श्रावण-कृष्ण-कामिका-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ षट्पञ्चाशत्तमोऽध्यायः॥५६
युधिष्ठिर उवाच
श्रावणस्यासिते पक्षे किं नामैकादशी भवेत्।
तन्नः कथय गोविन्द वासुदेव नमोऽस्तु ते॥१॥
श्रीकृष्ण उवाच
शृणु राजन् प्रवक्ष्यामि आख्यानं पापनाशनम्।
यत् प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै॥२॥
नारद उवाच
भगवन् श्रोतुमिच्छामि त्वत्तोऽहं कमलासन।
श्रावणस्यासिते पक्षे किं नामैकादशी भवेत्॥३॥
को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो।
इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत्॥४॥
ब्रह्मोवाच
शृणु नारद ते वच्मि लोकानां हितकाम्यया।
श्रावणैकादशी कृष्णा कामिका नाम नामतः॥५॥
अस्याः श्रवणमात्रेण वाजपेयफलं लभेत्।
अस्यां यजति देवेशं शङ्खचक्रगदाधरम्॥६॥
श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम्।
पूजयेद् ध्यायते यो वै तस्य पुण्यफलं शृणु॥७॥
न गङ्गायां न काश्यां च नैमिषे न च पुष्करे।
तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात्॥८॥
गोदावर्यां गुरौ सिंहे व्यतीपाते च दण्डके।
यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात्॥९॥
ससागरवनोपेतां यो ददाति वसुन्धराम्।
कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ॥१०॥
प्रसूयमानां यो धेनुं दद्यात् सोपस्करां नरः।
तत्फलं समवाप्नोति कामिकाव्रतकारकः॥११॥
श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः।
तेनैव पूजिता देवा गन्धर्वोरगपन्नगाः॥१२॥
तस्मात् सर्वप्रयत्नेन कामिकादिवसे हरिः।
पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः॥१३॥
ये संसारार्णवे मग्नाः पापपङ्कसमाकुले।
तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम्॥१४॥
नातः परतरा काचित् पवित्रा पापहारिणी।
एवं नारद जानीहि स्वयमाह परो हरिः॥१५॥
अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः।
ततो बहुतरं विद्धि कामिकाव्रतसेविनाम्॥१६॥
रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः।
न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम्॥१७॥
न पश्यति कुयोनिं च कामिकाव्रतसेवनात्।
कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः॥१८॥
तस्मात् सर्वप्रयत्नेन कर्तव्या नियतात्मभिः।
तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम्॥१९॥
न लिप्यते स पापेन पद्मपत्रमिवाम्भसा।
सुवर्णभारमेकं तु रजतं च चतुर्गुणम्॥२०॥
तत्फलं समवाप्नोति तुलसीदलपूजनात्।
रक्त-मौक्तिक-वैदूर्य-प्रवालादिभिरर्चितः॥२१॥
न तुष्यति तथा विष्णुस्तुलसीदलतो यथा।
तुलसीमञ्जरीभिश्च पूजितो येन केशवः॥२२॥
या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुः पावनी
रोगाणामभिवन्दितानि रसिनी सिक्तान्तकत्रासिनी।
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः॥२३॥
दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने।
तस्य पुण्यस्य सङ्ख्यातुं चित्रगुप्तो न वेत्त्यलम्॥२४॥
कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने।
पितरस्तस्य तृप्यन्ति अमृतेन दिवि स्थिताः॥२५॥
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः।
प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः॥२६॥
अयं तवाग्रे कथितः कामिकामहिमा मया।
अतो नरैः प्रकर्तव्या सर्वपातकहारिणी॥२७॥
ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी।
वैष्णवस्थानदात्री च महापुण्यफलप्रदा॥२८॥
श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः।
विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते॥२९॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे श्रावण-कृष्ण-कामिका-एकादशी-माहात्म्यं नाम षट्पञ्चाशत्तमोऽध्यायः॥५६॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀