वैशाख-शुक्ल-मोहिनी-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ नामैकपञ्चाशत्तमोऽध्यायः॥५१

युधिष्ठिर उवाच

वैशाख शुक्लपक्षे तु किं नामैकादशी भवेत्।
किं फलं को विधिस्तत्र कथयस्व जनार्दन॥१॥

श्रीकृष्ण उवाच

इदमेव पुरा पृष्टं रामचन्द्रेण धीमता।
वसिष्ठं प्रति राजेन्द्र यत् त्वं मामनुपृच्छसि॥२॥

राम उवाच

भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्।
सर्वपापक्षयकरं सर्वदुःखनिकृन्तनम्॥३॥
मया दुःखानि भुक्तानि सीताविरहजानि तु।
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने॥४॥

वसिष्ठ उवाच

साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः।
त्वन्नामग्रहणेनैव पूतो भवति मानवः॥५॥
तथाऽपि कथयिष्यामि लोकानां हितकाम्यया।
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम्॥६॥
वैशाखस्य सिते पक्षे राम चैकादशी भवेत्।
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः॥७॥
मोहजालात् प्रमुच्यन्ते पातकानां समूहतः।
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम्॥८॥
अतः कारणतो राम कर्तव्यैषा भवादृशैः।
पातकानां क्षयकरी महादुःखविनाशिनी॥९॥
शृणुष्वैकमना राम कथां पापहरां पराम्।
यस्याः श्रवणमात्रेण महापापं प्रणश्यति॥१०॥
सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा।
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै॥११॥
चन्द्रवंशोद्भवो नाम धृतिमान्सत्यसङ्गरः।
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान्॥१२॥
धनपाल इति ख्यातः पुण्यकर्मप्रवर्तकः।
प्रपा कूप मठाराम तडाग गृहकारकः॥१३॥
विष्णुभक्तिरतः शान्तस्तस्यासन् पञ्चपुत्रकाः।
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा॥१४॥
पञ्चमो धृष्टबुद्धिश्च महापापरतः सदा।
परस्त्रीसङ्गनिरतो विटगोष्ठी विशारदः॥१५॥
द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः।
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान् प्रति॥१६॥
अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयङ्करः।
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा॥१७॥
वेश्याकण्ठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे।
पित्रा निष्कासितो गेहात् परित्यक्तश्च बान्धवैः॥१८॥
स्वदेहभूषणान्येव क्षयं नीतानि तेन वै।
गणिकाभिः परित्यक्तो निन्दितश्च धनक्षयात्॥१९॥
ततश्चिन्तापरो जातो वस्त्रहीनः क्षुधार्दितः।
किं करोमि क्वगच्छामि केनोपायेन जीव्यते॥२०॥
तस्करत्वं समारब्धं तत्रैव नगरे पितुः।
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात्॥२१॥
पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससम्भ्रमैः।
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः॥२२॥
कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः।
न स्थातव्यं हि मन्दात्मंस्त्वया मद्देशगोचरे॥२३॥
एवमुक्त्वा ततो राज्ञा मोचितो दृढबन्धनात्।
निर्जगाम भयात् तस्य गतोऽसौ गहनं वनम्॥२४॥
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति।
सिंहवन्निजघानासौ मृग शूकर चित्रलान्॥२५॥
आमिषाहार निरतो वने तिष्ठति सर्वदा।
करे शरासनं कृत्वा निषङ्गं पृष्ठ सङ्गतम्॥२६॥
अरण्यचारिणो हन्ति पक्षिणश्च पदाचरन्।
चकोरांश्च मयूरांश्च कङ्क तित्तिर मूषिकान्॥२७॥
एतानन्यान्हिनस्त्यन्धो धृष्टबुद्धिस्तु निर्घृणः।
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे॥२८॥
दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम्।
कौण्डिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित्॥२९॥
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम्।
आससाद धृष्टबुद्धिः शोकभारेण पीडितः॥३०॥
तद्वस्त्रबिन्दुस्पर्शेन गतपापो हताशुभः।
कौण्डिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृताञ्जलि॥३१॥

धृष्टबुद्धिरुवाच

भो भो ब्रह्मन् द्विजश्रेष्ठ दयां कृत्वा ममोपरि।
येन पुण्यप्रभावेन मुक्तिर्भवति तद् वद॥३२॥

कौण्डिन्य उवाच

शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव।
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता॥३३॥
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः।
मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनाम्॥३४॥
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता।
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः॥३५॥
व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः।
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः॥३६॥
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः।
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम्॥३७॥
इतीदृशं रामचन्द्र उत्तमं मोहिनी व्रतम्।
नातः परतरं किञ्चित् त्रैलोक्ये सचराचरे॥३८॥
यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम्।
पठनाच्छ्रवणाद् राजन् गोसहस्रफलं लभेत्॥३९॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे वैशाख-शुक्ल-मोहिनी-एकादशी-माहात्म्यं नाम नामैकपञ्चाशत्तमोऽध्यायः॥५१॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥