वैशाख-कृष्ण-वरूथिनी-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ पञ्चाशत्तमोऽध्यायः॥५०

युधिष्ठिर उवाच

वैशाखस्यासिते पक्षे किं नामैकादशी भवेत्।
महिमानं कथय मे वासुदेव नमोऽस्तु ते॥१॥

श्रीकृष्ण उवाच

सौभाग्यदायिनी राजन्निहलोके परत्र च।
वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी॥२॥
वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा।
पापहानिश्च भवति सौभाग्यप्राप्तिरेव च॥३॥
दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात्।
लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी॥४॥
सर्वपापहरा नॄणां गर्भवासनिकृन्तनी।
वरूथिन्या व्रतेनैव मान्धाता स्वर्गतिं गतः॥५॥
धुन्धुमारादयश्चान्ये राजानो बहवस्तथा।
ब्रह्मकपालनिर्मुक्तो बभूव भगवान् भवः॥६॥
दशवर्षसहस्राणि तपस्तप्यति यो नरः।
कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः।
तत्तुल्यं फलमाप्नोति वरूथिन्या व्रतं चरन्॥७॥
श्रद्धावान् यस्तु कुरुते वरूथिन्या व्रतं नरः।
वाञ्छितं लभते सोऽपि इहलोके परत्र च॥८॥
पवित्रा पावनी ह्येषा महापातकनाशिनी।
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम॥९॥
अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते।
गजदानाद् भूमिदानं तिलदानं ततोऽधिकम्॥१०॥
तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम्।
अन्नदानात् परं दानं न भूतं न भविष्यति॥११॥
पितृदेवमनुष्याणां तृप्तिरन्नेन जायते।
तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम॥१२॥
धेनुदानं च तत्तुल्यमित्याह भगवान् स्वयम्।
प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते॥१३॥
तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम्।
कन्यावित्तेन जीवन्ति ये नराः पापमोहिताः॥१४॥
पुण्यक्षयं ते गच्छन्ति निरयं यातनामयम्।
तस्मात् सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम्॥१५॥
यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद् धनम्।
सोऽन्यजन्मनि राजेन्द्र ओतुर्भवति निश्चितम्॥१६॥
कन्यां पुण्येन यो दद्याद् यथाशक्ति स्वलङ्कृताम्।
तत् पुण्यसङ्ख्यां नृपते चित्रगुप्तो न शक्नुयात्॥१७॥
तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम्।
कांस्यं मांसं मसूरांश्च चणकान् कोद्रवांस्तथा॥१८॥
शाकं मधु परान्नं च पुनर्भोजनमैथुने।
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत्॥१९॥
द्यूतं क्रीडां च निद्रां च ताम्बूलं दन्तधावनम्।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम्॥२०॥
क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत्।
कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम्॥२१॥
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम्।
वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत्॥२२॥
अनेन विधिना राजन् विहिता यैर्वरूथिनी।
रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः।
॥२३॥
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम्।
तस्मात् सर्वप्रयत्नेन कर्तव्या पापभीरुभिः॥२४॥
क्षपारितनयाद् भीतो नरः कुर्याद् वरूथिनीम्।
पठनाच्छ्रवणाद् राजन् गोसहस्रफलं लभेत्।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥२५॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे वैशाख-कृष्ण-वरूथिनी-एकादशी-माहात्म्यं नाम पञ्चाशत्तमोऽध्यायः॥५०॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥