पौष-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ त्रिचत्वारिंशोऽध्यायः॥४३
युधिष्ठिर उवाच
कथिता वै त्वया कृष्ण सफलैकादशी शुभा।
कथयस्व प्रसादेन शुक्लपक्षस्य या भवेत्॥१॥
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते।
कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तमः॥२॥
श्रीकृष्ण उवाच
शृणु राजन् प्रवक्ष्यामि शुक्ला पौषस्य या भवेत्।
कथयामि महाराज लोकानां हितकाम्यया॥३॥
पूर्वेण विधिना राजन् कर्तव्यैषा प्रयत्नतः।
पुत्रदा नाम नाम्ना सा सर्वपापहरा परा॥४॥
नारायणोऽधिदेवोऽस्या कामदः सिद्धिदायकः।
नातः परतरा काचित् त्रैलोक्ये सचराचरे॥५॥
विद्यावन्तं यशस्वन्तं करोति च नरं हरिः।
शृणु राजन् प्रवक्ष्यामि कथां पापहरां पराम्॥६॥
भद्रावत्यां पुरा ह्यासीत् पुर्यां राजा सुकेतुमान्।
तस्य राज्ञस्तथा राज्ञी चम्पका नाम वर्तते॥७॥
पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः।
नैवाऽऽत्मजं नृपो लेभे वंशकर्तारमेव च॥८॥
तेनैव राज्ञा धर्मेण चिन्तितं बहुकालतः।
किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेत्॥९॥
न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान्।
साध्व्या स्वकान्तया सार्धं प्रत्यहं दुःखितोऽभवत्॥१०॥
तावुभौ दम्पती नित्यं चिन्ताशोकपरायणौ।
पितरोऽस्य जलं दत्तं कवोष्णमुपभुञ्जते॥११॥
राज्ञः पश्चान्न पश्यामो योऽस्माकं तर्पयिष्यति।
इत्येवं संस्मरन्तोऽस्य दुःखिताः पितरोऽभवन्॥१२॥
न बान्धवा न मित्राणि नामात्याः सुहृदस्तथा।
रोचयन्त्यस्य भूपस्य न गजाश्वाः पदातयः॥१३॥
नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्तते।
नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम्॥१४॥
अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा।
पितृदेवमनुष्याणां नानृणत्वं सुतं विना॥१५॥
तस्मात् सर्वप्रयत्नेन सुतमुत्पादयेन्नरः।
इह लोके यशस्तेषां परलोके शुभा गतिः॥१६॥
येषां तु पुण्यकर्तॄणां पुत्रजन्मगृहे भवेत्।
आयुरारोग्यसम्पत्तिस्तेषां गेहे प्रवर्तते॥१७॥
पुत्रजन्म गृहे येषां लोकानां पुण्यकारिणाम्।
पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप॥१८॥
पुत्राश्च सम्पदो वाऽपि निश्चयादिति मे मतिः।
एवं विचिन्त्यमानोऽसौ न शर्म लभते नृपः॥१९॥
प्रत्यूषे चिन्तयद्राजा निशीथे चिन्तयत्ततः।
स्वयमात्मविनाशं च चिन्तयामास केतुमान्॥२०॥
आत्मघाते दुर्गतिं च चिन्तयित्वा तदा नृपः।
दृष्ट्वाऽऽत्मदेहं पतितमपुत्रत्वं तथैव च॥२१॥
पुनर्विचार्याऽऽत्मबुद्ध्या आत्मनो हितकारणम्।
अश्वारूढस्ततो राजा जगाम गहनं वनम्॥२२॥
पुरोहितादयः सर्वे न जानन्ति गतं नृपम्।
गम्भीरे विपिने राजा मृगपक्षिनिषेविते॥२३॥
विचचार तदा राजा वनवृक्षान् विलोकयन्।
वटानश्वत्थबिल्वांश्च खर्जूरान् पनसांस्तथा॥२४॥
बकुलान् सप्तपर्णांश्च तिन्दुकांस्तिलकानपि।
शालांस्तालांस्तमालांश्च ददर्श सरलान्नृपः॥२५॥
इङ्गुदी ककुभांश्चैव श्लेष्मातकनगांस्तथा।
शल्लकान् करमर्दांश्च पाटलान्बदरानपि॥२६॥
अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि।
वनमार्जारमहिषान् शल्लकांश्चमरानपि॥२७॥
ददर्श भुजगान् राजा वल्मीकादर्धनिःसृतान्।
तथा वनगजान् मत्तान् कलभैः सह सङ्गतान्॥२८॥
यूथपांश्च चतुर्दन्तान् करिणीयूथमध्यगान्।
तान् दृष्ट्वा चिन्तयामास आत्मनः स गजान्नृपः॥२९॥
तेषां स विचरन्मध्ये राजा शोभामवाप ह।
महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः॥३०॥
मार्गे शिवारुतान् शृण्वन्नुलूकविरुतं तथा।
तांस्तानृक्षमृगान् पश्यन् बभ्राम वनमध्यतः॥३१॥
एवं ददर्श गहनं नृपो मध्यगते रवौ।
क्षुत्तृड्भ्यां पीडितो राजा इतश्चेतश्च धावति॥३२॥
नृपतिश्चिन्तयामास संशुष्कगलकन्धरः।
मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम्॥३३॥
मया वै तोषिता देवा यज्ञैः पूजाभिरेव च।
तथैव ब्राह्मणा दानैस्तोषिता मिष्टभोजनैः॥३४॥
प्रजाश्चैव सदा कालं पुत्रवत् पालिता भृशम्।
कस्माद्दुःखं मया प्राप्तमीदृशं दारुणं महत्॥३५॥
इति चिन्तापरो राजा जगामैवाग्रतो वनम्।
सुकृतस्य प्रभावेन सरो दृष्टमनुत्तमम्॥३६॥
मीनसंस्पर्शमानं च पद्मैश्चापरशोभितम्।
कारण्डैश्चक्रवाकैश्च राजहंसैश्च शोभितम्॥३७॥
मकरैर्बहुभिर्मत्स्यैरन्यैर्जलचरैर्युतम्।
समीपे सरसस्तस्य मुनीनामाश्रमान् बहून्॥३८॥
ददर्श राजा लक्ष्मीवान् शकुनैः शुभशंसिभिः।
दक्षिणं प्रास्फुरन्नेत्रमथ सव्येतरः करः॥३९॥
प्रास्फुरन्नृपतेस्तस्य कथयञ्शोभनं फलम्।
तस्य तीरे मुनीन् दृष्ट्वा कुर्वाणन्नैगमं जपम्॥४०॥
हर्षेण महताऽऽविष्टो बभूव नृपनन्दनः।
अवतीर्य हयात् तस्मान्मुनीनामग्रतः स्थितः॥४१॥
पृथक्पृथग्ववन्देऽसौ मुनींस्तान्शंसितव्रतान्।
कृताञ्जलिपुटो भूत्वा दण्डवच्च पुनः पुनः॥४२॥
प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपते वयम्।
राजोवाच
के भवन्तोऽत्र कथ्यन्तां का चाऽऽख्या भवतामपि।
किमर्थं सङ्गता यूयं सत्यं वदत मेऽग्रतः॥४३॥
मुनय ऊचुः
विश्वेदेवा वयं राजन् स्नानार्थमिह चागताः।
माघो निकटमायात एतस्मात् पञ्चमेऽहनि॥४४॥
अद्य चैकादशी राजन् पुत्रदा नाम नामतः।
पुत्रं ददात्यसौ विष्णुः पुत्रदा कारिणां नृणाम्॥४५॥
राजोवाच
एष वै संशयो मह्यं पुत्रस्योत्पादने महान्।
यदि तुष्टा भवन्तो वै पुत्रं मे दीयतां तदा॥४६॥
मुनिरुवाच
अद्यैव दिवसे राजन् पुत्रदा नाम वर्तते।
एकादशीति विख्यातं क्रियतां व्रतमुत्तमम्॥४७॥
अभिषेकात् ततोऽस्माकं केशवस्य प्रसादतः।
अवश्यं तव राजेन्द्र पुत्रप्राप्तिर्भविष्यति॥४८॥
इत्येवं वचनात् तेषां कृतं राज्ञा व्रतोत्तमम्।
मुनीनामुपदेशेन पुत्रदा या विधानतः॥४९॥
द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः।
आजगाम गृहं राजा राज्ञी गर्भमथाऽऽदधौ॥५०॥
पुत्रो जातः सूतिकाले तेजस्वी पुण्यकर्मणा।
पितरं तोषयामास प्रजापालो बभूव सः॥५१॥
तस्माद् राजन् प्रकर्तव्यं पुत्रदा व्रतमुत्तमम्।
लोकानां तु हितार्थाय तवाग्रे कथितं मया॥५२॥
एकचित्तास्तु ये मर्त्याः कुर्वन्ति पुत्रदा व्रतम्।
पुत्रान् प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः।
पठनाच्छ्रवणाद् राजन्नग्निष्टोमफलं लभेत्॥५३॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे पौष-शुक्ल-पुत्रदा-एकादशी-माहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः॥४३॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀