फाल्गुन-शुक्लामलक्येकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ सप्तचत्वारिंशोऽध्यायः॥४७
श्रीकृष्ण उवाच
माहात्म्यं विजयायाश्च श्रुतं कृष्ण महत्फलम्।
फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना॥१॥
श्रीकृष्ण उवाच
धर्मपुत्र महाभाग शृणु वक्ष्यामि तेऽधुना।
योक्ता पृष्टेन मान्धात्रा वसिष्ठेन महात्मना॥२॥
फाल्गुनस्य विशेषेण विशेषः कथितो नृप।
आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम्॥३॥
आमलक्यास्तले गत्वा जागरं तत्र कारयेत्।
कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत्॥४॥
मान्धातोवाच
आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम।
एतत् सर्वं ममाऽऽचक्ष्व परं कौतूहलं हि मे॥५॥
कस्मादियं पवित्रा च कस्मात् पापप्रणाशिनी।
कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत्॥६॥
वसिष्ठ उवाच
कथयामि महाभाग यथेयमभवत्क्षितौ।
आमलकी महावृक्षः सर्वपापप्रणाशनः॥७॥
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे॥८॥
तत्र देवादिदेवेशः परमात्मा सनातनः।
जगाम ब्रह्मपरममात्मनः पदमव्ययम्॥९॥
ततोऽस्य जाग्रतो ब्रह्ममुखाच्छशिसमप्रभः।
ष्ठीवनाद् बिन्दुरुत्पन्नः स भूमौ निपपात ह॥१०॥
तस्माद् बिन्दोः समुत्पन्नः स्वयं धात्री नगो महान्।
शाखाप्रशाखाबहुलः फलभारेण नामितः॥११॥
सर्वेषां चैव वृक्षाणामादिरोहः प्रकीर्तितः।
ब्रह्मणाऽथ ततः पश्चात् संसृष्टाश्च इमाः प्रजाः॥१२॥
देवदानवगन्धर्वयक्षराक्षसपन्नगान्।
असृजद् भगवान् देवो महर्षींश्च तथाऽमलान्॥१३॥
आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया।
तां दृष्ट्वा ते महाभाग परं विस्मयमागताः॥१४॥
न जानीम इमं वृक्षं चिन्तयन्तोऽभिसंस्थिताः।
एवं चिन्तयतां तेषां वागुवाचाशरीरिणी॥१५॥
आमलकी नगो ह्येष प्रवरो वैष्णवो मतः।
अस्य संस्मरणादेव लभेद् गोदानजं फलम्॥१६॥
स्पर्शनाद् द्विगुणं पुण्यं त्रिगुणं धारणात् तथा।
तस्मात् सर्वप्रयत्नेन सेव्या आमलकी सदा॥१७॥
सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी।
तस्या मूले स्थितो विष्णुस्तदूर्ध्वे च पितामहः॥१८॥
स्कन्धे च भगवान् रुद्रः संस्थितः परमेश्वरः।
शाखासु मुनयः सर्वे प्रशाखासु च देवताः॥१९॥
पर्णेषु चाऽऽसते देवाः पुष्पेषु मरुतस्तथा।
प्रजानां पतयः सर्वे फलेष्वेव व्यवस्थिताः॥२०॥
सर्वदेवमयी ह्येषा धात्री च कथिता मया।
तस्मात् पूज्यतमा ह्येषा विष्णुभक्तिपरायणैः॥२१॥
ऋषय ऊचुः
को भवान्न हि जानीमः कस्मात् कारणतां गतः।
देवो वा यदि वा चान्यः कथयस्व यथातथम्॥२२॥
वागुवाच
यः कर्ता सर्वभूतानां भुवनानां च सर्वशः।
विस्मितान् विदुषः प्रेक्ष्य सोऽहं विष्णुः सनातनः॥२३॥
तच्छ्रुत्वा देवदेवस्य भाषितं ब्रह्मणः सुताः।
अनादिनिधनं देवं स्तोतुं तत्र प्रचक्रमुः॥२४॥
नमो भूतात्मभूताय आत्मने परमात्मने।
अच्युताय नमो नित्यमनन्ताय नमो नमः॥२५॥
दामोदराय कवये यज्ञेशाय नमो नमः।
एवं स्तुतस्तु ऋषिभिस्तुतोष भगवान् हरिः॥२६॥
प्रत्युवाच महर्षींस्तानभीष्टं किं ददामि वः।
ऋषय ऊचुः
यदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया॥२७॥
व्रतं किञ्चित् समाख्याहि स्वर्गमोक्षफलप्रदम्।
धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम्॥२८॥
अल्पायासं बहुफलं व्रतानामुत्तमं व्रतम्।
कृतेन येन देवेश विष्णुलोके महीयते॥२९॥
विष्णुरुवाच
फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि।
भवेत् सा च महापुण्या महापातकनाशिनी॥३०॥
विशेषस्तत्र कर्तव्यः शृणुध्वं द्विजसत्तमाः।
आमलकीं च सम्प्राप्य जागरं तत्र कारयेत्॥३१॥
सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत्।
एतद् वः कथितं विप्रा व्रतानां व्रतमुत्तमम्।
अर्चयित्वाऽच्युतं तस्यां विष्णुलोकान्न मुच्यते॥३२॥
ऋषय ऊचुः
व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेत्।
के मन्त्राः के नमस्काराः देवता का प्रकीर्तिता॥३३॥
कथं दानं कथं स्नानं कश्च पूजाविधिः स्मृतः।
अर्घार्चनस्य मन्त्रं तु कथयस्व यथातथम्॥३४॥
विष्णुरुवाच
श्रूयतां यो विधिः सम्यग् व्रतस्यास्य द्विजर्षभाः।
एकादश्यां निराहारः स्थित्वा चैव परेऽहनि॥३५॥
भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत।
इति कृत्वा तु नियमं दन्तधावनपूर्वकम्॥३६॥
नाऽऽलपेत् पतितांश्चौरांस्तथा पाषण्डिनो नरान्।
दुर्वृत्तान् भिन्नमर्यादान् गुरुदारप्रधर्षकान्॥३७॥
अपराह्णे ततः स्नानं विधिना कारयेद् बुधः।
नद्यां तडागे कूपे वा गृहे वा नियतात्मवान्॥३८॥
मृत्तिकालम्भनं पूर्वं ततः स्नानं च कारयेत्।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे॥३९॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्॥४०॥
[इति मृत्तिकामन्त्रः]
त्वमम्बु सर्वभूतानां जीवनं तनुरक्षकम्।
स्वेदजोद्भिजजातीनां रसानां पतये नमः॥४१॥
स्नातोऽहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च।
नदीषु देवखातेषु इदं स्नानं तु मे भवेत्॥४२॥
[इति स्नानमन्त्रः]
जामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयम्।
मासकस्य सुवर्णस्य तदर्धार्धेन वा पुनः॥४३॥
गृहमागत्य पूजायाः पूजाहोमं तु कारयेत्।
ततश्चाऽऽमलकीं गच्छेत् सर्वोपस्करसंयुतः॥४४॥
आमलकीं ततो गत्वा परिशोध्य समन्ततः।
स्थापयेत् सततं कुम्भमव्रणं मन्त्रपूर्वकम्॥४५॥
पञ्चरत्नसमोपेतं दिव्यगन्धाधिवासितम्।
छत्रोपानद्युगोपेतं सितचन्दनचर्चितम्॥४६॥
स्रग्दामलम्बितग्रीवं सर्वधूपविधूपितम्।
दीपमालाकुलं कुर्यात् सर्वतः सुमनोहरम्॥४७॥
तस्योपरि न्यसेत् पात्रं दिव्यलाजैः प्रपूरितम्।
पात्रोपरि न्यसेद् देवं जामदग्न्यं महाप्रभम्॥४८॥
विशोकाय नमः पादौ जानुनी विश्वरूपिणे।
उग्राय च ततोऽप्यूरू कटी दामोदराय च॥४९॥
उदरं पद्मनाभाय उरः श्रीवत्सधारिणे।
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः॥५०॥
वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै।
नासां विशोकनिधये वासुदेवाय चाक्षिणी॥५१॥
ललाटं वामनायेति रामायेति भ्रुवौ नमः।
सर्वात्मने तु तच्छीर्षं नम इत्यभिपूजयेत्॥५२॥
[इति पूजामन्त्रः]
ततो देवाधिदेवाय अर्घ्यं चैव प्रदापयेत्।
फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा॥५३॥
नमस्ते देवेदेवेश जामदग्न्य नमोऽस्तु ते।
गृहाणार्घ्यमिमं दत्तमामलक्या युतो हरेः॥५४॥
[इत्यर्घ्यमन्त्रः]
ततो जागरणं कुर्याद् भक्तियुक्तेन चेतसा।
नृत्यैर्गीतैश्च वादित्रैर्धर्माख्यानैः स्तवैरपि॥५५॥
वैष्णवैश्च तथाऽऽख्यानैः क्षपयेत् सर्वशर्वरीम्।
प्रदक्षिणां ततः कुर्याद् धात्र्या वै विष्णुनामभिः॥५६॥
अष्टाधिकं शतं चैव अष्टाविंशतिरेव वा।
ततः प्रभाते समये कृत्वा नीराजनं हरेः॥५७॥
ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत्।
जामदग्न्यं घटं तत्र वस्त्रयुग्ममुपानहौ॥५८॥
जामदग्न्यस्वरूपेण प्रीयतां मम केशवः।
ततश्चाऽऽमलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम्॥५९॥
स्नानं कृत्वा विधानेन ब्राह्मणान् भोजयेत् ततः।
ततश्च स्वयमश्नीयात् कुटुम्बेन समावृतः॥६०॥
एवं कृतेन यत् पुण्यं तत् सर्वं कथयामि ते।
सर्वतीर्थेषु यत् पुण्यं सर्वदानेषु यत्फलम्॥६१॥
सर्वयज्ञाधिकं चैव लभते नात्र संशयः।
एतद् वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम्॥६२॥
एतावदुक्त्वा देवेशस्तत्रैवान्तरधीयत।
ते चापि ऋषयः सर्वे चक्रुः सर्वमशेषतः॥६३॥
तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम।
व्रतमेतद्दुराधर्षं सर्वपापप्रमोचनम्॥६४॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे फाल्गुन-शुक्लामलक्येकादशी-माहात्म्यं नाम सप्तचत्वारिंशोऽध्यायः॥४७॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀