मार्गशीर्ष-शुक्ल-मोक्षदा-एकादशी-माहात्म्यम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ एकचत्वारिंशोऽध्यायः॥४१
युधिष्ठिर उवाच
वन्दे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम्।
विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम्॥१॥
पृच्छामि देवदेवेश संशयोऽस्ति महान्मम।
लोकानां च हितार्थाय पापानां क्षयहेतवे॥२॥
मार्गशीर्षे सिते पक्षे भवेदेकादशी तु या।
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते।
एतदाचक्ष्व मे स्वामिन् विस्तरेण यथातथम्॥३॥
श्रीकृष्ण उवाच
साधु पृष्टं त्वया राजन् साधु ते विमलं यशः।
कथयिष्यामि राजेन्द्र हरिवासरमुत्तमम्॥४॥
उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा।
मार्गशीर्षोत्पत्तिरिति मम देहसमुद्भवा॥५॥
सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ।
कथिता च मया सा वै तवाग्रे राजसत्तम॥६॥
पूर्वा चैकादशी राजंस्त्रैलोक्ये सचराचरे।
मार्गशीर्षेऽसिते पक्षे उत्पत्तिरिति नामतः॥७॥
अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या।
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्॥८॥
मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा।
देवं दामोदरं राजन् पूजयेच्च प्रयत्नतः॥९॥
तुलस्या मञ्जरीभिश्च धूपैर्दीपैः प्रयत्नतः।
पूर्वेण विधिना चैव दशम्येकादशी तथा॥१०॥
मोक्षा चैकादशी नाम्ना महापातकनाशिनी।
रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम॥११॥
शृणु राजन् प्रवक्ष्यामि दिव्यां पौराणिकीकथाम्।
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत्॥१२॥
अधोयोनिगतश्चैव पितरो यस्य पापतः।
अस्याश्च पुण्यदानेन मोक्षं यान्ति न संशयः॥१३॥
चम्पके नगरे रम्ये वैष्णवैश्च विभूषिते।
वैखानसो नाम नृपः पुत्रवत् पालयेत् प्रजाः॥१४॥
वसन्ति बहवो विप्रा वेदवेदाङ्गपारगाः।
ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि॥१५॥
एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यतः।
स्वकीयपितरो दृष्ट्वा अधोयोनिगता नृप॥१६॥
एवं दृष्ट्वा च तान् सर्वान् विस्मयाविष्टमानसः।
कथयामास वृत्तान्तं स्वप्नजातं द्विजान् प्रति॥१७॥
राजोवाच
मया स्वपितरो दृष्ट्वा नरकोपगता द्विजाः।
तारयेति तनूज त्वमस्मान्निरयसागरात्॥१८॥
एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः।
मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम्॥१९॥
एतद् राज्यं मम महत् सुखदायि न विद्यते।
अश्वा गजास्तथा सर्वे रोचन्ते मे न भो द्विजाः॥२०॥
न दारा न सुता मह्यं रोचन्ते द्विजसत्तमाः।
किं करोमि क्व गच्छामि हृदयं मेऽवरुध्यते॥२१॥
तद् व्रतं तं तपोयोगं येनैव मम पूर्वजाः।
मोक्षं प्रयान्ति सद्यो वै कथ्यतां च द्विजोत्तमाः॥२२॥
पुत्रे तु जीवितप्राये बलीयसि महात्मनि।
पिताऽस्ति नरके घोरे तस्य पुत्रस्य किं फलम्॥२३॥
ब्राह्मणा ऊचुः
पर्वतस्य मुने राजन् निकटे चाऽऽश्रमो महान्।
गम्यतां राजशार्दूल भूतं भव्यं विजानतः॥२४॥
तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान्।
जगाम चाऽऽशु तत्रैव चाऽऽश्रमं पर्वतस्य च॥२५॥
ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः।
आश्रमं विपुलं तस्य सम्प्राप्तो राजसत्तमः॥२६॥
तत्रर्ग्वेद-यजुर्वेद-सामाध्ययन-कोविदैः।
वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा॥२७॥
दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा।
दण्डवत् प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः॥२८॥
पप्रच्छ कुशलं तस्य सप्तस्वङ्गेष्वसौ मुनिः।
राज्ये निष्कण्टकत्वं च राज्ञः सौख्यसमन्वितम्॥२९॥
राजोवाच
तव प्रसादाद् भो स्वामिन् कुशलं मेऽङ्गसप्तसु।
भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता॥३०॥
मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः।
कस्य पुण्यस्य सामर्थ्यान्मोक्षं यान्ति द्विजोत्तम॥३१॥
अयं मे संशयः स्वामिन् प्रष्टुं तं त्वामुपागतः।
उपायः कश्चिदेवात्र कर्तव्यो मुनिसत्तम॥३२॥
एतद् वाक्यं ततः श्रुत्वा पर्वतो मुनिसत्तमः।
ध्यानस्तिमितनेत्रोऽभूत् तपस्वी ब्रह्मसन्निभः॥३३॥
मुहूर्तमेकं ध्यानस्थो भूपतिं प्रत्युवाच ह।
ज्ञातं हि तव राजेन्द्र पितॄणां पूर्वचेष्टितम्॥३४॥
पूर्वजन्मनि तातस्ते क्षत्रियो राज्यगर्वितः।
सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः॥३५॥
गतो ग्रामे तु तां त्यक्त्वा कार्यार्थी निजयोषितम्।
तव पित्रा तु तस्याश्च न दत्तमृतुदानकम्॥३६॥
तेन पापप्रभावेन नरके पितृभिः सह।
पतितो राजशार्दूल तव तातः सुदारुणे॥३७॥
ततः पुनरुवाचेदं राजा वैखानसो मुनिम्।
केन व्रतप्रभावेन मोक्षस्तेषां भवेन्मुने॥३८॥
मुनिरुवाच
मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः।
सर्वैश्चेतद् व्रतं कार्यं पित्रे पुण्यं प्रदीयताम्॥३९॥
तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति।
सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा॥४०॥
मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः।
मार्गशीर्षस्तथा मासः प्राप्तः कष्टेन तेन वै॥४१॥
मुनेर्वाक्येन तत्कृत्वा व्रतं वैखानसो नृपः।
अददत् पुण्यमखिलैः सार्धं पित्रे स भूमिपः॥४२॥
दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि।
वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत्॥४३॥
राजानं चान्तरिक्षे स गिरं पुण्यामुवाच ह।
स्वस्ति स्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः॥४४॥
एवं यः कुरुते राजन् मोक्षामेकादशीं शुभाम्।
तस्य पापानि नश्यन्ति मृतो मोक्षमवाप्नुयात्॥४५॥
नातः परतरा काचिन्मोक्षदैकादशी भवेत्।
पुण्यसङ्ख्यां न जानामि राजन् मे प्रियकृद् व्रतम्॥४६॥
चिन्तामणिसमा ह्येषा नृणां मोक्षप्रदायिनी।
पठनाच्छ्रवणादस्या वाजपेयफलं लभेत्॥४७॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे मार्गशीर्ष-शुक्ल-मोक्षदा-एकादशी-माहात्म्यं नाम एकचत्वारिंशोऽध्यायः॥४१॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀