भाद्रपद-कृष्णाजा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ अष्टपञ्चाशत्तमोऽध्यायः॥५८
युधिष्ठिर उवाच
भाद्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत्।
एतदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन॥१॥
श्रीकृष्ण उवाच
शृणुष्वैकमना राजन् कथयिष्यामि विस्तरात्।
अजेति नामतः प्रोक्ता सर्वपापप्रणाशिनी॥२॥
पूजयित्वा हृषीकेशं व्रतमस्यां करोति यः।
पापानि तस्य नश्यन्ति व्रतस्य श्रवणादपि॥३॥
नातः परतरा राजन् लोकद्वयहिताय वै।
सत्यमुक्तं मया ह्येतन्नासत्यं मम भाषितम्॥४॥
हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा।
चक्रवर्ती सत्यसन्धः समस्ताया भुवः पतिः॥५॥
कस्यापि कर्मणः प्राप्तौ राज्यभ्रष्टो बभूव सः।
विक्रीतौ वनितापुत्रौ स चकारात्मविक्रयम्॥६॥
पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत्।
सत्यमालम्ब्य राजेन्द्र मृतचैलापहारकः॥७॥
सोऽभवन्नृपतिश्रेष्ठो न सत्याच्चलितस्तथा।
एवं च तस्य नृपतेर्बहवो वत्सरा गताः॥८॥
ततश्चिन्तापरो राजा स बभूवातिदुःखितः।
किं करोमि क्व गच्छामि निष्कृतिर्मे कथं भवेत्॥९॥
इति चिन्तयतस्तस्य मग्नस्य वृजिनार्णवे।
आजगाम मुनिः कश्चिज्ज्ञात्वा राजानमातुरम्॥१०॥
परोपकारणार्थाय निर्मिता ब्रह्मणा द्विजाः।
स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः॥११॥
कृताञ्जलिपुटो भूत्वा गौतमस्याग्रतः स्थितः।
कथयामास वृत्तान्तमात्मनो दुःखसंयुतम्॥१२॥
श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः।
उपदेशं नृपतये व्रतस्यास्य ददौ मुनिः॥१३॥
मासि भाद्रपदे राजन् कृष्णपक्षेति शोभना।
एकादशी समायाता अजा नामेति पुण्यदा॥१४॥
अस्याः कुरु व्रतं राजन् पापस्यान्तो भविष्यति।
तव भाग्यवशादेषा सप्तमेऽह्नि समागता॥१५॥
उपवासपरो भूत्वा रात्रौ जागरणं कुरु।
एवमस्या व्रते चीर्णे तव पापक्षयो ध्रुवम्॥१६॥
तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम।
इत्येवं कथयित्वा च मुनिरन्तरधीयत॥१७॥
मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम्।
कृते तस्मिन् व्रते राज्ञः पापस्यान्तोऽभवत् क्षणात्॥१८॥
श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च।
यद् दुःखम्बहुभिर्वर्षैर्भोक्तव्यन्तत्क्षयोभवेत्॥१९॥
निस्तीर्णदुःखो राजासीद् व्रतस्यास्य प्रभावतः।
पत्न्या सह समायोगं पुत्रजीवनमाप सः॥२०॥
दिवि दुन्दुभयो नेदुः पुष्पवर्षमभूद्दिवः।
एकादश्याः प्रभावेन प्राप्यराज्यमकण्टकम्॥२१॥
स्वर्गं लेभे हरिश्चन्द्रः सपुरः सपरिच्छदः।
ईदृग्विधं व्रतंराजन् ये कुर्वन्ति च मानवाः॥२२॥
सर्वपापविनिर्मुक्तास्त्रिदिवं यान्ति ते नृप।
पठनाच्छ्रवणाद्वाऽपि अश्वमेधफलं लभेत्॥२३॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे भाद्रपद-कृष्णाजा-एकादशी-माहात्म्यं नाम अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀