फाल्गुन-कृष्ण-विजया-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ षट्चत्वारिंशोऽध्यायः॥४६

युधिष्ठिर उवाच

फाल्गुनस्यासिते पक्षे किं नामैकादशी भवेत्।
कथयस्व प्रसादेन वासुदेव ममाग्रतः॥१॥

श्रीकृष्ण उवाच

नारदः परिपप्रच्छ ब्रह्माणं कमलासनम्।
फाल्गुनस्यासिते पक्षे विजया नाम नामतः।
तस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः॥२॥

ब्रह्मोवाच

शृणु नारद वक्ष्यामि कथां पापहरां पराम्।
यन्न कस्यचिदाख्यातं मयैतद् विजयाव्रतम्॥३॥
पुरातनं व्रतं ह्येतत् पवित्रं पापनाशनम्।
जयं ददाति विजया नृपाणां वै न संशयः॥४॥
पुरा रामो वनं यातो वर्षाण्येव चतुर्दश।
न्यवसत् पञ्चवट्यां तु सहसीतः सलक्ष्मणः॥५॥
तत्रैव वसतस्तस्य रामस्य विजयात्मनः।
रावणेन हृता लौल्याद् भार्या सीता तपस्विनी॥६॥
तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा।
भ्रमन् जटायुषमथो ददर्श विगतायुषम्॥७॥
कबन्धो निहतः पश्चाद् भ्रमतारण्यमध्यतः।
सुग्रीवेण समं तस्य सखित्वं समपद्यत॥८॥
वानराणामनीकानि रामार्थंसङ्गतानि च।
ततो हनुमता दृष्टा लङ्कोद्याने तु जानकी॥९॥
रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतम्।
पुनः समेत्य रामेण सर्वं तत्र निवेदितम्॥१०॥
अथ श्रुत्वा रामचन्द्रो वाक्यं चैव हनूमतः।
सुग्रीवानुमतेनैव प्रस्थानं समरोचयत्॥११॥

श्रीराम उवाच

सौमित्रे केन पुण्येन तीर्यते वरुणालयः।
अगाधो नितरामेष यादोभिश्च समाकुलः॥१२॥
उपायं नैव पश्यामि येनासौ सुतरो भवेत्॥१३॥

लक्ष्मण उवाच

आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः।
बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः॥१४॥
अस्मात् स्थानाद्योजनार्धमाश्रमस्तस्य राघव।
अन्ये च ब्राह्मणास्तत्र बहवो रघुनन्दन।
तं पृच्छ गत्वा राजेन्द्र पुराणमृषिपुङ्गवम्॥१५॥

ब्रह्मोवाच

इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम्।
जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम्॥१६॥
प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः।
ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम्॥१७॥
केनापि कारणेनैव प्रविष्टो मानुषीं तनुम्।
उवाच स ऋषिस्तुष्टः कुतो राम तवाऽऽगमः॥१८॥

श्रीराम उवाच

त्वत्प्रसादादहं विप्र तीरं नदनदीपतेः।
आगतोऽस्मि ससैन्योऽत्र लङ्कां जेतुं सराक्षसाम्॥१९॥
भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मया।
तमुपायं वद मुने प्रसादं कुरु साम्प्रतम्।
एतस्मात् कारणादेव द्रष्टुं त्वाहमिहाऽऽगतः॥२०॥

ब्रह्मोवाच

रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः।
उवाच सुप्रसन्नात्मा रामं राजीवलोचनम्॥२१॥

बकदाल्भ्य उवाच

कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम्।
कृतेन येन सहसा विजयस्ते भविष्यति॥२२॥
लङ्कां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि।
एकाग्रमानसो भूत्वा व्रतमेतत् समाचर॥२३॥
फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत्।
तस्या व्रतेन हे राम विजयस्ते भविष्यति॥२४॥
निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः।
विधिस्तु श्रूयतां राजन् व्रतस्यास्य फलप्रदः॥२५॥
दशम्यां दिवसे प्राप्ते कुम्भमेकं तु कारयेत्।
हैमं वा राजतं वाऽपि ताम्रं वाऽप्यथ मृन्मयम्॥२६॥
स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम्।
तस्योपरि न्यसेद् देवं हैमं नारायणं प्रभुम्॥२७॥
एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत्।
निश्चलं स्थापयेत् कुम्भं कण्ठमाल्यानुलेपनैः॥२८॥
पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः।
सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत्॥२९॥
गन्धैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि।
कुम्भाग्रे तद् दिनं राम नीयते सत्कथादिभिः॥३०॥
रात्रौ जागरणं चैव तस्याग्रे कारयेद् बुधः।
प्रकाशयेद् घृतदीपमखण्डव्रतहेतवे॥३१॥
द्वादशीदिवसे प्राप्ते मार्तण्डस्योदये सति।
नीत्वा कुम्भं जलोद्देशे नद्याः प्रस्रवणे तथा॥३२॥
तडागे स्थापयित्वा तं पूजयित्वा यथाविधि।
दद्यात् सदेवं तं कुम्भं ब्राह्मणे वेदपारगे॥३३॥
कुम्भेन सह राजेन्द्र महादानानि दापयेत्।
अनेन विधिना राम यूथपैः सह सङ्गतः।
कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति॥३४॥

ब्रह्मोवाच

इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा।
कृते व्रते स विजयी बभूव रघुनन्दनः॥३५॥
प्राप्ता सीता जिता लङ्का पौलस्त्यो निहतो रणे।
अनेन विधिना पुत्र ये कुर्वन्ति नरा व्रतम्।
इह लोके जयप्राप्तिः परलोकस्तथाऽक्षयः॥३६॥

श्रीकृष्ण उवाच

एतस्मात् कारणात् पुत्र कर्तव्यं विजयाव्रतम्।
विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम्।
पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत्॥३७॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे फाल्गुन-कृष्ण-विजया-एकादशी-माहात्म्यं नाम षट्चत्वारिंशोऽध्यायः॥४६॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥