माघ-कृष्ण-षट्तिला-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ चतुश्चत्वारिंशोऽध्यायः॥४४
युधिष्ठिर उवाच
साधु कृष्ण जगन्नाथ आदिदेव जगत्पते।
कथयस्व प्रसादेन कृपां कुरु ममोपरि॥१॥
माघस्य कृष्णपक्षे तु का वा चैकादशी भवेत्।
किं नाम को विधिस्तस्या एतद्विस्तरतो वद॥२॥
श्रीभगवानुवाच
शृणु त्वं नृपशार्दूल कृष्णमाघस्य या भवेत्।
षट्तिला नाम विख्याता सर्वपापप्रणाशिनी॥३॥
षट्तिलायाः शृणुष्व त्वं कथां पापहरां शुभाम्।
यां पुलस्त्यो मुनिश्रेष्ठो दाल्भ्यं प्रति समुक्तवान्॥४॥
दाल्भ्य उवाच
मर्त्यलोकमनुप्राप्ताः पापं कुर्वन्ति जन्तवः।
ब्रह्महत्यादिपापैश्च युक्ता ये गोवधादिभिः॥५॥
परद्रव्यापहाराश्च परव्यसनमोहिताः।
कथं न यान्ति नरकं ब्रह्मंस्तद् ब्रूहि तत्त्वतः॥६॥
अनायासेन भगवन् दानेनाल्पेन केनचित्।
पापं प्रशमनं याति एतन्मे वक्तुमर्हसि॥७॥
पुलस्त्य उवाच
साधु साधु महाभाग गुह्यमेतत् सुदुर्लभम्।
यन्न कस्यचिदाख्यातं विष्णुब्रह्मेन्द्रदैवतैः॥८॥
तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम।
माघमासे तु सम्प्राप्ते शुचिस्नातो जितेन्द्रियः॥९॥
कामक्रोधाभिमानेर्ष्यालोभपैशुन्यवर्जितः।
देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिभिः॥१०॥
भूमावपतितं गृह्य गोमयं तत्र मानवः।
तिलान् प्रक्षिप्य कार्पांसं पिण्डिकाश्चैव कारयेत्॥११॥
अष्टोत्तरशतं चैव नात्र कार्या विचारणा।
ततो माघे च सम्प्राप्ते ह्याषाढर्क्षं भवेद्यदि॥१२॥
मूलं वा कृष्णपक्षस्यैकादशी नियमांस्ततः।
गृह्णीयात् पुण्यकाले च विधानं तत्र मे शृणु॥१३॥
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः।
कृष्णनामानि सङ्कीर्त्य पुनः प्रस्खलितादिषु॥१४॥
रात्रौ जागरणं कुर्यादादौ होमं च कारयेत्।
अर्चयेद् देवदेवेशं द्वितीयेऽह्नि पुनर्हरिम्॥१५॥
चन्दनागुरुकर्पूरैर्नैवेद्यं कृसरं तथा।
संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः॥१६॥
कूष्माण्डैर्नारिकेरैश्च ह्यथवा बीजपूरकैः।
सर्वाभावेऽपि विप्रेन्द्र शस्तपूगफलैर्वृतम्।
अर्घं दद्याद्विधानेन पूजयित्वा जनार्दनम्॥१७॥
कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव।
संसारार्णवमग्नानां प्रसीद पुरुषोत्तम॥१८॥
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज।
गृहाणार्घ्यं मया दत्तं लक्ष्म्या सह जगत्पते॥१९॥
[इत्यर्घमन्त्रः]
ततस्तु पूजयेद्विप्रमुदकुम्भं प्रदापयेत्।
छत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति॥२०॥
कृष्णा धेनुः प्रदातव्या यथाशक्ति द्विजोत्तमे।
तिलपात्रं द्विजश्रेष्ठ दद्यात् पात्रविचक्षणः॥२१॥
स्नाने प्राशनके शस्तास्तथा कृष्णतिला मुने।
तान् प्रदद्यात् प्रयत्नेन यथाशक्ति द्विजोत्तमे॥२२॥
तिलप्ररोहजाः क्षेत्रे यावत् सङ्ख्यास्तिला द्विज।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते॥२३॥
तिलस्नायी तिलोद् वर्ती तिलहोमी तिलोदकी।
तिलदाता च भोक्ता च षट्तिला पापनाशिनी॥२४॥
नारद उवाच
कृष्ण कृष्ण महाबाहो नमस्ते विश्वभावन॥२५॥
षट्तिलैकादशीभूतं कीदृशं फलमस्ति वै।
सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव॥
श्रीकृष्ण उवाच
शृणु राजन् यथावृत्तं दृष्टं तत्कथयामि ते।
मर्त्यलोके पुरा ह्यासीद् ब्राह्मण्येका च नारद।
व्रतचर्यारता नित्यं देवपूजारता सदा॥२६॥
मासोपवासनिरता मम भक्ता च सर्वदा।
कृष्णोपवाससंयुक्ता मम पूजापरायणा॥२७॥
शरीरं क्लेशितं चैव उपवासैर्द्विजोत्तम।
देवानां ब्राह्मणानां च कुमारीणां च भक्तितः॥२८॥
गृहादिकं प्रयच्छन्ती सर्वकालं महासती।
अतिकृच्छ्ररता सा तु सर्वकालं तु वै द्विज॥२९॥
न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः॥३०॥
ततः कालेन महता मया वै चिन्तितं द्विज।
शुद्धमस्याः शरीरं हि व्रतैः कृच्छ्रैर्न संशयः॥३१॥
अर्चितो वैष्णवो लोकः कायक्लेशेन वै तया।
न दत्तमन्नदानं हि येन तृप्तिः परा भवेत्॥३२॥
एवं ज्ञात्वा अहं ब्रह्मन् मर्त्यलोकमुपागतः।
कापालं रूपमास्थाय भिक्षापात्रे च याचिता॥३३॥
कस्मात् त्वमागतो ब्रह्मन् क्व यासि वद मेऽग्रतः।
पुनरेव मया प्रोक्तं देहि भिक्षां च सुन्दरि॥३४॥
तया कोपेन महता मृत्पिण्डस्ताम्रभाजने।
क्षिप्तो यावदहं ब्रह्मन् पुनः स्वर्गं गतो द्विज॥३५॥
ततः कालेन महता तापसी सुमहाव्रता।
सदेहा स्वर्गमायाता व्रतचर्याप्रभावतः॥३६॥
मृत्पिण्डिकाप्रदानेन गृहं प्राप्तं मनोरमम्।
सञ्जातं चैव विप्रर्षे धान्यराशिविवर्जितम्॥३७॥
गृहं यावन्निरीक्षेत न किञ्चित् तत्र पश्यति।
तावद् गृहाद् विनिष्क्रान्ता ममान्ते चाऽऽगता द्विज॥३८॥
क्रोधेन महताऽऽविष्टमिदं वचनमब्रवीत्।
मया व्रतैश्च कृच्छ्रैश्च उपवासैरनेकशः॥३९॥
पूजयाऽऽराधितो देवः सर्वलोकस्य पालकः।
न तत्र दृश्यते किञ्चिद् गृहे मम जनार्दन॥४०॥
ततश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते।
आगमिष्यन्ति सुतरां कौतूहलसमन्विताः॥४१॥
देवपत्न्यो हि द्रष्टुं त्वां विस्मयाभिसमन्विताः।
द्वारं नोद्घाटय विना षट्तिलापुण्यवाचनात्॥४२॥
एवमुक्ता मया सा तु गता वै मानुषी तदा।
अत्रान्तरे समायाता देवपत्न्यश्च पाण्डव॥४३॥
ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः।
द्वारमुद्घाटयस्वाद्य त्वां प्रपश्याम शोभने॥४४॥
मानुष्युवाच
यदि मद्दर्शनं कार्यं सत्यं वाच्यं विशेषतः।
षट्तिलाया व्रतं पुण्यं द्वारोद्घाटनकारणात्॥४५॥
श्रीकृष्ण उवाच
एकाऽपि नावदत् तत्र षट्तिलैकादशीव्रतम्।
अन्यया कथितं तत्र द्रष्टव्या मानुषी मया॥४६॥
ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी।
न देवी न च गन्धर्वी नासुरी न च पन्नगी॥४७॥
दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ।
देवीनामुपदेशेन षट्तिलाया व्रतं कृतम्॥४८॥
मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदम्।
रूपकान्तिसमायुक्ता क्षणेन समवाप सा॥४९॥
धनं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च।
भवनं सर्वसम्पन्नं षट्तिलायाः प्रभावतः॥५०॥
रूपकान्तिसमायुक्ता क्षणेन समपद्यत॥५१॥
अतितृष्णा न कर्तव्या वित्तशाठ्यं विवर्जयेत्।
आत्मवित्तानुसारेण तिलान् वस्त्राणि दापयेत्॥५२॥
लभते चैवमारोग्यं नरो जन्मनि जन्मनि।
न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च॥५३॥
सम्भवेद् वै द्विजश्रेष्ठ षट्तिलासमुपोषणात्।
अनेन विधिना भूप तिलदाता न संशयः॥५४॥
मुच्यते पातकैः सर्वैरनायासेन मानवः।
दानं च विधिवत् पात्रे सर्वपातकनाशनम्।
नानर्थः कश्चिन्नाऽऽयासः शरीरे नृपसत्तम॥५५॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे माघ-कृष्ण-षट्तिला-एकादशी-माहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः॥४४॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀