चैत्र-शुक्ल-कामदा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ एकोनपञ्चाशत्तमोऽध्यायः॥४९
युधिष्ठिर उवाच
वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः।
चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत्॥१॥
श्रीकृष्ण उवाच
शृणुष्वैकमना राजन् कथां पुण्यां पुरातनीम्।
वसिष्ठो यामकथयत् प्राग् दिलीपाय पृच्छते॥२॥
दिलीप उवाच
भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः।
चैत्रमासि सिते पक्षे किं नामैकादशी भवेत्॥३॥
वसिष्ठ उवाच
साधु पृष्टं त्वया राजन् कथयामि तवाग्रतः।
चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः॥४॥
एकादशी पुण्यतमा पापेन्धनदवानलः।
शृणु राजन् कथामेतां पापघ्नीं पुण्यदायिनीम्॥५॥
पुरा नागपुरे रम्ये हेमरत्नविभूषिते।
पुण्डरीकमुखा नागा निवसन्ति महोत्कटाः॥६॥
तस्मिन् पुरे पुण्डरीको राजा राज्यं चकार सः।
गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते॥७॥
वराप्सरास्तु ललिता गन्धर्वो ललितस्तथा।
उभौ रागेण संरक्तौ दम्पती कामपीडितौ॥८॥
रेमाते स्वगृहे रम्ये धनधान्ययुते तदा।
ललितायाश्च हृदये पतिर्वसति सर्वदा॥९॥
हृदये तस्य ललिता नित्यं वसति भामिनी।
एकदा पुण्डरीकोऽथ क्रीडते सदसि स्थितः॥१०॥
गीतं गानं प्रकुरुते ललितो दयितां विना।
पदबन्धस्खलज्जिह्वो बभूव ललितां स्मरन्॥११॥
मनोभावं विदित्वाऽस्य कर्कटो नागसत्तमः।
पदबन्धच्युतिं तस्य पुण्डरीके न्यवेदयत्॥१२॥
श्रुत्वा कर्कोटकवचः पुण्डरीको भुजङ्गराट्।
क्रोधसंरक्तनयनो बभूवातिभयङ्करः॥१३॥
शशाप ललितं तत्र गायन्तं मदनातुरम्।
राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः॥१४॥
यतः पत्नीवशोपेतो गायमानो ममाग्रतः।
वचनात् तस्य राजेन्द्र रक्षोरूपो बभूव सः॥१५॥
रौद्राननो विरूपाक्षो दृष्टमात्रो भयङ्करः।
बहुयोजनविस्तीर्णो मुखं कन्दरसन्निभम्॥१६॥
चन्द्रसूर्यनिभे नेत्रे ग्रीवापर्वतसन्निभा।
नासारन्ध्रे तु विवरे अधरौ योजनायतौ॥१७॥
शरीरं तस्य राजेन्द्र उत्थितं योजनाष्टकम्।
ईदृशो राक्षसो भूत्वा भुञ्जानः कर्मणः फलम्॥१८॥
ललिता तु तथाऽऽलोक्य स्वपतिं विकृताकृतिम्।
चिन्तयामास मनसा दुःखेन महतार्दिता॥१९॥
किं करोमि क्व गच्छामि पतिः शापेन पीडितः।
इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत्॥२०॥
चचार पतिना सार्धं ललिता गहने वने।
बभ्राम विपिने दुर्गे कामरूपी स राक्षसः॥२१॥
निर्घृणः पापनिरतो विरूपः पुरुषादकः।
न सुखं लभते रात्रौ न दिवा पापपीडितः॥२२॥
ललिता दुःखिताऽतीव पतिं दृष्ट्वा तथाविधम्।
बभ्राम तेन सार्धं सा रुदती गहने वने॥२३॥
दृष्ट्वाऽऽश्रमपदं रम्यं मुनिं संशान्तविग्रहम्।
शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता॥२४॥
तां दृष्ट्वा स मुनिः प्राह दुःखितां हि दयापरः।
का त्वं कस्मादिहायाता सत्यं वद ममाग्रतः॥२५॥
ललितोवाच
वीरधन्वेति गन्धर्वः सुता तस्य महात्मनः।
ललितां नाम मां विद्धि पत्यर्थमिह चाऽऽगताम्॥२६॥
भर्ता मे पापदोषेण राक्षसोऽभून्महामुने।
रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम्॥२७॥
साम्प्रतं शाधि मां ब्रह्मन् यत्कृत्यं तद् वद प्रभो।
कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम्॥२८॥
ऋषिरुवाच
चैत्रमासस्य रम्भोरु शुक्लपक्षोऽस्ति साम्प्रतम्।
कामदैकादशी नाम पापघ्नी ललिते परा॥२९॥
कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम्।
अस्य व्रतस्य यत् पुण्यं तत् स्वभर्त्रे प्रदीयताम्॥३०॥
दत्ते पुण्येक्षणात् तस्य शापदोषः प्रयास्यति।
इति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताऽभवत्॥३१॥
उपोष्यैकादशीं राजन् द्वादशीदिवसे तथा।
विप्रस्यैव समीपे तद् वासुदेवस्य चाग्रतः॥३२॥
वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै।
मया तु तद् व्रतं चीर्णं कामदाया उपोषणम्॥३३॥
तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता।
ललितावचनादेव वर्तमानोऽपि तत्क्षणे॥३४॥
गतपापः स ललितो दिव्यदेहो बभूव ह।
राक्षसत्वं गतं तस्य प्राप्ता गन्धर्वता पुनः॥३५॥
हेमरत्नसमाकीर्णो रेमे ललितया सह।
विमानवरमारूढौ पूर्वरूपाधिकौ च तौ॥३६॥
दम्पती अत्यशोभेतां कामदायाः प्रभावतः।
इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः॥३७॥
लोकानां तु हितार्थाय तवाग्रे कथिता मया।
ब्रह्महत्यादि पापघ्नी पिशाचत्वविनाशनी॥३८॥
नातः परतरा काचित् त्रैलोक्ये सचराचरे।
पठनाच्छ्रवणाद् राजन् वाजपेयफलं लभेत्॥३९॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे चैत्र-शुक्ल-कामदा-एकादशी-माहात्म्यं नाम एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀