ज्येष्ठ-कृष्णापरा-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ द्विपञ्चाशत्तमोऽध्यायः॥५२

युधिष्ठिर उवाच

ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेत्।
श्रोतुमिच्छामि माहात्म्यं तद् वदस्व जनार्दन॥१॥

श्रीकृष्ण उवाच

साधु पृष्टं त्वया राजन् लोकानां हितकाम्यया।
बहुपुण्यप्रदा ह्येषा महापातकनाशिनी॥२॥
अपरा नाम राजेन्द्र अपरा पुत्रदायिनी।
लोके प्रसिद्धितां याति अपरां यस्तु सेवते॥३॥
ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा।
परापवादवादी च परस्त्रीरतिकोऽपि च॥४॥
अपरासेवनाद् राजन् विपाप्मा भवति ध्रुवम्।
कूटसाक्ष्यं कूटमानं तुलाकूटं करोति यः॥५॥
कूटवेदं पठेद् यस्तु कूटशास्त्रं तथैव च।
ज्योतिषी गणकः कूटः कूटायुर्वैदिको भिषक्॥६॥
कूटसाक्षिसमायुक्तो विज्ञेया नरकौकसः।
अपरासेवनाद् राजन् पापैर्मुक्ता भवन्ति ते॥७॥
क्षत्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात् पलायते।
स याति नरकं घोरं स्वीयधर्मबहिष्कृतः॥८॥
अपरासेवनात् सोऽपि पापं त्यक्त्वा दिवं व्रजेत्।
विद्यावान् यः स्वयं शिष्यो गुरुनिन्दां करोति च॥९॥
स महापातकैर्युक्तो निरयं याति दारुणम्।
अपरासेवनात् सोऽपि सद्गतिं प्राप्नुयान्नरः॥१०॥
महिमानमपरायाः शृणु राजन् वदाम्यहम्।
मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम्॥११॥
काश्यां यत् प्राप्यते पुण्यमुपरागे निमज्जनात्।
गयायां पिण्डदानेन पितॄणां तृप्तिदो यथा॥१२॥
सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः।
कन्यागते गुरौ राजन् कृष्णवेणीनिमज्जनात्॥१३॥
यत्फलं समवाप्नोति कुम्भकेदारदर्शनात्।
बदर्याश्रमयात्रायां तत् तीर्थसेवनादपि॥१४॥
यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे।
गजाश्वहेमदानेन यज्ञं कृत्वा सदक्षिणम्॥१५॥
तादृशं फलमाप्नोति अपराव्रतसेवनात्।
अर्धप्रसूतां गां दत्त्वा सुवर्णं वसुधां तथा॥१६॥
नरो यत्फलमाप्नोति अपराया व्रतेन तत्।
पापद्रुमकुठारीयं पापेन्धन दवानलः॥१७॥
पापान्धकारतरणिः पापसारङ्ग केसरी।
बुद्बुदा इव तोयेषु पुत्तिका इव जन्तुषु॥१८॥
जायन्ते मरणायैव एकादश्या व्रतं विना।
अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम्॥१९॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।
लोकानां च हितार्थाय तवाग्रे कथितं मया।
पठनाच्छ्रवणाद् राजन् गोसहस्रफलं लभेत्॥२०॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे ज्येष्ठ-कृष्णापरा-एकादशी-माहात्म्यं नाम द्विपञ्चाशत्तमोऽध्यायः॥५२॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥