पौष-कृष्ण-सफला-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ द्विचत्वारिंशोऽध्यायः॥४२
युधिष्ठिर उवाच
पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत्।
किं नाम को विधिस्तस्या एतद्विस्तरतो वद।
एतदाख्याहि भो स्वामिन् को देवस्तत्र पूज्यते॥१॥
श्रीकृष्ण उवाच
कथयिष्यामि राजेन्द्र भवतः स्नेहबन्धनात्।
तुष्टिर्मे न तथा राजन् यज्ञैर्बहुलदक्षिणैः॥२॥
यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै।
तस्मात् सर्वप्रयत्नेन कर्तव्यो हरिवासरः॥३॥
सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद।
पौषस्य कृष्णपक्षे या सफला नाम नामतः॥४॥
तस्यां नारायणं देवं पूजयेच्च यथाविधि।
पूर्वेणैव विधानेन कर्तव्यैकादशी शुभा॥५॥
नागानां च यथा शेषो पक्षिणां पन्नगाशनः।
देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः॥६॥
व्रतानां च तथा राजन् श्रेष्ठा चैकादशी तिथिः।
ते जनाश्चैव भो राजन् पूज्या वै सर्वदा मम॥७॥
हरिवासरसंलीनाः कुर्वन्त्येकादशीव्रतम्।
इहैव धनसंयुक्ता मृता मोक्षं लभन्ति ते॥८॥
सफलायां फलै राजन् पूजयेन्नामतो हरिम्।
नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः॥९॥
जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः।
लवङ्गैर्बदरीभिश्च तथाऽऽम्रैश्च विशेषतः॥१०॥
पूजयेद् देवदेवेशं धूपदीपैस्तथैव च।
सफलायां विशेषेण दीपदानं तु कारयेत्॥११॥
रात्रौ जागरणं चैव कर्तव्यं सह वैष्णवैः।
यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि॥१२॥
एकाग्रमनसो राजन् तस्य पुण्यं शृणुष्व हि।
तत् समो नास्ति यज्ञो वै तीर्थं वा तत् समं नहि॥१३॥
सर्वव्रतानि राजेन्द्र कलां नार्हन्ति षोडशीम्।
एवं वर्षसहस्राणि तपसा नैव यत्फलम्॥१४॥
तत्फलं समवाप्नोति यः करोति हि जागरम्।
श्रूयतां राजशार्दूल सफलायाः कथा शुभा॥१५॥
चम्पावतीति विख्याता पुरी माहिष्मतस्य च।
बभूवुस्तस्य राजर्षेः पुत्राः पञ्च कुमारकाः॥१६॥
तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा।
परदाराभिचारी च वेश्यासक्तश्च मद्यपः॥१७॥
पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा
असद्वृत्तिरतो नित्यं भूसुराणां तु निन्दकः।
वैष्णवानां च देवानां नित्यं निन्दां करोति सः॥१८॥
ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः।
नाम्ना तु लुम्पक इति राजपुत्रेषु च व्यधात्॥१९॥
राज्यान्निष्कासितस्तेन पित्रा चैव तु बन्धुभिः।
स चैवं परिवारैस्तु त्यक्तश्च परिपन्थिवत्॥२०॥
लुम्पकोऽपि तथा त्यक्तश्चिन्तयामास वै तदा।
त्यक्तोऽहं बान्धवैः पित्रा राज्यान्निष्कासितः किल॥२१॥
इति सञ्चिन्त्यमानोऽसौ मतिं पापे तदाऽकरोत्।
मया गन्तव्यमेवास्तु दारुणे गहने वने॥२२॥
तस्माच्चैव पुरं सर्वं लुम्पयिष्यामि वै पितुः।
इत्येवं स मतिं कृत्वा लुम्पको दैवयोगतः॥२३॥
निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने।
जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः॥२४॥
सर्वं च नगरं तेन मुषितं पापकर्मणा।
स्तेयाभिगामी नगरे गृहीतः स निशाचरैः॥२५॥
उवाच तान् सुतोऽहं वै राज्ञो माहिष्मतस्य च।
स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः॥२६॥
आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे।
आश्रमस्तस्य दुष्टस्य वासुदेवस्य सन्निधौ॥२७॥
अश्वत्थो वर्तते तत्र जीर्णश्च बहुवार्षिकः।
देवत्वं तस्य वृक्षस्य विपिने वर्तते महत्॥२८॥
तत्रैव निवसंश्चैव लुम्पकः पापबुद्धिमान्।
गते बहुतिथे काले कस्यचित् पुण्यसञ्चयात्॥२९॥
पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा।
फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः॥३०॥
लुम्पको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः।
पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः॥३१॥
न निद्रा न सुखं तस्य गतप्राण इवाभवत्।
आछाद्य दशनैरास्यमेवं नीता निशाखिला॥३२॥
भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा।
लुम्पको गतसंज्ञस्तु सफलाया दिने तथा॥३३॥
रवौ मध्यङ्गते चैव संज्ञां लेभे स लुम्पकः।
इतस्ततो विलोक्याथ व्यथितश्च तदासनात्॥३४॥
स्खलत् पद्भ्यां प्रचलितः खञ्जन्निव मुहुर्मुहुः।
वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत्॥३५॥
न शक्तिर्जीवघाते तु लुम्पकस्य दुरात्मनः।
फलानि च तदा राजन् नाऽऽजहार स लुम्पकः॥३६॥
यावत्समागतस्तत्र तावदस्तं गतो रविः।
किं भविष्यति तातेति स विलापं चकार ह॥३७॥
फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत्।
इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः॥३८॥
इत्युक्त्वा लुम्पकश्चैव निद्रां लेभे न वै निशि।
रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः॥३९॥
फलैस्तु पूजनं मेने सफलायास्तथाऽनघ।
अकस्माद् व्रतमेवैतत् कृतवान् वै स लुम्पकः॥४०॥
तेन पुण्यप्रभावेन प्राप्तं राज्यमकण्टकम्।
सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह॥४१॥
दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी।
राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः॥४२॥
तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत्।
मतिरासीत्ततस्तस्य परमा वैष्णवी नृप॥४३॥
दिव्याभरणशोभाढ्यो लेभे राज्यमकण्टकम्।
कृतं राज्यं तु तेनैवं वर्षाणि दश पञ्च च॥४४॥
मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः।
आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च॥४५॥
गतः कृष्णस्य सान्निध्यं यत्र गत्वा न शोचति।
एवं यः कुरुते राजन् सफलाव्रतमुत्तमम्॥४६॥
इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात्।
धन्यास्ते मानवा लोके सफलायां च ये रताः॥४७॥
तेषां च सफलं जन्म नात्र कार्या विचारणा।
॥४८॥
पठनाच्छ्रवणाच्चैव करणाच्च विशाम्पते।
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः॥४९॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे पौष-कृष्ण-सफला-एकादशी-माहात्म्यं नाम द्विचत्वारिंशोऽध्यायः॥४२॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀