माघ-शुक्ल-जया-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ पञ्चचत्वारिंशोऽध्यायः॥४५
युधिष्ठिर उवाच
साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान् प्रभो।
स्वेदजा अण्डजाश्चैव उद्भिज्जाश्च जरायुजाः॥१॥
तेषां कर्ता विकर्ता त्वं पालकः क्षयकारकः।
माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया॥२॥
शुक्ले च का भवेद् देव कथयस्व प्रसादतः।
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते॥३॥
श्रीकृष्ण उवाच
कथयिष्यामि राजेन्द्र शुक्ले माघस्य या भवेत्।
जया नामेति विख्याता सर्वपापहरा परा॥४॥
पवित्रा पापहन्त्री च कामदा मोक्षदा नृणाम्।
ब्रह्महत्यापहन्त्री च पिशाचत्वविनाशिनी॥५॥
नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम्।
नातः परतरा काचित् पापघ्नी मोक्षदायिनी॥६॥
एतस्मात् कारणाद् राजन् कर्तव्या सा प्रयत्नतः।
श्रूयतां राजशार्दूल कथा पौराणिकी शुभा॥७॥
पङ्कजे च पुराणेऽस्या महिमा कथितो मया।
एकदा नाकलोके वै इन्द्रो राज्यं चकार ह॥८॥
देवास्तत्र सुखेनैव निवसन्ति मनोरमे।
पीयूषपाननिरता अप्सरोगणसेविताः॥९॥
नन्दनं तु वनं तत्र पारिजातोपसेवितम्।
रमयन्ति रमन्तेऽत्र अप्सरोभिर्दिवौकसः॥१०॥
एकदा रममाणोऽसौ देवेन्द्रः स्वेच्छया नृप।
नर्तयामास वै हर्षात् पञ्चाशत्कोटिनायकः॥११॥
गन्धर्वास्तत्र गायन्ति गन्धर्वः पुष्पदन्तकः।
चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा॥१२॥
मालिनीति च नाम्ना तु चित्रसेनस्य योषिता।
मालिन्यास्तु समुत्पन्ना पुष्पदन्ती च नामतः॥१३॥
पुष्पदन्तस्य पुत्रोऽसौ माल्यवान्नाम नामतः।
पुष्पदन्त्याश्च रूपेण माल्यवानतिमोहितः॥१४॥
तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः।
लावण्यं रूपसम्पन्नं तस्या रूपं निशामय॥१५॥
बाहू तस्याश्च कामेन कण्ठपाशौ कृताविव।
कर्णायते तु नयने रक्तान्ते घूर्णिते तथा॥१६॥
कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम।
कम्बुग्रीवायुता सैव दिव्याभरणभूषिता॥१७॥
पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव।
मध्यं क्षामं च चार्वङ्ग्या मुष्टिग्राह्यमनुत्तमम्॥१८॥
नितम्बौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली।
चरणौ शोभमानौ च रक्तोत्पलसमद्युती॥१९॥
ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः।
शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ॥२०॥
गायमानौ तु तौ तत्र अप्सरोगणसेवितौ।
मदनाभिपरीताङ्गौ पुष्पदन्ती च माल्यवान्॥२१॥
परस्परानुरागेण व्यामोहवशमागतौ।
न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ॥२२॥
बद्धदृष्टी तथाऽन्योन्यं कामबाणवशं गतौ।
ज्ञात्वा लेखर्षभस्तत्र सङ्गतं मानसं तयोः॥२३॥
तालक्रियामानलोपात् तथा गीतविसर्जनात्।
चिन्तयित्वा तु मघवा ह्यवमानं तथाऽऽत्मनः॥२४॥
कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ।
धिग्धिग्वां पतितौ मूढावाज्ञाभङ्ग कृतौ मम॥२५॥
युवां पिशाचौ भवतां दम्पतीभावधारिणौ।
मर्त्यलोकमनुप्राप्तौ भुञ्जानौ कर्मणः फलम्॥२६॥
एवं मघवता शप्तावुभौ दुःखितमानसौ।
हिमवन्तं गिरिं प्राप्ताविन्द्रशापाद्विमोहितौ॥२७॥
उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च।
सन्तप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ॥२८॥
गन्धर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ।
पीड्यमानौ निदाघेन देहपातकजेन च॥२९॥
न निशायां सुखं शान्तिं लभेते कर्मपीडितौ।
परस्परं वादमानौ चेरतुर्गिरिगह्वरे॥३०॥
पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ।
दन्तघर्षं प्रकुर्वाणौ रोमाञ्चितवपुर्धरौ॥३१॥
ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम्।
किमनल्पकृतं पापं दारुणं रोमहर्षणम्॥३२॥
येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा।
नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम्॥३३॥
तस्मात् सर्वप्रयत्नेन पातकं न समाचरेत्।
इति चिन्तापरौ तत्र तावास्तां दुःखकर्षितौ॥३४॥
दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः।
जयानामेति विख्याता तिथीनामुत्तमा तिथिः॥३५॥
तस्मिन् दिने तु सम्प्राप्ते तावाहारविवर्जितौ।
आसाते तत्र नृपते जलपानविवर्जितौ॥३६॥
न कृतो जीवघातश्च न पत्रफलभक्षणम्।
अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ॥३७॥
रविरस्तङ्गतो राजंस्तथैव स्थितयोस्तयोः।
प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी॥३८॥
वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ।
परस्परेण संलग्नौ गात्रयोर्भुजयोरपि॥३९॥
न निद्रा न रतं तत्र न तौ सौख्यमविन्दताम्।
एवं तौ राजशार्दूल शापेनेन्द्रस्य पीडितौ॥४०॥
इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी।
मार्तण्ड उदयं प्राप्तो द्वादशी दिवसागमे॥४१॥
मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि।
जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम्॥४२॥
तस्माद् व्रतप्रभावाच्च यथाजातं तथा शृणु।
द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते॥४३॥
विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम्।
पुष्पदन्ती माल्यवतौ पूर्वरूपौ बभूवतुः॥४४॥
पुरातनस्नेहयुतौ पूर्वालङ्कारधारिणौ।
विमानमधिरूढौ तौ गतौ नाके मनोरमे॥४५॥
देवेन्द्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा।
तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत्॥४६॥
इन्द्र उवाच
वद तं केन पुण्येन पिशाचत्वं हि वां गतौ।
मम शापं च सम्प्राप्तौ केन देवेन मोचितौ॥४७॥
माल्यवानुवाच
वासुदेवप्रसादेन जयायास्तु व्रतेन च।
पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः॥४८॥
इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा।
पवित्रौ पावनौ जातौ वन्दनीयौ ममापि च॥४९॥
हरिवासरकर्तारौ विष्णुभक्तिपरायणौ।
हरिवासरलीना ये ये च कृष्णपरायणाः॥५०॥
अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः।
विहरस्व यथासौख्यं पुष्पदन्त्या सुरालये॥५१॥
कृष्ण उवाच
एतस्मात् कारणाद् राजन् कर्तव्यो हरिवासरः।
जया तु राजशार्दूल ब्रह्महत्यापहारिणी॥५२॥
सर्वदानानि तेनैव सर्वयज्ञान्यशेषतः।
दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम्॥५३॥
कल्पकोटिं वसेत् तावद् वैकुण्ठे मोदते ध्रुवम्।
पठनाच्छ्रवणाद् राजन्नग्निष्टोमफलं लभेत्॥५४॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे माघ-शुक्ल-जया-एकादशी-माहात्म्यं नाम पञ्चचत्वारिंशोऽध्यायः॥४५॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀