चैत्र-कृष्ण-पापमोचनी-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ अष्टचत्वारिंशोऽध्यायः॥४८
युधिष्ठिर उवाच
फाल्गुनस्य सिते पक्षे श्रुता चाऽऽमलकी तथा।
चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत्॥१॥
श्रीकृष्ण उवाच
शृणु राजेन्द्र वक्ष्यामि आख्यानं पापनाशनम्।
यल्लोमशोऽब्रवीत् पृष्टो मान्धात्रा चक्रवर्तिना॥२॥
मान्धातोवाच
भगवन् श्रोतुमिच्छामि लोकानां हितकाम्यया।
चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत्।
को विधिः किं फलं तस्याः कथयस्व प्रसादतः॥३॥
लोमश उवाच
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी।
एकादशी समाख्याता पिशाचत्वविनाशिनी॥४॥
शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप।
कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम्॥५॥
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते।
वसन्तसमये प्राप्ते षट्पदाकुलिते वने॥६॥
गन्धर्वकन्यावादित्रै रमन्ति सह किन्नरैः।
पाकशासनमुख्याश्च क्रीडान्ते त्रिदिवौकसः॥७॥
नापरं सुखदं किञ्चिद् विना चैत्ररथाद् वनम्।
तस्मिन् वने तु मुनयस्तपन्ति बहुलं तपः॥८॥
मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम्।
अप्सरास्तं मुनिवरं मोहनायोपचक्रमे॥९॥
मञ्जुघोषेति विख्याता भावं तस्य वितन्वती।
क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ॥१०॥
गायन्ती मधुरं साधु पीडयन्ती विपञ्चिकाम्।
गायन्तीं तामथाऽऽलोक्य पुष्पचन्दनसेविताम्॥११॥
कामोऽपि विजयाकाङ्क्षी शिवभक्तान् मुनीश्वरान्।
तस्याः शरीरे संवासमकरोन्मनसः सुतः॥१२॥
कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम्।
मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम्॥१३॥
कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे।
मञ्जुघोषाऽभवत् तस्य कामस्यैव वरूथिनी॥१४॥
मेधाविनं मुनिं दृष्ट्वा साऽपि कामेन पीडिता।
यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते॥१५॥
सितोपवीतसहितो दृष्टः स्मर इवापरः।
मेधावी वसते चासौ च्यवनस्याऽऽश्रमे शुभे॥१६॥
मञ्जुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुङ्गवम्।
मदनस्य वशं प्राप्ता मन्दं मन्दमगायत॥१७॥
रणद्वलयसंयुक्तां शिञ्जन्नूपुरमेखलाम्।
गायन्तीं तां तथाभूतां विलोक्य मुनिपुङ्गवः॥१८॥
मदनेन ससैन्येन नीतो मोहवशं बलात्।
मञ्जुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम्॥१९॥
हावभावकटाक्षैस्तं मोहयामास चाङ्गना।
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम्॥२०॥
वलितेव लता वृक्षं वातवेगेन कम्पितम्।
सोऽपि रेमे तया सार्धं मेधावी मुनिपुङ्गवः॥२१॥
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम्।
शिवतत्त्वं गतं तस्य कामतत्त्ववशं गतः॥२२॥
न निशां न दिनं सोऽपि रमञ्जानाति कामुकः।
बहुवर्षं गतः कालो मुनेराचारलोपतः॥२३॥
मञ्जुघोषा देवलोकगमनायोपचक्रमे।
गच्छन्ती तं प्रत्युवाच रमन्तं मुनिसत्तमम्।
आदेशो दीयतां ब्रह्मन् स्वदेशगमनाय मे॥२४॥
मेधाव्युवाच
अद्यैव त्वं समायाता प्रदोषादौ वरानने।
यावत् प्रभातसन्ध्या स्यात्तावत्तिष्ठ ममान्तिके।
इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा॥२५॥
पुनर्वै रमयामास तमृषिं नृपसत्तम।
मुनेः शापभयाद् भीता बहुलान् परिवत्सरान्॥२६॥
वर्षाणां पञ्चपञ्चाशन्नवमासदिनत्रयम्।
सा रेमे मुनिना तस्य निशार्धमिव चाभवत्॥२७॥
सा तं पुनरुवाचाथ तस्मिन् काले गते मुनिम्।
आदेशो दीयतां ब्रह्मन् गन्तव्यं स्वगृहे मया॥२८॥
मेधाव्युवाच
प्रभातमधुना चास्ते श्रूयतां वचनं मम।
सन्ध्या यावच्च कुर्वेऽहं तावत् त्वं वै स्थिरा भव॥२९॥
इति वाक्यं मुनेः श्रुत्वा जातानन्दसमाकुला।
स्मितं कृत्वा तु सा किञ्चित् प्रत्युवाच शुचिस्मिता॥३०॥
अप्सरा उवाच
कियत् प्रमाणा विप्रेन्द्र तव सन्ध्या गतानघ।
मयि प्रसादं कृत्वा तु गतकालो विचार्यताम्॥३१॥
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः।
गतकालस्य विप्रेन्द्र प्रमाणमकरोत्तदा॥३२॥
समाश्च सप्तपञ्चाशद्गतास्तस्य तया सह।
चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह॥३३॥
नेत्राभ्यां विस्फुलिङ्गान् स मुञ्चमानोऽतिकोपनः।
कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम्॥३४॥
दुःखार्जितं क्षयं नीतं तपो दृष्ट्वा तया सह।
सकम्पोष्ठो मुनिस्तत्र प्रत्युवाचाऽऽकुलेन्द्रियः॥३५॥
तां शशापाथ मेधावी त्वं पिशाची भवेति च।
धिक् त्वां पापे दुराचारे कुलटे पातकप्रिये॥३६॥
तस्य शापेन सा दग्धा विनयावनता स्थिता।
उवाच वचनं सुभ्रूः प्रसादं वाञ्छती मुनिम्।
प्रसादं कुरु विप्रेन्द्र शापस्यानुग्रहं कुरु॥३७॥
सतां सङ्गो हि भवति वचोभिः सप्तभिः पदैः।
त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः।
एतस्मात् कारणात् स्वामिन् प्रसादं कुरु सुव्रत॥३८॥
मुनिरुवाच
शृणु मे वचनं भद्रे शापानुग्रहकारकम्।
किं करोमि त्वया पापे क्षयं नीतं महत्तपः॥३९॥
चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा।
पापमोचनिका नाम सर्वपापक्षयङ्करी॥४०॥
तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति।
इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम्॥४१॥
तमागतं समालोक्य च्यवनः प्रत्युवाचतम्।
किमेतद् विहितं पुत्र त्वया पुण्यं क्षयं कृतम्॥४२॥
मेधाव्युवाच
पातकं वै कृतं तात रमिता चाप्सरा मया।
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत्॥४३॥
च्यवन उवाच
चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी।
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत्॥४४॥
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम्।
गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः॥४५॥
साप्येवं मञ्जुघोषा च कृत्वैतद् व्रतमुत्तमम्।
पिशाचत्वाद् विनिर्मुक्ता पापमोचनिकाव्रतात्।
दिव्यरूपधरा सा वै गता नाके वराप्सराः॥४६॥
लोमश उवाच
पापमोचनिकां राजन् ये कुर्वन्ति नरोत्तमाः।
तेषां पापं च यत् किञ्चित् तत् सर्वं च क्षयं व्रजेत्॥४७॥
पठनाच्छ्रवणाद् राजन् गोसहस्रफलं लभेत्।
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः॥४८॥
व्रतस्य चास्य करणात् पापमुक्ता भवन्ति ते।
बहुपुण्यप्रदं ह्येतत् करणाद् व्रतमुत्तमम्॥४९॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे चैत्र-कृष्ण-पापमोचनी-एकादशी-माहात्म्यं नाम अष्टचत्वारिंशोऽध्यायः॥४८॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀