ज्येष्ठ-शुक्ल-निर्जला-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ त्रिपञ्चाशत्तमोऽध्यायः॥५३

युधिष्ठिर उवाच

अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन।
ज्येष्ठस्य शुक्लपक्षे तु स्याद् या तां वद मानद॥१॥

श्रीकृष्ण उवाच

एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः।
सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारगः॥२॥

युधिष्ठिर उवाच

श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया।
द्वैपायन यथावत् त्वं वैष्णवान् वक्तुमर्हसि॥३॥

श्रीवेदव्यास उवाच

श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया।
कलौ युगे न शक्यन्ते ते वै कर्तुं नराधिप॥४॥
सुखोपायमल्पधनमल्पक्लेशं महाफलम्।
पुराणानां च सर्वेषां सारभूतं महामते॥५॥
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि।
द्वादश्यां तु शुचिर्भूत्वा पुष्पैः सम्पूज्य केशवम्॥६॥
अन्नं भुञ्जीत सत्कृत्य पश्चाद् विप्रपुरःसरम्।
सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप॥७॥
यावज्जीवं व्रतमिदं कर्तव्यं पुरुषर्षभ।
स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः॥८॥
अपि पापदुराचाराः पापिष्ठा धर्मवर्जिताः।
एकादश्यां न भुञ्जन्ति न ते यान्ति यमान्तिकम्॥९॥
इति तद् वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवत्।
भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति॥१०॥

भीमसेन उवाच

पितामह महाबुद्धे शृणु मे परमं वचः।
युधिष्ठिरश्च कुन्ती च तथा द्रुपदनन्दिनी॥११॥
अर्जुनो नकुलश्चैव सहदेवस्तथैव च।
एकादश्यां न भुञ्जन्ति कदाचिदपि सुव्रताः॥१२॥
ते मां ब्रुवन्ति वै नित्यं मा भुङ्क्ष्व त्वं वृकोदर।
अहं तानब्रुवं तात बुभुक्षा दुःसहा मम॥१३॥
दानं दास्यामि विधिवत् पूजयिष्यामि केशवम्।
भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत्॥१४॥

व्यास उवाच

यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च।
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि॥१५॥

भीमसेन उवाच

पितामह महाबुद्धे कथयामि तवाग्रतः।
एकभक्ते न शक्नोमि उपवासे कुतः प्रभो॥१६॥
वृकोऽपि नाम यो वह्निः स सदा जठरे मम।
अतिवेलं यदाऽश्नामि तदा समुपशाम्यति॥१७॥
नैकं शक्नोम्यहं कर्तुमुपवासं महामुने।
येनैव प्राप्यते स्वर्गस्तत्कर्ताऽस्मि यथातथम्।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥१८॥

व्यास उवाच

वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत्।
ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता॥१९॥
गण्डूषाचमनं वारि वर्जयित्वोदकं बुधः।
उपभुञ्जीत नैवेह व्रतभङ्गोऽन्यथा भवेत्॥२०॥
उदयादुदयं यावद् वर्जयित्वोदकं नरः।
श्रूयतां समवाप्नोति द्वादशद्वादशीफलम्॥२१॥
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत्।
जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि॥२२॥
भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी।
एवं कृते च यत् पुण्यं भीमसेन शृणुष्व तत्॥२३॥
संवत्सरे तु याश्चैव एकादश्यो भवन्ति हि।
तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः॥२४॥
इति मां केशवः प्राह शङ्खचक्रगदाधरः।
सर्वान् परित्यज्य पुमान् मामेकं शरणं व्रजेत्॥२५॥
एकादश्यां निराहारस्ततः पापात् प्रमुच्यते।
द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त एव च॥२६॥
वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे।
किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः॥२७॥
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि।
एकादश्यां सिते पक्षे ज्येष्ठे मास्युदकं विना॥२८॥
पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर।
संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर॥२९॥
उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः।
धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा॥३०॥
उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते।
यमदूता महाकायाः करालाः कृष्णरूपिणः॥३१॥
दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम्।
पीताम्बरधरा सौम्याश्चक्रहस्ता मनोजवाः॥३२॥
अन्तकालेन यन्त्येते वैष्णवान् वैष्णवीपुरीम्।
तस्मात् सर्वप्रयत्नेन उपोष्योदकवर्जिता॥३३॥
जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते।
ततस्त्वमस्यां कौन्तेय सोपवासोऽर्चनं हरेः॥३४॥
कुरु सर्वप्रयत्नेन सर्वपापप्रशान्तये।
स्वप्नेन मेऽपराधोस्ति दन्तरागतयापि वा॥३५॥
भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः।
इत्युच्चार्य ततो मन्त्र उपवासपरो भवेत्॥३६॥
सर्वपापविनाशाय श्रद्धा दम समन्वितः।
मेरुमन्दरमात्राघं स्त्रिया पुंसा च यत्कृतम्॥३७॥
सर्वं तद् भस्मतां याति एकादश्याः प्रभावतः।
न शक्नुवन्ति ये दातुं जलधेनुं नराधिप॥३८॥
सकाञ्चनः प्रदातव्यो घटको वस्त्रसंयुतः।
तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक्॥३९॥
फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम्।
स्नानं दानं जपं होमं यदस्यां कुरुते नरः॥४०॥
तत् सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम्।
किं चापरेण धर्मेण निर्जलैकादशीं विना॥४१॥
उपोष्य सम्यग् विधिवद् वैष्णवं पदमाप्नुयात्।
सुवर्णमन्नं वासो वा यदस्यां सम्प्रदीयते॥४२॥
तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत्।
एकादश्यां दिने योऽन्नं भुङ्क्ते पापं भुनक्ति सः॥४३॥
इहलोके स चाण्डालो मृतः प्राप्नोति दुर्गतिम्।
ये च दास्यन्ति दानानि द्वादश्यां समुपोषिताः॥४४॥
ज्येष्ठमासे सिते पक्षे प्राप्स्यन्ति परमं पदम्।
ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदाऽनृती॥४५॥
मुच्यन्ते पातकैः सर्वैर्निर्जलायैरुपोषिता।
विशेषं शृणु कौन्तेय निर्जलैकादशीदिने॥४६॥
यत्कर्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः।
जलशायी च सम्पूज्यो देया धेनुस्तथाऽम्मयी॥४७॥
प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा।
दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः॥४८॥
तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर।
तुष्टा भवन्ति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः॥४९॥
आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता।
पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः॥५०॥
कुलानां शतमागामि अतीतानां तथा शतम्।
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरम्॥५१॥
शान्तैर्दान्तैर्दानपरैरर्चयद्भिस्तथा हरिम्।
कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता॥५२॥
अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम्।
कमण्डलुं तथा छत्रं दातव्यं निर्जला दिने॥५३॥
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे।
स सौवर्णेन यानेन स्वर्गलोके महीयते॥५४॥
यश्चेमां शृणुयाद् भक्त्या यश्चापि परिकीर्तयेत्।
उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा॥५५॥
यत्फलं सन्निहत्यायां राहुग्रस्ते दिवाकरे।
कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि॥५६॥
नियमं च प्रकर्तव्यं दन्तधावनपूर्वकम्।
एकादश्यां निराहारो वर्जयिष्यामि वै जलम्॥५७॥
केशवप्रीणनार्थाय अन्यदाचमनादृते।
द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः॥५८॥
गन्धैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः।
पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत्॥५९॥
देवदेव हृषीकेश संसारार्णवतारक।
उदकुम्भप्रदानेन नय मां परमां गतिम्॥६०॥
ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा।
निर्जला समुपोष्यात्र जलकुम्भान् सशर्करान्॥६१॥
प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ।
ततः कुम्भाः प्रदातव्या ब्राह्मणानां च भक्तितः॥६२॥
भोजयित्वा ततो विप्रान् स्वयं भुञ्जीत तत्परः।
एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम्॥६३॥
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम्।
ततः प्रभृति भीमेन कृता ह्येकादशी शुभा।
पाण्डवद्वादशी नाम्ना लोके ख्याता बभूव ह॥६४॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे ज्येष्ठ-शुक्ल-निर्जला-एकादशी-माहात्म्यं नाम त्रिपञ्चाशत्तमोऽध्यायः॥५३॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥