आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ पञ्चपञ्चाशत्तमोऽध्यायः॥५५
युधिष्ठिर उवाच
आषाढस्य सिते पक्षे का च एकादशी भवेत्।
किं नाम को विधिस्तस्या एतद् विस्तरतो वद॥१॥
श्रीकृष्ण उवाच
कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम्।
शयनीं नामनामेति सर्वपापहरां पराम्॥२॥
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्।
सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम्॥३॥
पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा।
अतः परा न राजेन्द्र वर्तते मोक्षदायिनी॥४॥
एतस्मात् कारणाद् राजन् श्रूयतां गतिरुत्तमा।
भवेन्नराणां श्रोतॄणां कथायाः श्रवणादपि॥५॥
ते सदा वैष्णवा राजन् मम भक्तिपरायणाः।
आषाढे वामनश्चैव पूज्यते परमेश्वरः॥६॥
वामनः पूजितो येन कमलैः कमलेक्षणः।
आषाढस्य सिते पक्षे कामिकाया दिने तथा॥७॥
तेनार्चितं जगत् सर्वं त्रयो देवाः सनातनाः।
कृता चैकादशी येन हरिवासरमुत्तमम्॥८॥
युधिष्ठिर उवाच
संशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम।
कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः॥९॥
कथं च भूमौ संवेशः किं कुर्वन्ति जनाः परे।
एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम॥१०॥
श्रीकृष्ण उवाच
श्रूयतां राजशार्दूल कथां पापहरां पराम्।
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत्॥११॥
बलिनामा पूर्वमासीद्दैत्यस्त्रेतायुगे नृप।
पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः॥१२॥
यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम्।
भक्त्या च परया राजन् यज्ञकृद् व्रतकृत् तथा॥१३॥
परं विचार्य बहुधा मघोना चैव सूक्तिभिः।
गुरुणा दैवतैः सार्धं बहुधा पूजितोऽप्यहम्॥१४॥
ततो वामनरूपेण अवतारे च पञ्चमे।
अत्युग्ररूपेण तदा सर्वब्रह्माण्डरूपिणा॥१५॥
वाक्छलेन जिता दैत्याः सत्यमाश्रित्य संस्थितः।
शुक्रस्तं वारयामास यन्नारायण इत्ययम्॥१६॥
याचिता वसुधा राजन् सार्धत्रयपदी मया।
सङ्कल्पोदकमात्रे तु करे तेनैव चार्पिते॥१७॥
रूपमीदृग्विधं राजंस्तदा शृणु मया कृतम्।
भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी॥१८॥
स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरम्।
जनलोके च हृदयं तपोलोके तु कण्ठकम्॥१९॥
सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्ध्वकम्।
चन्द्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च॥२०॥
देवाः सेन्द्राश्च नागाश्च यक्षगन्धर्वकिन्नराः।
स्तुवन्तो वेदसम्भूतैः सूक्तैश्च विविधैस्तथा॥२१॥
करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही।
अर्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा॥२२॥
गतो रसातलं राजन् दानवो मम पूजकः।
क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम्॥२३॥
विनयेनाऽऽनतोऽसौ वै सुप्रसन्नो जनार्दनः।
आषाढशुक्लपक्षे तु शयनी हरिवासरः॥२४॥
तस्यामेका च मूर्तिर्मे बलिमाश्रित्य तिष्ठति।
द्वितीया शेषपृष्ठे वै क्षीरसागरमध्यतः॥२५॥
स्वपित्येव महाराज यावदागामिकार्तिकी।
तावद् भवेत् सुधर्मात्मा सर्वधर्मोत्तमोत्तमः॥२६॥
व्रतं च कुरुते मर्त्यः स याति परमां गतिम्।
एतस्मात् कारणाद् राजन् कर्तव्या च प्रयत्नतः॥२७॥
नातः परतरा काचित् पवित्रा पापनाशिनी।
यस्यां स्वपिति देवेशः शङ्खचक्रगदाधरः॥२८॥
तस्यां च पूजयेद् देवं शङ्खचक्रगदाधरम्।
रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः॥२९॥
नास्याः पुण्यस्य सङ्ख्यानं कर्तुं शक्तश्चतुर्मुखः।
एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम्॥३०॥
सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम्।
स च लोके मम सदा श्वपचोऽपि प्रियङ्करः॥३१॥
दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च।
चातुर्मास्यं नयन्तीह ते नरा मम वल्लभाः॥३२॥
चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः।
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा॥३३॥
दुग्धमाश्वयुजि त्याज्यं कार्तिके द्विदलं त्यजेत्।
अथवा ब्रह्मचर्यस्थः स याति परमां गतिम्॥३४॥
एकादश्या व्रतेनैव पुमान् पापैर्विमुच्यते।
कर्तव्या सर्वदा राजन् विस्मर्तव्या न कर्हिचित्॥३५॥
शयनी बोधिनी मध्ये या कृष्णैकादशी भवेत्।
सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन॥३६॥
शृणुयाच्चैव यो राजन् कथां पापहरां पराम्।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः॥३७॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀