श्रावण-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ सप्तपञ्चाशत्तमोऽध्यायः॥५७

युधिष्ठिर उवाच

श्रावणस्य सिते पक्षे किं नामैकादशी भवेत्।
कथयस्व प्रसादेन ममाग्रे मधुसूदन॥१॥

श्रीकृष्ण उवाच

शृणुष्वावहितो राजन् कथां पापहरां पराम्।
यस्याः श्रवणमात्रेण वाजपेयफलं भवेत्॥२॥
द्वापरस्य युगस्याऽऽदौ पुरा माहिष्मती पुरे।
राजा महीजिदाख्यातो राज्यं पालयति स्वकम्॥३॥
पुत्रहीनस्य तस्यैव न तद् राज्यं सुखप्रदम्।
अपुत्रस्य सुखं नास्ति इहलोके परत्र च॥४॥
चिन्तयानस्य तस्यैवं कालो बहुतरो गतः।
न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम्॥५॥
दृष्ट्वाऽऽत्मानं प्रवयसं राजा चिन्तापरोऽभवत्।
तदाऽऽगतः प्रजामध्ये इदं वचनमब्रवीत्॥६॥
इह जन्मनि भो लोका न मया पातकं कृतम्।
अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि॥७॥
ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचित्।
न्यासापहारो न कृतः परस्य बहुपापदः।
पुत्रवत् पालितो लोको धर्मेण विजिता मही॥८॥
दुष्टेषु पातितो दण्डो बन्धुपुत्रोपमेष्वपि।
शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः॥९॥
इत्येवं ब्रुवतो मार्गं धर्मयुक्तं द्विजोत्तमाः।
कस्मान्मम गृहे पुत्रो न जातस्तद् विमृश्यताम्॥१०॥
इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः।
मन्त्रयित्वा नृपहितं जग्मुस्ते गहनं वनम्॥११॥
इतस्ततश्च पश्यन्त आश्रमानृषिसेवितान्।
नृपतेर्हितमिच्छन्तो ददृशुर्मुनिसत्तमम्॥१२॥
तप्यमानं तपो घोरं निरालम्बं निरामयम्।
निराहारं जितात्मानं जितक्रोधं सनातनम्॥१३॥
लोमशं धर्मतत्त्वज्ञं सर्वशास्त्रविशारदम्।
दीर्घायुषं महात्मानं सकेशं ब्रह्मसम्मितम्॥१४॥
कल्पेकल्पे गते तस्य एकं लोम विशीर्यते।
अतो लोमशनामायं त्रिकालज्ञो महामुनिः॥१५॥
तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम्।
यथान्यायं यथार्हं ते नमश्चक्रुर्यथोदितम्॥१६॥
विनयावनताः सर्वे ऊचुस्ते च परस्परम्।
अस्मद् भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः।
तास्तथा स प्रजा वीक्ष्य उवाच ऋषिसत्तमः॥१७॥

लोमश उवाच

किमर्थमिह सम्प्राप्तः कथयध्वं सकारणम्।
दर्शनाद्धृष्टमनसः स्तुवन्तश्चैव मां किमु॥१८॥
असंशयं करिष्यामि भवतां यद्धितं भवेत्।
परोपकृतये जन्म मादृशानां न संशयः॥१९॥

जना ऊचुः

श्रूयतामभिधास्यामो वयमागमकारणम्।
संशयच्छेदनार्थाय तव सान्निध्यमागताः॥२०॥
पद्मयोनेः परतरस्त्वत्तः श्रेष्ठो न विद्यते।
अतः कार्यवशात् प्राप्ताः समीपं भवतो वयम्॥२१॥
महीजिन्नाम राजाऽसौ पुत्रहीनोऽस्ति साम्प्रतम्।
वयं तस्य प्रजा ब्रह्मन् पुत्रवत्तेन पालिताः॥२२॥
तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः।
तपः कर्तुमिहायाता मतिं कृत्वा तु नैष्ठिकीम्॥२३॥
तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम।
महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम्॥२४॥
उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत्।
इति तेषां वचः श्रुत्वा मुहूर्तं ध्यानमास्थितः।
प्रत्युवाच मुनिर्ज्ञात्वा तस्य जन्म पुरातनम्॥२५॥

लोमश उवाच

पुरा जन्मनि वैश्योऽयं धनहीनो नृशंसकृत्।
वाणिज्यकर्मनिरतो ग्रामाद् ग्रामान्तरं भ्रमन्॥२६॥
ज्येष्ठे मासि सिते पक्षे दशमी दिवसे तथा।
मध्यगे द्युमणौ प्राप्ते ग्रामसीम्नि जलाशयम्॥२७॥
कूपिकां सजलां दृष्ट्वा जलपाने मनोदधे।
सद्यस्ततः सवत्सा च धेनुस्तत्र समागता॥२८॥
तृष्णातुरा निदाघार्ता तस्यामम्बु पपौ तु सा।
पिबन्तीं वारयित्वा तामसौ तोयं पपौ स्वयम्॥२९॥
कर्मणा तेन पापेन पुत्रहीनो नृपो भवेत्।
कस्यापि जन्मनः पुण्यात् प्राप्तं राज्यमकण्टकम्॥३०॥

लोका ऊचुः

पुण्यात् पापं क्षयं याति पुराणे श्रूयते मुने।
पुण्योपदेशं कथय येन पापक्षयो भवेत्।
यथा भवत्प्रसादेन पुत्रो भवति भूपतेः॥३१॥

लोमश उवाच

श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता।
एकादशी वाञ्छितदा कुरुध्वं तद् व्रतं जनाः॥३२॥
इति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतम्।
यथाविधि यथान्यायं कृतं तैर्जागरान्वितम्॥३३॥
तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः।
दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्त शोभनम्॥३४॥
प्राप्तो प्रसवकाले सा सुषुवे पुत्रमूर्जितम्।
श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे॥३५॥
द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम्।
हेम-रौप्य-ताम्र-क्षौमैः सूत्रैः कौशेयपद्मजैः॥३६॥
कुशैः काशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः।
स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत्॥३७॥
गोदोहान्तरिते काले पूर्वेद्युरधिवासनम्।
ब्राह्मणेभ्यो नमस्कृत्य गुरुपादौ प्रणम्य च॥३८॥
गीतमङ्गलनिर्घोषः कुर्याज्जागरणं ततः।
ब्राह्मणाः क्षत्रिया वैश्या भिल्लाः शूद्रास्तथैव च॥३९॥
स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम्।
ततः पवित्रं गुरवे दद्याद्वै विधिपूर्वकम्॥४०॥
ब्राह्मणान् वैष्णवांश्चैव गन्धपुष्पादिनाऽर्चयेत्।
अतो देवेति मन्त्रेण द्विजो विष्णौ निवेदयेत्॥४१॥
शूद्रस्तु मूलमन्त्रेण यथा विष्णौ तथा शिवे।
वर्षेवर्षे प्रकर्तव्यं पवित्रारोपणं नरैः॥४२॥
भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे।
न करोति विधानेन पवित्रारोपणं तु यः॥४३॥
तस्य सांवत्सरी पूजा निष्फला वैष्णवस्य तु।
श्रुत्वा माहात्म्यमेतस्या नरः पापात् प्रमुच्यते।
इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं भवेत्॥४४॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे श्रावण-शुक्ल-पुत्रदा-एकादशी-माहात्म्यं नाम सप्तपञ्चाशत्तमोऽध्यायः॥५७॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥