भाद्रपद-शुक्ल-पद्मा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ एकोनषष्टितमोऽध्यायः॥५९
युधिष्ठिर उवाच
नभस्यस्य सिते पक्षे किं नामैकादशी भवेत्।
को देवः को विधिस्तस्य एतदाख्याहि केशव॥१॥
श्रीकृष्ण उवाच
कथयामि महीपाल कथामाश्चर्यकारिणीम्।
कथयामास यां ब्रह्मा नारदाय महात्मने॥२॥
नारद उवाच
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते।
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत्।
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै॥३॥
ब्रह्मोवाच
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया।
नातः परतरा लोके पवित्रा हरिवासरात्॥४॥
पद्मा नामेति विख्याता नभस्यैकादशी सिता।
हृषीकेशः पूज्यतेऽस्यां कर्तव्यं व्रतमुत्तमम्॥५॥
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्।
यस्याः श्रवणमात्रेण महापापं प्रणश्यति॥६॥
मान्धाता नाम राजर्षिर्विवस्वद्वंशसम्भवः।
बभूव चक्रवर्ती स सत्यसन्धः प्रतापवान्॥७॥
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्।
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा॥८॥
निरातङ्काः प्रजास्तस्य धनधान्यसमेधिताः।
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते॥९॥
स्वस्वधर्मे प्रवर्तन्ते सर्वे वर्णाश्रमास्तथा।
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः॥१०॥
तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः।
अथैकस्मिंश्च सम्प्राप्ते विपाकः कर्मणः खलु॥११॥
वर्षत्रयं तद् विषये न ववर्ष बलाहकः।
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः॥१२॥
स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः।
बभूव विषयस्तस्या भाग्येन दैवपीडितः।
अथ प्रजाः समागम्य राजानमिदमब्रुवन्॥१३॥
प्रजा ऊचुः
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया।
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः॥१४॥
अयनं भगवतस्तस्मान्नारायण इति स्मृतः।
पर्जन्यरूपो भगवान् विष्णुः सर्वगतः स्थितः॥१५॥
स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः।
तदभावे नृपश्रेष्ठ क्षयं गच्छन्ति वै प्रजाः।
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत्॥१६॥
राजोवाच
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित्।
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम्॥१७॥
अन्नाद् भवन्ति भूतानि जगदन्नेन वर्तते।
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे॥१८॥
नृपाणामपचारेण प्रजानां पीडनं भवेत्।
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन्॥१९॥
तथाऽपि प्रयतिष्यामि प्रजानां हितकाम्यया।
इति कृत्वा मतिं राजा परिमेयपरिच्छदः॥२०॥
नमस्कृत्य विधातारं जगाम गहनं वनम्।
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान्॥२१॥
ददर्शाथ ब्रह्मसुतमृषिमाङ्गिरसं नृपः।
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम्॥२२॥
तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात्।
नमश्चक्रेऽस्य चरणौ कृताञ्जलिपुटो वशी॥२३॥
मुनिस्तमभिनन्द्याथ स्वस्तिवाचनपूर्वकम्।
पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः॥२४॥
निवेदयित्वा कुशलं पप्रच्छानामयं नृपः।
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य सन्निधौ॥२५॥
प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम्॥२६॥
राजोवाच
भगवन् धर्मविधिना मम पालयतो महीम्।
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम्॥२७॥
संशयच्छेदनायात्र आगतोऽहं तवान्तिके।
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम्॥२८॥
ऋषिरुवाच
एतत्कृतयुगं राजन् युगानामुत्तमं मतम्।
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः॥२९॥
अस्मिन् युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः।
विषये तव राजेन्द्र वृषलोऽयं तपस्यति॥३०॥
एतस्मात् कारणाच्चैव न वर्षति बलाहकः।
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति॥३१॥
राजोवाच
नाहमेनं वधिष्यामि तपस्यन्तमनागसम्।
धर्मोपदेशं कथय उपसर्गविनाशनम्॥३२॥
ऋषिरुवाच
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्।
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता॥३३॥
तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम्।
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी॥३४॥
अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः।
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः॥३५॥
भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत्।
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः॥३६॥
एवं व्रते कृते राजन् प्रववर्ष बलाहकः।
जलेन प्लाविता भूमिरभवत् सस्यशालिनी॥३७॥
ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे।
एतस्मात् कारणादेवं कर्तव्यं व्रतमुत्तमम्॥३८॥
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे।
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च॥३९॥
नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक।
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव॥४०॥
भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः।
पठनाच्छ्रवणाद् राजन् सर्वपापैः प्रमुच्यते॥४१॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे भाद्रपद-शुक्ल-पद्मा-एकादशी-माहात्म्यं नाम एकोनषष्टितमोऽध्यायः॥५९॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀