आषाढ-कृष्ण-योगिनी-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ चतुष्पञ्चाशत्तमोऽध्यायः॥५४
युधिष्ठिर उवाच
आषाढकृष्णपक्षे तु किं वै एकादशी भवेत्।
कथयस्व प्रसादेन वासुदेव ममाग्रतः॥१॥
श्रीकृष्ण उवाच
व्रतानामुत्तमं राजन् कथयामि तवाग्रतः।
सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम्॥२॥
आषाढस्यासिते पक्षे योगिनी नाम नामतः।
एकादशी नृपश्रेष्ठ महापातकनाशिनी॥३॥
संसारार्णवमग्नानां पोतभूता सनातनी।
जगत्त्रये सारभूता योगिनी व्रतकारिणाम्॥४॥
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्।
अलकायां राजराजः शिवभक्तिपरायणः॥५॥
तस्याऽऽसीत् पुष्पबटुको हेममालीति नामतः।
तस्य पत्नी सुरूपा च विशालाक्षीति नामतः॥६॥
स तस्यां चासक्तमना कामपाशवशं गतः।
मानसात् पुष्पनिचयमानीय स्वगृहे स्थितः॥७॥
पत्नीप्रेमरसासक्तो न कुबेरालयं गतः।
कुबेरो देवसदने करोति शिवपूजनम्॥८॥
मध्याह्नसमये राजन् पुष्पागमसमीक्षकः।
हेममाली स्वभवने रमते कान्तया सह॥९॥
यक्षराट् प्रत्युवाचाथ कालातिक्रमकोपितः।
कस्मान्नाऽऽयाति भो यक्षा हेममाली दुरात्मवान्।
निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः॥१०॥
यक्षा ऊचुः
वनिताकामुको गेहे रमते स्वेच्छया नृप।
तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः॥११॥
आह्वयामास तं तूर्णं बटुकं हेममालिनम्।
ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः॥१२॥
अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः।
तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः॥१३॥
प्रत्युवाच रुषाविष्टः कोपप्रस्फुरिताधरः।
धनद उवाच
आः पाप दुष्ट दुर्वृत्त कृतवान् देवहेलनम्॥१४॥
अष्टादशकुष्ठवृतो वियुक्तः कान्तया तया।
अस्मात् स्थानादपध्वस्तो गच्छस्व प्रमथाधम॥१५॥
इत्युक्ते वचने तस्य तस्मात् स्थानात् पपात सः।
महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः॥१६॥
न सुखं दिवसे तस्य न निद्रां लभते निशि।
छायायां पीडिततनुर्निदाघेऽत्यन्तपीडितः॥१७॥
शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते।
पातकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ॥१८॥
भ्रममाणस्ततो गच्छन् हिमाद्रिं पर्वतोत्तमम्।
तत्रापश्यन्मुनिवरं मार्कण्डेयं तपोनिधिम्॥१९॥
यस्याऽऽयुर्विद्यते राजन् ब्रह्मणो वयसा समम्।
ववन्दे चरणौ तस्य दूरतः पापकर्मकृत्॥२०॥
मार्कण्डेयो मुनिवरो दृष्ट्वा तं कम्पितं तथा।
परोपकरणार्थाय समाहूयेदमब्रवीत्॥२१॥
कस्मात् कुष्ठाभिभूतस्त्वं कुतो निन्द्यतरो ह्यसि।
इत्युक्तः स प्रत्युवाच मार्कण्डेयं महामुनिम्॥२२॥
हेममाल्युवाच
राजराजस्यानुचरो हेममालीति नामतः।
मानसात् पद्मनिचयमानीय प्रत्यहं मुने॥२३॥
शिवपूजनवेलायां कुबेराय समर्पये।
एकस्मिन् दिवसे चैव कालश्चाविदितो मया॥२४॥
पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा।
ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने॥२५॥
कुष्ठाभिभूतः सञ्जातो वियुक्तः कान्तया तया।
अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा॥२६॥
सतां स्वभावतश्चित्तं परोपकरणे क्षमम्।
इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम्॥२७॥
मार्कण्डेय उवाच
त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः।
अतो व्रतोपदेशं ते कथयामि शुभप्रदम्॥२८॥
आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर।
अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम्॥२९॥
इति वाक्यमृषेः श्रुत्वा दण्डवत् पतितो भुवि।
उत्थापितः स मुनिना बभूवातीव हर्षितः॥३०॥
मार्कण्डेयोपदेशेन व्रतं तेन कृतं यथा।
अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः॥३१॥
मुनेर्वाचा ततः सम्यग् व्रते चीर्णेऽभवत् सुखी।
ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम्॥३२॥
अष्टाशीतिसहस्राणि द्विजान् भोजयते तु यः।
तत् समं फलमाप्नोति योगिनीव्रतकृन्नरः॥३३॥
महापापप्रशमनं महापुण्यफलप्रदम्।
पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते॥३४॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे आषाढ-कृष्ण-योगिनी-एकादशी-माहात्म्यं नाम चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀