याह्न समये तथा।
शालग्राम शिलाग्रे तु स्नानं कुर्याद् यथाविधि॥२५॥
पूजयित्वा हृषीकेशं धूप गन्धादिभिस्तथा।
रात्रौ जागरणं कुर्यात्केशवस्य समीपतः॥२६॥
ततः प्रभातसमये प्राप्ते वै द्वादशी दिने।
अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद् यथाविधि॥२७॥
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः।
गोधूम चूर्णैर्यछ्राद्धं कृतं मेध्यकृतं भवेत्॥२८॥
यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा।
ब्राह्मणान्भोजयेद् राजन् दक्षिणाभिः प्रपूजितान्॥२९॥
बन्धु दौहित्र पुत्राद्यैः स्वयं भुञ्जीत वाग्यतः।
अनेन विधिना राजन् कुरुव्रतमतन्द्रितः॥३०॥
विष्णुलोकं प्रयास्यन्ति पितरस्तव भूपते।
इत्युक्त्वा नृपतिं राजन् मुनिरन्तरधीयत॥३१॥
यथोक्त विधिना राजा चकार व्रतमुत्तमम्।
अन्तःपुरेण सहितः पुत्रभृत्य समन्वितः॥३२॥
कृते व्रते तु कौन्तेय पुष्पवृष्टिरभूद्दिवः।
तत् पिता गरुडारूढो जगाम हरिमन्दिरम्॥३३॥
इन्द्रसेनोऽपिराजर्षिः कृत्वा राज्यमकण्टकम्।
राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम्॥३४॥
इन्दिरा व्रत माहात्म्यं तवाग्रे कथितं मया।
पठनाच्छ्रवणाद् राजन् सर्वपापैः प्रमुच्यते॥३५॥
भुक्त्वेह निखिलान्भोगान् विष्णुलोके वसेच्चिरम्॥३६॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे आश्विन-कृष्णेन्दिरा-एकादशी-माहात्म्यं नाम षष्टितमोऽध्यायः॥६०॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀